मध्यलीला

राज्ञ्या रासमणेः काशीक्षेत्रे गमनकाले स्वप्ने साक्षादन्नपूर्णाया आदेशतः श्रीमन्दिर प्रतिष्ठादिः

मध्यलीलायां द्वितीयोऽध्यायः


अपुत्रवत्यास्तद्राज्ञ्या आसीत् कन्याचतुष्टयम् ।
सत्पात्रेभ्योऽर्पिता तिस्रः कनिष्ठा तु कुमारिका ॥२.२.१॥

जगदम्बेति नाम्ना सा जगदम्बा समाभवत् ।
चतुश्चत्वारिंशद्वर्षे राज्ञीयं विधवा भवत् ॥२.२.२॥

बुद्धिमत्ताबलेनैव बर्द्धिता राजसम्पदः ।
जामातृ ज्येष्ठ मथुरानाथ विश्वाससज्ञकः ॥२.२.३॥

गुणवान् रूपवान् धीमान् सर्वकार्य पटुर्महान् ।
तस्य प्रसूयैव सुतं स्वर्गता सहधर्मिणी ॥२.२.४॥

दत्वा राज्ञी पुनः कन्यां जगदम्बेति नामिकाम् ।
राज्यरक्षा भारमपि ददौ तस्मै प्रयत्नतः ॥२.२.५॥

परन्तु निज सम्पत्तेर्भारं न्यस्य सुधार्मिका ।
धर्मार्थमकरोद्राज्ञी तीर्थपर्यटने मतिम् ॥२.२.६॥

गदाधरागमात्पूर्वं यावद्वर्षचतुषटयम् ।
द्विषट्शत बङ्गीयाब्दे पञ्चपञ्चाशदुत्तरे ॥२.२.७॥

अदभ्रद्रव्यसम्भार सशस्त्र सैनिकान् बहून् ।
प्राज्य प्रजापरिजन धनरत्नादिकां स्तथा ॥२.२.८॥

नाना देशागतान् पोतैश्चातुर्वर्ण्यान् बहून् जनान् ।
वारानस्यामन्नपूर्णा श्रीविश्वनाथ दर्शने ॥२.२.९॥

नरनारी जनाः सर्वे शुभेऽह्नि समये शुभे ।
वैशाखेऽक्षय संज्ञायां तिथौ भागीरथी जले ॥.१.१०॥

आरुह्यासङ्ख्य नौका सुपुन्यभावपरिप्लुताः ।
सहराज्ञ्या शुभां यात्रां कृत्वा सर्वे यथाविधि ॥.१.११॥

विश्वनाथान्नपूर्णायोः कृत्वा नाम्ना जयध्वनिम् ।
गच्छन्त्यो नरनार्यश्च कलिकाताख्यपत्तनात् ॥२.२.१२॥

कलिकातां परित्यज्य नौकाश्रेणी यदागता ।
दक्षिणेश्वर गङ्गायां तदा सन्ध्या समागता ॥२.२.१३॥

दक्षिणेश्वर इत्याख्या ग्रामस्य स्वर्नदीतटे ।
नित्यं सन्निहिता यत्र देवो दक्षिण कालिका ॥२.२.१४॥

मेघजाल समाच्छन्नं तदैवाकाशमण्डलम् ।
झञ्झाबात परिव्याप्तं चञ्चलं तरिमण्डलम् ॥२.२.१५॥

तरणीयात्रिणां तस्मादन्तरे भयमुत्ठितम् ।
दुर्योगं भीषणं दृष्ट्वा राज्ञी चिन्तान्विताब्रवीत् ॥२.२.१६॥

नौचालकान् समाहूय क्षिपताया कण्टकम् ।
शर्वरीं क्षपयिष्यामो वयमशेव निश्चितम् ॥२.२.१७॥

पतन्ते नाविकाः सर्वे श्रुतिमात्रेण तत्क्षणात् ।
विश्वनाथान्नपूर्णयोर्नाम्ना कृत्वा जयध्वनिम् ॥२.२.१८॥

कण्टकान् पोथितान् कृत्वा भोजनादोन समाप्य च ।
शयन स्व स्व शय्यायां कृत्वा निद्रामुपागमन् ॥२.२.१९॥

महानिशा सुप्तिमग्ना निस्तब्धा दिगचेतना ।
केवलं भगीरथ्यास्तु तरङ्गभङ्गिमा बहुः ॥२.२.१०॥

छलत् छलत् शब्दमात्रं नौकासुप्रतिदघातजम् ।
राज्ञी रासमणिश्चापि शय्यायां गाढ निद्रिता ॥२.२.२१॥

तदा सा तदवस्थायामपूर्वं स्वप्नमुत्तमम् ।
ददर्श येन स्वप्नेन त्रिकोटीकुलमुद्धृतम् ॥.१.२२॥

परन्तु पृथिवीपूता प्राकट्यादीश्वरस्य हि ।
तपसः परिपाकोऽयं जगतः शान्ति हेतवे ॥२.२.२३॥

स्वप्ने साक्षादन्नपूर्णा तदा मूर्तिमती सती ।
राज्ञीमाह महादेवी गिरा माधुर्ययुक्तया ॥२.२.२४॥

तव रासमणे मातर्गमने नालमन्यतः ।
वाराणस्यामन्नपूर्णा श्रीविश्वनाथ दृष्टये ॥२.२.२५॥

अस्मिन् भागीरथी तीरे निर्माय मम मन्दिरम् ।
स्वाभीष्टदेवता मूर्तेः प्रतिष्ठां कुरु भक्तितः ॥२.२.२६॥

तस्मै नित्यमन्नभोगप्रदनैः प्रीणस्य माम् ।
भुक्त्वाहन्तद्भोगगद्रव्यं प्रसन्नमनसा सदा ॥२.२.२७॥

तवाभिलाषं सम्पूर्णं पूरयिष्यामि सुव्रते ।
मातस्त्वं मत्प्रसादेन मामेवैष्यस्यसंशयम् ॥२.२.२८॥

उक्तैवं मस्तके हस्तं दत्वाशीर्वाद तत्परा ।
यदृच्छया गता देवी तत्रैवान्तरधीयत ॥२.२.२९॥

आदेशमेवं तं देव्यास्तदा दिव्यप्रदर्शनम् ।
लब्धेव तत्क्षणाद्राज्ञ्या निद्राभङ्गो अभून्निशि ॥२.२.३०॥

भग्ननिद्रा च सा राज्ञ्यो शय्यायां समुपाविशत् ।
तदापि सा दिव्यवाणी कर्णयोः प्रतिनादिता ॥२.२.३१॥

रोमाञ्च स्वेदसंयुक्ता साश्रुनेत्रा सुकम्पिता ।
भक्त्या प्रगाढया देवीं प्रणम्य जगदम्बिकाम् ॥२.२.३२॥

उवाच स्वप्नो नैवायं साक्षाद्दृष्टमिहाद्भुतम् ।
स्वप्ने यदनुभूतन्तं सौरभं पारिजातजम् ॥२.२.३३॥

इदानीमपि शय्यायां सुगन्धः सुसमुत्थितः ।
चन्दनेन समायुक्तं कुङ्कुमेन विलेपितम् ॥२.२.३४॥

किमिदं लोहितं दृष्टं मम वस्त्राञ्चलेषु च ।
तथा मे शुभ्र शय्यायां पादाङ्गयारुण प्रभः ॥२.२.३५॥

एतैर्हि लक्षणैर्माता रुद्राणी ब्रह्मरूपिनी ।
अत्रागता न सन्देहो नान्या कापि मतिर्मम ॥२.२.३६॥

नमस्तस्यै महादेव्यै तदीय प्रीति हेतवे ।
यतिष्येऽहं जगन्मातः कृपैव तव मे गतिः ॥२.२.३७॥

एवं सद्भावभाविन्याः शर्वरीशेशिता भवत् ।
कुञ्जनैः कोकिलादीनां प्रभातं सूचितं तदा ॥२.२.३८॥

पद्मिनीपालकः प्राच्यामुदितोऽरुणवर्णयुक् ।
शय्योत्थिता तदा राज्ञी समाहूयाहतान् जनान् ॥२.२.३९॥

नाधुना मे तीर्थगतेः शक्तिः का च न विद्यते ।
भवन्तस्तत्र गच्छन्तु क्षमां कुर्वन्तु धार्मिकाः ॥२.२.४०॥

पुरुहितामात्य भृत्य कुटुम्ब पाचकादयः ।
मदीय द्रव्यसम्भारान् धनरत्नादिकांस्तथा ॥२.२.४१॥

सैनिकानस्त्रशस्त्रादीन् नीत्वा सर्वे व्रजन्तु ते ।
बिल्वपत्रे विश्वनाथं सहस्रैस्तु हिरण्मयैः ॥२.२.४२॥

ययाविधि सुसङ्कल्प्य पुरोधाः सृजयिष्यति ।
अन्नपूर्णां तथा देवीं समभ्यर्च्य प्रयत्नतः ॥२.२.४३॥

भोगद्रव्यं बहुविधं सूपान्नं पायसान्तिकम् ।
निवेद्य बहुभूदेवान् दण्डिसन्न्यासि वैष्णवान् ॥२.२.४४॥

दरिद्रान् श्वपाकादीन् भोजयित्वा यथाविधि ।
वस्त्रान्नजलपात्रादीन् दत्वा तेभ्यः समादरात् ॥२.२.४५॥

काशीस्थ देवताः सर्वा विविधैरुपचारकैः ।
सम्पूज्य विधिवद्भक्त्या पुनः शीघ्रं समेप्यथ ॥२.२.४६॥

विधायैवं तया राज्ञी सर्वान् सम्प्रेष्य यत्नतः ।
दक्षिणेश्वर गङ्गायां कृतवासा मनस्विनी ॥२.२.४७॥

कस्येयं वा तीरभूमिः कथं क्रीता भविष्यति ।
एवं दिवानिशं राज्ञी चिन्ताक्रान्ताभवत्तदा ॥२.२.४८॥

ततो मथुरानाथेन प्रयासैर्विपुलैस्तथा ।
तत्र भगीरथी तीरे भूभागो बहु विस्त्रृतः ॥२.२.४९॥

क्रीतो देवालयस्यैव निर्माणोद्योग पर्वणः ।
सभारम्भः कृतो राज्ञ्या बहुबित्तव्ययेन हि ॥२.२.५०॥

महाश्मशानभुः सैव शक्तिसाधनरूपिनो ।
शक्ति मन्दिर निर्माणे सुनिर्दिष्टा सुमाधवैः ॥२.२.५१॥

सोपानश्रेणियुक्तञ्च निर्मितं स्नानधट्टकम् ।
शिवलिङ्ग सम्मयुक्तं सूर्यसङ्ख्यं शिवालयम् ॥२.२.५२॥

कृत्वा त्रिशूल शीर्षञ्च घट्टस्योत्तरदक्षिणे ।
चक्र चिह्नित चूड श्रीविष्णुमन्दिरमुत्तमम् ॥२.२.५३॥

कृतं यत्र कृष्णचन्द्रो मोदते राधया सह ।
तद्वैवस्वततदिग्भागे सौरमण्डलचुम्बितम् ॥२.२.५४॥

जगदम्बामहादेव्या नवचूडविभूषितम् ।
सुभद्रं भवतारिण्या मन्दिरञ्चातिशोभनम् ॥२.२.५५॥

तन्मध्येऽष्ठिता माता काली कैवल्यदायिनी ।
महाकाल समारूढा त्रिनेत्रा वरदा शुभा ॥२.२.५६॥

खड्गमुण्ड धरा देवी वराभयधराकरा ।
सच्चिदानन्दरुपा सा परब्रह्म स्वरुपिनी ॥२.२.५७॥

यस्या दर्शनमात्रेण ब्रह्मानन्दं गता जनाः ।
एवं श्रीभवतारिण्या मन्दिरं निर्मितं तथा ॥२.२.५८॥

अर्थ सामर्थ प्राचुर्यान्निर्मितेऽपि सुमन्दिरे ।
भोगार्थं भवतारिण्याः श्रीराधावल्लभस्य च ॥२.२.५९॥

महत्यासौतदाचिन्ता राज्ञान्तरे सुदारुणा।
विग्रहार्जन वेलयामन्नभोग प्रवर्तते ॥२.२.६०॥

येनान्धसा ब्राह्मणानां भोजनं सम्भविष्यति ।
एकमान्तरिकीच्छायां प्रत्यहः समाजायत ॥२.२.६१॥

जातीनां वेद बाह्यानां देवदेवो समद्यते ।
अत्र भोगो न दातव्य इति शास्त्रानुशासनम् ॥२.२.६२॥

किन्तु साक्षादन्नपूर्णा ससूपव्यञ्जनादिभिः ।
अन्नभोग प्रदनार्थं स्वप्ने मां समुपादिशत् ॥२.२.६३॥

अतोऽव किं विधेयं मे येनात्मानुप्रसीदति ।
एवं राज्ञ्या महाचिन्ता भोगार्थं चेतसि वभौ ॥२.२.६४॥

काशीं काञ्ची नवद्वीप मिथिला देशतस्ततः ।
धर्मशास्त्राध्यापकानां पण्डितानां समीपतः ॥२.२.६५॥

आनीता बहु यत्नेन राज्ञ्या या विधिपत्रिका ।
अन्नभोगन्तु कुत्रापि शूद्रस्थापित विग्रहे ॥२.२.६६॥

एकमत्येन लिखितं विद्वद्भिर्न भवेदिति ।
श्रुत्वा राज्ञी वैधपत्रभाषणं मूर्च्छिताऽभवत् ॥२.२.६७॥

शास्त्रवाक्यं समुल्लङ्घ्य भोगदाने न मे स्पृहा ।
स्वेच्छया यदि दास्यामि तदन्नं गर्हितं भवेत् ॥२.२.६८॥

एवं सञ्चिन्त्य सा राज्ञी सिद्धिदात्रीं भयापहा ।
अश्रुजलाभिषिक्ता सा सर्वथा शरणं गता ॥.३.६९॥

उवाचैवं जगन्मातस्तवादेशान्मयाकृतं ।
देवमन्दिर निर्माणं तत्र मूर्तिरधिष्ठिता ॥.३.७०॥

अन्नभोग व्यवस्था च सुनिर्दिष्टा त्वयैव हि ।
त्वदिच्छा पूरणं मातस्त्वमेव कुरु कालिके ॥.३.७१॥

अङ्ग वङ्ग कलिङ्गेभ्यो विधानेऽपि समादृते ।
अन्नभोगो न दातव्य इति पण्डितभाषणम् ॥.३.७२॥

किङ्करोमि क्व गच्छामि केनाशा पूरिता भवेत् ।
भृशमेवं महाराज्ञी सन्तप्ता सा तदाऽभवत् ॥२.२.७३॥

कलिकाता नगर्यास्तु सर्वैर्ब्राह्मणपण्डितैः ।
विधिपत्रं महाराज्ञ्या दृष्टसालोचितं श्रुतम् ॥२.२.७४॥

एवं रामकुमारोऽपि प्रवरः स्मार्तपण्डितः ।
राज्ञ्या बन्धुं समाहूय कञ्चिदेकं तदा सुधीः ॥२.२.७५॥

प्रोवाचेयं भोगचिन्ता राज्ञ्या कार्या कदापि न ।
ददाम्यहं वैधपत्रं नीत्वा राज्ञीं प्रदर्शय ॥२.२.७६॥

श्रुत्वाचैवं तदा राज्ञी सद्यस्तत्रागता स्वयं ।
गललग्नीकृतवासाः प्राञ्जलिर्वाक्यमब्रवीत् ॥२.२.७७॥

ब्रह्मन् केन विधानेन वाञ्छासिहिर्भवेन्मम ।
तत् कुरुष्य महाभाग त्वमेवैकागतिर्ध्रुवा ॥२.२.७८॥

ततो रामकुमारेण पूर्वं विलिखितञ्च यत् ।
तद्वैधपत्रं स राज्ञीं श्रावयामास यत्नतः ॥२.२.७९॥

समन्दिरं विग्रहञ्च देववित्तादिकञ्च यत् ।
प्राग्विग्रह प्रतिष्ठाया सर्वस्वेदं विप्रसात्भवेत् ॥२.२.८०॥

तद्विग्रह प्रतिष्ठाञ्चेद् ब्राह्मणः सबिधास्यति ।
नैवमन्नप्रदाने तु शास्त्रवाधा भविष्यति ॥२.२.८१॥

तदत्रभोजनं विप्राः करिष्यन्तिकुतोभयाः ।
सुदृढेयं व्यवस्था मे शास्त्रवाक्यानुसारिणी ॥२.२.८२॥

श्रुत्वा राज्ञी पण्डितस्य भाषपत्रमचिन्तययत् ।
व्यवस्थेयमिष्टासिद्धेरनुकूला मता मम ॥२.२.८३॥

मद्वाञ्छा पूरणं मातुरन्नदायाः प्रमादतः ।
भविष्यति न सन्देहो हेतुश्चायं सुपण्डितः ॥२.२.८४॥

एवमुत्फुल्ल हृदयास्वानुकूले शुभे दिने ।
त्रिलक्ष मुद्रा क्रीतेन स्थानेन सह मन्दिरम् ॥२.२.८५॥

यथा शास्त्रं तदा राज्ञी गुरवे सम्प्रदाय च ।
सेवातत्तावधानस्य भारः स्वस्मै समर्पितः ॥२.२.८६॥

तथापि तदनुष्ठाने नाना विघ्नः समुत्थितः ।
विद्वांस कर्मकुशलं प्रापस्यामि कुत्र वा कथम् ॥२.२.८७॥

विद्याहीनो गुरोर्वंशो ये चास्माकं पुरोहिताः ।
नित्यपूजां न जानन्ति प्रतिष्ठा तैः कथं भवेत् ॥२.२.८८॥

तेषां प्राप्यानि दास्यामि करिष्यामि सुपण्डितैः ।
प्रतिष्ठां भवतारिण्याः श्रीराधावल्लभस्य च ॥२.२.८९॥

सहसा तन्म्नोमध्ये भाग्ययोगात्तदोदिता ।
विधानदातुः श्रीरामकुमारस्य सुयोग्यता ॥२.२.९०॥

कालक्षेपमकृतवैव झामापुस्करिणीं गता ।
विद्वान् रामकुमारोऽसौ यत्राध्वयनयुक् सदा ॥२.२.९१॥

कृत्वाभिवन्दनं राज्ञौ तत्पादलुण्ठिता सती ।
उवाच कुरु मे ब्रह्मन् वाञ्छा पूरणमाशु भो ॥२.२.९२॥

सविग्रह देवगृह प्रतिमाया गतिर्भवान् ।
भवतः पण्डितः कोऽपि नासमोर्ध्वो हि लक्ष्यते ॥२.२.९३॥

देव देवी देवभूमि वित्त मन्दिर भूषणम् ।
भवद् भाषानुसारेण ब्रह्मणाय समर्पितम् ॥२.२.९४॥

अतःपरं प्रतिष्ठादिकृत्यं यदवशेषितं ।
भवनाध्यक्षरूपेण सम्पाद्यं शास्त्रचक्षुषा ॥२.२.९५॥

दृष्टावदत् पण्डितोऽपि राज्ञ्या आग्रहमुत्तमम् ।
मा भैषीस्त्वं मातृतुल्ये पूरयिष्यामि तद्व्रतम् ॥२.२.९६॥

इत्थं साऽभयवाणीञ्च लब्धा पण्डितवर्यतः ।
प्रतिष्ठोद्योगपर्वाणि समारेभे यथाविधि ॥२.२.९७॥

द्विषट्शत द्विषष्ठिमे साले ज्यैष्ठे राकातिथौ ।
श्रील रामकुमारः स स्मार्ताचार्य शिरोमणिः ॥२.२.९८॥

श्रीमूर्तेर्भवतारिण्याः श्रीराधावल्लभस्य च ।
प्रतिष्ठां कारयामास विद्वद्भिर्ब्राह्मणैः सह ॥२.२.९९॥

तस्मिन् पुण्य दिने राज्ञा कल्पपादपवत् सदा ।
प्रार्थिणां प्रार्थना पूर्तावासीद्दातावलिर्यथा ॥२.२.१००॥

काशी काञ्ची नवद्वीप श्रीहट्ट चट्टलादितः ।
कलिङ्ग कान्यकुब्जादि विक्रमपुरतस्तथा ॥२.२.१०१॥

पञ्चशताधिकास्तत्र पण्डिताः सुसमागताः ।
पट्टवस्त्र स्वर्णमुद्रा रौप्यस्य कलसानि च ॥२.२.१०२॥

पण्डितभ्यो ददौ राज्ञी छात्रेभ्योऽपि यथाविधि ।
तथाहूताननाहूतान् जनान् बहुसहस्रशः ॥२.२.१०३॥

व्यवहार्य बहु द्रव्यदानेन पर्यतोषयत् ।
एवमलौकिकी राज्ञ्या दानयज्ञः स्वनुष्ठितः ॥२.२.१०४॥

तथा भोजन यज्ञस्तु पूर्वं यः सुष्टु वाञ्छितः ।
तत् पुरणं तथा भूतं राज्ञ्यानन्दं विवर्द्धकम् ॥२.२.१०५॥

दीयतां भुज्यतां शब्दैरसङ्खैः परिचारकैः ।
मुखराकृतमत्यन्तं विशालं मन्दिराङ्गनम् ॥२.२.१०६॥

अहोरात्रं न जानन्ति भोजनार्थं समुत्सुकाः ।
श्वपाकांश्च दरिद्रांश्च ग्राम्याश्च विविधा जनाः ॥२.२.१०७॥

देवालय विनिर्माणे तत्प्रतिष्ठादि कर्माणि ।
सानन्दं व्ययिता राज्ञी मुद्रा हि नवलक्षकाः ॥२.२.१०८॥

तथा त्रिलक्ष मुद्राभिः क्रीता या भूमिरुत्तम् ।
देवसेवासुरक्षार्थं देवताभ्यः समर्पयत् ॥२.२.१०९॥

एवं श्रीभवतारिण्याः स्वेष्टदेव्या यथाविधि ।
प्रतिष्ठा सुकृता राज्ञ्याः स्वप्नः सत्यो भूत्तदा ॥२.२.११०॥

इति श्रीभक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां राज्ञ्या रासमणेः साक्षादन्नपूर्णाया आदेशतः श्रीमन्दिर प्रतिष्ठादि रूपो मध्यः लीलायां द्वितीयोऽध्यायः समाप्तः ॥२॥