आदिलीला
ब्राह्मणः सिद्धान्तः
आदिलीलायां तृतीयोऽध्यायः
अष्टाशीतितमे वर्षे शारदीय महोत्सवे ।
गतः श्रीक्षुदिरामस्तु भागिनेय गृहं शुभम् ॥१.३.१॥
पीडितः क्षुदिरामस्तु तत्र पीडा
व्यवर्द्धत ।
सद्वैद्यौषधिं शुश्रुषा पथ्यादेर्न त्रुटिः कृता ॥१.३.२॥
नाम्ना श्रीरामचाँदेन भागिनेयेन केनचित् ।
मातुलस्यान्तिमा यात्रा मद्गेहे नात्र संशयः ॥१.३.३॥
भवेदेवं विनिश्चित्य कामारपुकुरात्तदा ।
आनीतोमातुलसुतो ज्येष्ठो रामकुमारकः ॥१.३.४॥
एवं कृच्छ्रगतोदेव्याः पूजनं त्रिदिनं
कृतम् ।
दशम्यान्तु प्रातरेव कृतं देव्या विसर्जनम् ॥१.३.५॥
निमज्याम्भसि मध्याह्ने देव्यास्तां
प्रतिमां शुभाम् ।
आगतं रामचाँदन्तु दृष्ट्वा कम्पस्वरेण च ॥१.३.६॥
उक्तं श्रीक्षुदिरामेन प्रतिमा किं
विसर्जिता ।
विसर्जनं ममाप्येव शेषकृत्यं कुरुस्व भो ॥१.३.७॥
आशीर्वादं प्रयच्छामि श्रीरामे मतिरस्तु
ते ।
पुत्रानां यः कनिष्ठो मे तदर्थं चिन्तितोऽधुना ॥१.३.८॥
कुरु तस्य सुकल्यानं रघुवीर दयानिधे ।
भवतः पादयोर्नस्य तं यामि भवदन्तिके ॥१.३.९॥
कृत्वा शयोत्थितं मान्तु समुत्तोल्याति
यत्नतः ।
शुद्धासने स्थापयित्वा कुरु पद्मासनं मम ॥१.३.१०॥
तत्क्षणात्तत्कृतं तेन चोपविश्याति
कृच्छ्रतः ।
अञ्जलिं मस्तकेबद्धा श्रीरामं ध्यातवान् द्विजः ॥१.३.११॥
भवभयहरमेकं भाणुकोटि प्रकाशं
करधृत शरचापं कालमेघावभासम् ।
कणकरुचिरवस्त्रं रत्नवत् कुन्तलाव्यम्
कमलविशदनेत्रं जानकी राममीडे ॥१.३.१२॥
रामं रामनुजं सीतां भरतं भरतानुजम् ।
सुग्रीवं वायुसूनुञ्च प्रणमामि पुनः पुनः ॥१.३.१३॥
एवं ध्यात्वा गद्गदेन स्वरेण नेत्रवारिणा ।
आर्दीभूतो राम नाम रघूवीरस्य मङ्गलम् ॥१.३.१४॥
वदन् प्रारब्धजं देहं तत्याज पाञ्चभौतिकम्
।
ततः शुद्धां भागवतीं सच्चिदानन्दरूपिणीम् ॥१.३.१५॥
तनुं लब्धा गतो विप्रस्तद्विष्णोः परमं
पदम् ।
वैकुण्ठाख्यं पूर्णब्रह्म श्रीरामः सीतया सह ॥१.३.१६॥
विराजितो यत्र तत्र तत्सेवां प्राप्तवान्
द्विजम् ।
एवमद्भुत संयानमभूत्तस्योत्तमोत्तमम् ॥१.३.१७॥
निशीथे शवदेहन्तु सङ्कीर्तन पुरःसर ।
नीत्वानद्यास्तीरभूमिमन्त्येष्टि सुसमाप्यं च ॥१.३.१८॥
पराहे शोकसन्तप्तः पुत्रो रामकुमारक ।
स्वगेहे पुनरागम्य पितुः स्वर्गतिमुक्तवान् ॥१.३.१९॥
हाहारवैः पूर्णमसीत् कामार्पुकुरस्तदा ।
तद्ग्रामवासिन सर्वे शोकसंविग्नमानसाः ॥१.३.२०॥
बालवृद्धयुवानश्च स्नानाहार विवोर्जिताः ।
पितुः प्रेतत्वमुक्तत्वर्थं स्वर्लोकगमनाय च ॥१.३.२१॥
वृषोत्सर्गः कृतो रामचाँदस्य सहयोगतः ।
वेदज्ञ बहुविप्राणां दानमानादिभिस्तथा ॥१.३.२२॥
पूजनं भोजनं तत्र कारयामास सुव्रतः ।
पितृकृत्ये सुसम्पन्ने श्रीरामकुमारोपरि ॥१.३.२३॥
संसारभारः पतितः कुलधर्मानुसारतः ।
तदा तन्मध्यमभ्राता श्रीरामेश्वर नामकः ॥१.३.२४॥
अष्टादशवयःप्राप्त स्मृतिज्योतिषपारगः ।
पितुर्वियोगसन्तप्तचाष्टवर्शी गदाधरम् ॥१.३.२५॥
ज्ञातं साधारणै किन्तु विशोकऽयं गदाधरः ।
विद्याभ्यासे तदारम्य प्रायेण यत्नहीनता ॥१.३.२६॥
निर्जनप्रियता चिन्ताशीलता परिलक्षिता ।
राजोद्याने भूति खाले मोडलस्य मृतालये ॥१.३.२७॥
उपविश्योर्द्धदृष्टि स सदाचिन्तापरोऽभवत् ।
शीतवर्षादिभिर्बालो न किञ्चिदपि चालित ॥१.३.२८॥
दिवा किम्वा निशेयम्वा न जानाति गदाधरः ।
धर्मदासभूतो बालः श्रीगयाविष्णु नामकः ॥१.३.२९॥
बन्धुत्वमुभयोरासीन्नाम सादृश्यतस्तयोः ।
प्राप्तमात्रं भोज्यद्रव्यं मिष्टान्नं वा फलादिकम् ॥१.३.३०॥
अकृत्वा बन्धुसात् क्वापि न तदास्वादनं
कृतम् ।
पूर्णे तु नवमे बर्षे उपोनीत्यर्थमुद्यमः ॥१.३.३१॥
कृतो रामकुमारेण भ्रातुर्गदाधरस्य हि ।
श्रुत्वैवं स्वोपनयनं प्रोक्ता माता प्रतिश्रुतिः ॥१.३.३२॥
या दत्ताप्युमात्रे च बालगदाधरेण वै ।
धनीनाम्न्युपमाता मे भिक्षामग्रे प्रदास्यति ॥१.३.३३॥
नोचेदहं न गृह्णामि यज्ञसूत्रं कदाचन ।
श्रुत्वारामकुमारस्तद्दुःखितोऽभूद्विशेषतः ॥१.३.३४॥
वेदारम्भात् परं सूर्यं शूद्रं
साधारणस्त्रियम् ।
दिनत्रयं न द्रष्टव्यमिति शास्त्रस्य शासनम् ॥१.३.२५॥
शास्त्राचार परित्यागे स्वजनैर्निन्दितो
भवेत् ।
तत्कर्मदिन पूर्वाह्ने धर्मदासे गृहागते ॥१.३.२६॥
राजतुल्ये पितृबन्धो मीमांसाभार आह्वितः ।
उक्तं रामकुमारेण शूद्रकन्या धनी कथम् ॥१.३.२७॥
भिक्षां दास्यति सर्वाग्रे श्रुतं
मातुसमीपतः ।
अतोऽत्र सुविधेयं यत् तदुपादिश भो वुधः ॥१.३.२८॥
प्राचीनः कर्मकुशलो भवान् शुद्रोति
धार्मिकः ।
श्रुत्वेवं सकलं रामकुमारमवदत्तदा ॥१.३.३९॥
यद्यप्यस्मिन्कुलेनास्ति शूद्रभिक्षा
कदाचन ।
किन्तु ब्राह्मणपुत्रस्य बालकब्रह्मचारिणः ॥१.३.४०॥
बहुत्र शूद्रभिक्षाया ग्रहणं दृश्यते मया ।
प्रतिश्रुतेः पालनार्थं बालेच्छापूरणाय च ॥१.३.४१॥
अतोऽत्रशूद्रभिक्षाया न तादृग् दोष उच्यते
।
तन्मतेनैव सा साध्वी धनी श्रीब्रह्मचारिणे ॥१.३.४२॥
मेखलाजिन संयुक्त यज्ञसूत्र धराय च ।
विल्वदण्ड वंशदण्ड काष्ठ पादुका धारिणे ॥१.३.४३॥
मातर्भिक्षां प्रयच्छेति
भिक्षार्थमुद्यताय च ।
दत्वा भिक्षां धनो माता प्रणम्य श्रीगदाधरम् ॥१.३.४४॥
आह चैवं कृतार्थाहं कृपया तव हे प्रभो ।
त्वमेव जगतां त्राता भगवान् विष्णुरव्ययः ॥१.३.४५॥
अतो हे त्वां नमस्यामि भुयोभूयो नमास्यहम्
।
सावित्रीग्रहणञ्चैवं समुपन्नमलौलिकम् ॥१.३.४६॥
श्रीरामकुमार एव वेदारम्भमकारयत् ।
ततः श्रीरघुवीरस्य शीतलाया घटस्य च ॥१.३.४७॥
पूजनं सुष्टुभावेन कृतं गदाधरेण वै ।
पूजाकाले भक्तिनिष्ठाभावार्द्रहृदयेन तु ॥१.३.४८॥
साक्षात्कृत समाधिना सच्चिदानन्द विग्रहः ।
भावभावितचित्तेन यदुक्तं सत्यमेवतत् ॥१.३.४९॥
तत्क्षणात्तद्भवत्येव दृष्ट्वा सर्वे
सुविधास्मिताः ।
एकदा राजतुल्यानां बहुमानयतां सताम् ॥१.३.५०॥
तेजो बल समृद्धानां विप्रदैवत मानिनाम् ।
प्रायेण गृहसंलग्न सुदीर्घमण्डपे शुभे ॥१.३.५१॥
दानसागर श्राद्धाह्ने सभा शोभा समायुते ।
स्वर्णरौप्यमयैर्द्रव्यैस्तु बहुविस्तरैः ॥१.३.५२॥
अत्युच्च कलशे रत्नपात्रैश्च परिपुरिते ।
बहवः पण्डितास्तत्र समासीना महाशयाः ॥१.३.५३॥
मीमांसान्याय स्मृत्यादि धर्मशास्त्र
विशारदाः।
नाना देशागतास्ते तु सशिष्य भृत्य वाहनाः ॥१.३.५४॥
ततच्छास्त्र विचारेषु निविष्टाः
शुद्धबुद्धयः ।
तत्र कश्चिद् ब्राह्मणस्तु कुलिनो यष्टिधारकः ॥१.३.५५॥
कङ्काल मात्र सारस्तु कम्पान्वित कलेवर: ।
शूलव्याधि समायुक्तः क्षीणकण्ठस्वरो युवा ॥१.३.५६॥
मूर्द्धन्यञ्जलिं समारोप्य पण्डितानवदञ्च
तान् ।
भो भो ब्रह्मविदो विप्राः शृणुध्वं कृपया वचः ॥१.३.५७॥
विंशत्यधिकवर्षाणि शूलरोगप्रपीडितः ।
रोगमुक्तिर्न मे जाता सद्वैद्यौषधि सेवनात् ॥१.३.५८॥
पुत्रपत्न्युपदेशेन सर्वरोग विमुक्तिदम् ।
देवदेवं समासाद्य तारकेश्वरमीश्वरम् ॥१.३.५९॥
स्नानपूजादिकां कृत्वा मन्दिरे
पतितोह्यहम् ।
मरणं रोगमुक्तिं वा देहि मे तारकेश्वर ॥१.३.६०॥
निश्चित्यैवं तदा किञ्चित्
सुस्थतामुपलब्धवान् ।
निद्रावेशमनुप्राप्तो दृष्टवान् स्वप्नमुत्तमम् ॥१.३.६१॥
यथा मत्सन्निधौ कश्चिदायाति पुरुषोत्तमः ।
तत् पदुकाद्वनिं श्रुत्वा नेत्रमुन्मील्य दृष्टवान् ॥१.३.६२॥
सुवर्ण पादुका युक्ते तस्यैव चरणे शुभे ।
व्याघ्र चर्मादृत कटिस्तुन्दैलः शूलहस्तकः ॥१.३.६३॥
अर्धचन्द्रो ललाटे च त्रिनेत्रः
सुविराजितः ।
सुदीर्घ विग्रह युतो भस्म लिप्तो जटन्वितः ॥१.३.६४॥
विश्वचक्षुर्दीनबन्धुर्भक्तदुःखेन दुःखितः
।
दृष्ट्वा मां समुवाचेदं गच्छ विप्र निजं गृहम् ॥१.३.६५॥
भवद्ग्राम प्रान्तभागे कश्चिद्
गोमांसभक्षकः ।
युवा नाम्ना जटाधारी चर्मपादुकाकारकः ॥१.३.६६॥
स्नानाद्यन्ते भक्तियुतः साष्टाङ्गं
प्रणिपत्य तम् ।
पीत्वा पादोदकं तस्य भवत्या प्रव्रूहि कातरम् ॥१.३.६७॥
भिक्षां मे देहि तात त्वं मद्वाञ्छा पूरणं
कुरु ।
भवदुच्छिष्ट भक्तं मे कृपया देहि जीवनम् ॥१.३.६८॥
तद्भक्त भोजनं विप्र नैर्घृन्येन कुरुष्व
भो ।
एवं कृते रोगमुक्तिः शतायुश्च भविष्यति ॥१.३.६९॥
एवमुक्ता स भगवांस्तत्रैवान्तरधीयत ।
अतोऽत्र यद्विधेयं मे वेदज्ञास्तद्वदन्तु भो ॥१.३.७०॥
येन मे रोगमुक्तिस्यान्न वा
जातिच्युतिर्भवेत् ।
श्रुत्वैवं पण्डितास्तत्र केचिदाहुस्तथा कुरु ॥१.३.७१॥
प्रायश्चित्तं ततः कृत्वा भक्षपापं
व्यपोहतु ।
केचिदहुर्यदिपुनर्व्याधिः स्मुत्थितो भवेत् ॥१.३.७२॥
को जानाति किमुद्दिश्य
भगवद्वाक्यमुत्थितम् ।
एवं बहुविधैस्तर्कैर्न सिद्धान्तः समुत्थित ॥१.३.७३॥
तदा कैशोरकवयः क्षुदिरामात्मजो द्विजः ।
नाम्ना गदाधरः ख्यातः सुविज्ञः प्रियदर्शनः ॥१.३.७४॥
बहुभिः पण्डितैर्युक्ते सभामध्ये
समुत्थितः ।
प्रणम्य पण्डितान् सर्वान् कृत्वाञ्जलिपुटः सुधी ॥१.३.७५॥
उवाच तान् महाभागान् गिरा मधुरया नतः ।
भो भो पण्डित पञ्चास्या विद्यावन-विचारिणः ॥१.३.७६॥
अविद्या करिवर्गानां नाशकाः सुविचारकाः ।
मीमांसा यात्न मे सैषा श्रूयतां सुसमाहितैः ॥१.३.७७॥
विप्रोऽयं चर्मकारेण सहितः
क्षेत्रमुत्तमम् ।
जगन्नाथस्य गत्वा हि प्रसादान्नं प्रगृह्य च ॥१.३.७८॥
चर्मकारं भोजयित्वा तदुच्छिष्टं स्वयं यदि
।
भुङ्क्ते वै भक्तिभावेन न तत्र दोषः उच्यते ॥१.३.७९॥
जगन्नाथ प्रसादान्नमुच्छिष्टं कुक्कुरै
यदि ।
कृतं तदेव भक्ष्यं स्यादिति शास्त्र विनिर्णयः ॥१.३.८०॥
एवं कृते रोगमुक्तिर्न वा
जातिच्युतिर्भवेत् ।
एतन्मम मतं पूज्या भवद्भ्यो यदि रोचते ॥१.३.८१॥
तच्छीघ्रं तत्र गत्वायं करोत्वेवं
द्विजोत्तमः ।
श्रूत्वैवं बहुसाहसाः सभास्थ ब्राह्मणादयः ॥१.३.८२॥
प्रधान पण्डिताश्चापि स्वासनेभ्यः
समुत्थिताः ।
बहुशो धन्यवादञ्च दत्वा गदाधराय वै ॥१.३.८३॥
आशीर्वादः कृतस्तैश्च
विद्वद्भिर्ब्राह्मणोत्तमैः ।
अयं गदाधरः श्रीमान् गदाधर समोगुणैः ॥१.३.८४॥
जगद्वासिजनानान्तु गुरुतां याति निश्चितम्
।
पृथिव्यां भगवत्तुल्यः पूजितश्च भविष्यति ॥१.३.८५॥
स्वर्ण रौप्यादिभिर्दानैर्यजमानेन पूजिताः
।
भुदेवाः पण्डिताः सर्वे स्वं स्वं धामं ययुर्मुदा ॥१.३.८६॥
इति श्रीरामेन्द्र सुन्दरभक्तितीर्थ विरचिते श्रीश्री रामकृष्णभागवते पारमहंस्यां सहितायां गदाधरस्यादि लीला समाप्ति रूपः तृतीयोध्यायः ॥३॥