प्रास्ताविकानि पृष्ठानि
ॐ हरिः ॐ
विद्वत् कविवर श्रीरामेन्द्रसुन्दर भक्तितीर्थकृत श्रीरामकृष्णभागवतस्य
महामहोपाध्याय श्रीकालीपद तर्काचार्य प्रदत्त प्रशस्तिपत्रम्
भाषासुदैवतगवी किल भारतस्य
सर्वार्थबोधनविधौ शरणं पुरासीत् ।
वेदास्तथास्मृति समूह मुखानि शास्त्राण्येतां
गिरं समुपजीव्य चरन्ति लोके ॥१॥
अद्यपि भारतपदे विषये पवित्रे
पूजादिके शरणतामियमेव याति ।
स्तोत्राणि दैवकवचानि च मङ्गलानि
नाद्यापि किं सुरगिरैव पठन्ति सन्तः ॥२॥
राष्ट्रेऽपि सम्प्रति विशेषविधि प्रवृत्तौ
दैव्या गिरैव मनुजाः शुभमाचरन्ति ।
भाषान्तरादिहगुणो यदि नास्ति कश्चिद्
विज्ञान निष्ठित युगेऽपि कथं तदेवम् ॥३॥
अस्त्येव शक्तिरसमा सुरवाचि सिद्धा
मन्त्रादयः कुलतयैव ततो निबद्धाः ।
तत प्रत्ययादमरवाङ्गमयमेव काव्यं
रामेन्द्रसुन्दर कविः किमपि प्रचक्रे ॥४॥
श्रीमद्भागवतं व्यधत्त भगवान् व्यासः
पवित्रं यथा
श्रीकृष्णस्य चरित्रमुज्ज्वलरसं संश्रित्य
चित्रक्रमम् ।
तद्वद्वृत्तमुपश्रितः परतरं श्रीरामकृष्णाश्रयं
नव्यं भागवतं व्यधात् सुमधुरं रामेन्द्र
विद्वत् कविः ॥५॥
सम्पूर्णं तदिदं मया रसमयं संविक्षितं
सादरं
येनान्तःकरणेऽजनिष्ट परमानन्दः सतां
वाञ्छितः ।
सत्काव्यं नियतं मतं मतिमतां तच्चेन्महामानवम्
किञ्चित्संस्रयते तदाहि परमं तत्
कोविदैरूह्यते ॥६॥
के वा नैव विदन्ति चित्रचरितणं
श्रीरामकृष्णं गुरुम्
संसिद्धिं किल दक्षिणेश्वरपदे
श्रीभारतान्तर्गते ।
आद्यासिद्धिमुपेयुपो भगवतस्तस्याति चित्रक्रमा
सर्वत्रैव वसुन्धरा परिसरे कीर्त्तिः
प्रतिष्ठां गता ॥७॥
सर्वं तच्चरितं महत्त्वकलितं संगृह्य
यत्ने रसौ
रामेन्द्रः कविशेखरः स्थविरतां
यातोऽप्यशीर्णोद्यमः ।
कृत्वा संस्कृत भारतीमयमिदं काव्यं समां मेदिनीम्
सन्निबद्धे कृत वेदितां सुरगवी सर्वत्र
लब्धोदया ॥८॥
काव्येस्मिन् कविना श्रितातिसुसमा भाषा
सुरम्य् क्रमा
स्वल्पज्ञा अपि येन काव्य विषयान् बोद्धुं
भवेयुः क्षमाः ।
सर्वं वस्तु विवक्षितं स्फुटमभूद् वक्तुर्वचः कौशलात्
संस्कारो वचसां तथा न पचितश्छन्दः स्थितिः
सुश्रवा ॥९॥
श्रीमन्नरेन्द्र प्रमुखा महान्त
श्रीरामकृष्णस्य गुरोर्हि शिष्याः
सुविस्तृतं तच्चरितञ्च काव्ये निवद्धमस्मिन् कविनाति यत्नात् ॥१०॥
गत्वा विदेशं निपुणो नरेन्द्रः
श्रीरामकृष्णस्य महाविभूत्या ।
वेदान्तधर्मं सदसि प्रचार्य चक्रे यथा भारतकीर्ति सिद्धीम् ॥११॥
तत्सर्वमप्यत्र परं प्रकाश्य गीर्वाण
वाण्या सरल प्रकारम् ।
भाषान्तरेणाविदतां तदेतद् विज्ञाप्य भव्यं कविरेव चक्रे ॥१२॥
काव्यस्यास्य पवित्रशरणस्यालोचना
शान्तिदाम्
सूते भक्तिमनाविला तनुभृतां सम्भारतापापदाम् ।
कालेह्यत्रकलौ तथा सुमहतां वृत्तं परं दुर्लभम्
यस्याकर्णनमात्रमेव शिवदं तत् संश्रितेः का कथा ॥१३॥
तदस्य काव्यस्य कविः प्रशस्यो यस्योद्यमो
युवन् इव प्रभूतः
वृहस्य बुद्धौ साम्यभाजो व्याख्यान् कृत्यादि विचक्षणस्य ॥१४॥
ये संस्कृतं बोद्धुमन्तः न लोका विज्ञाः
परन्त्वाङ्गल वाङ्मयेषु ।
तेषां विबोधाय कृतोऽनुवादः पाश्चात्य वाचाय परं प्रशस्य ॥१५॥
तदस्य काव्यस्य पवित्र वस्तुनः क्वापि
प्रचारे नहि विघ्न सम्भवः ।
सर्वे ततो विश्वजना निवेदितं वृत्तं विदित्वास्य भजन्तु सम्पदम् ॥१६॥
नैवं पुरा संस्कृत भाषायान्यः
श्रीरामकृष्णस्य पवित्र वृत्तम् ।
काव्ये समारोप्यदिदेश कश्चित् कविस्ततोऽसौ नव मार्गदेष्टा ॥१७॥
तेन प्रणीतस्य गुणैर्वरस्य काव्यस्य
भूयाद् बहुलः प्रचारः ।
कवेः श्रमो येन फलं प्रयायाद् दिव्यञ्च भव्यं वृणुयाद् धरित्री ॥१८॥
अस्य प्रकाशाय कृतोपकारं प्रशस्तिभाग्
भारतवर्ष राष्ट्रम् ।
राष्ट्रस्य याते गणतन्त्रभावे तस्यैव तादृग् विषयेऽधिकारः ॥१९॥
देहं निरामयमयं कविरत्न विन्दन्
दीर्घायुष परिगतः स्वजनैः समेतः ।
नित्यं परेश कृपया सुखितां दधानः
कृत्यं तथैव रचयन्नुपयतु वृद्धिम् ॥२०॥
इति महामहोपाध्याय श्रीकालीपद तर्काचार्यस्य ।