मध्यलीला

रामकुमारपण्डितेन कालिकापूजकपदं ग्रहणं, गदाधरस्य क्षोभः, दैवादेशप्राप्तिः, हृदयरामागमनञ्च

मध्यलीलायां तृतीयोऽध्यायः


अपूर्व देवालय मन्दिरान्तरे श्रीविष्णु कालीशिवसन्निधानात् ।
शाक्तास्तथावैष्णवरुद्रभक्ताः सर्वे कृतार्थाः समुपागता ये ॥२.३.१॥

वारणसी क्षेत्र गतिर्यदा स्यात् स्वप्नेऽन्नपूर्णा निजसेवनार्थम् ।
तथादिदेशैव सुशान्तिदात्रीं राज्ञीं कृपाविन्दु विसर्ज्जनाय ॥२.३.२॥

स्वप्नोद्य सत्यः स च दिव्यदर्शनं सत्यञ्च राज्ञ्या बहुपुण्यसञ्चयात् ।
तपः सुसिद्धं विमलं सुकीर्तिजं वभुव वङ्गीय जनस्य गौरवम् ॥२.३.३॥

सहाग्रजस्तत्र गदाधरो महानत्यन्त लिप्तोऽपि महामहोत्सवे ।
स्वाहार निष्ठा परिरक्षणार्थमुपोष्य सायं पथि भृष्टतण्डुलान् ॥२.३.४॥

खादन् स लभ्यान् कतिभिर्वराटकैः सानन्दचित्तेन पदव्रजेन।
भूयोऽपि तं पाठगृहं समेत्य सुखेन निद्रां गतवान् महात्मा ॥२.३.५॥

प्रातः परेद्युः स्वप्ने च गते श्रीमान् गदाधरः ।
गच्छन् पथिः पुनं पद्भ्यां सन्देशायाग्रजस्य च ॥२.३.६॥

दक्षिणेश्वरमागत्य ज्ञातवानिति निश्चितम् ।
पुनर्झामापुष्करिण्याश्चतुष्पाठ्यां ममाग्रजः ॥२.३.७॥

अध्यापनार्थं छात्राणां देवसेवार्थमेव वा ।
न कस्मिन्नपि काले तु प्रतियास्यति पण्डितः ॥२.३.८॥

राज्ञ्याग्रहातिशय्येन दक्षिणेश्वर मन्दिरे ।
श्रीभवतारिणीदेव्या पूजकस्य पदे व्रती ॥२.३.९॥

भूत्वात्रैवाध्यापनञ्च करिष्यामीति तन्मतिः ।
ज्ञात्वेव मति विक्षुब्धो जातस्तत्र गदाधरः ॥२.३.१०॥

एकान्तेऽग्रजमाहूय प्रोवाच ते मतिभ्रमः ।
सञ्जातः स्वकुलाचारं स्बेच्छया नाशयिष्यति ॥२.३.११॥

वयं कौलीन्य धर्माणः प्रतिग्रहपराङ्मुखाः ।
ईदृशाः ब्राह्मणाः सन्तोऽधम शूद्रस्य पूजकाः ॥२.३.१२॥

भविष्यामोधिगस्माकं कुलं विद्यां बहुश्रुतम् ।
सदाचारं क्रियादाक्ष्यं वित्तलोभ विमुग्धताम् ॥२.३.१३॥

तदलं त्यज्यतामेष निश्चयः पाप निश्चयः ।
त्वद्विधैः पण्डितैः क्वापि नैवं विधमनुष्ठितम् ॥२.३.१४॥

एवमुक्तोऽग्रजो धीमान्नानाशास्त्रविशारदः ।
प्रोवाच पाप नो किञ्चिदत्र प्रपूजने कृते ॥२.३.१५॥

शूद्रान्नं शूद्रसम्पर्कं त्यजन्ति हि सुपण्डिताः ।
वदन्त्येवं ब्राह्मणानां धर्मं धर्मप्रयोजकाः ॥२.३.१६॥

देवदेवी मन्दिराणां प्रतिष्ठादिकर्मसु ।
न राज्ञी नामगन्धोऽपि सङ्कल्पसमये श्रुतः ॥२.३.१७॥

प्रतिष्ठायाः पूर्वमेव देवदेवी सुमन्दिरम् ।
देवत्रभूविभागादि गुरवे तत् समर्पितम् ॥२.३.१८॥

अतो देवालये राज्ञ्या स्वत्वं किञ्चिन्न विद्यते ।
अग्रजनेनवमुक्तोऽपि नानुजे नानुमोदितम् ॥२.३.१९॥

एवं विरुद्धमुभयोर्मतं ज्ञात्वा सुपण्डितः ।
कनिष्ठं प्रत्युवाचास्य सुमीमांसा तदा भवेत् ॥२.३.२०॥

रघुवीरं समुद्दिश्य ह्यस्माकं कुलदैवतम् ।
धर्मपत्रं करिष्यामि पूर्वाचार्यानुसारि च ॥२.३.२१॥

कृत्वा जनाः समुत्तीर्णा वभूवुर्धर्मसङ्कटात् ।
प्राप्स्याम्यत्र यदादेशं धर्मपत्र परोक्षया ॥२.३.२२॥

तदहं दैवमाश्रित्य करिष्ये पूजनं ध्रुवम् ।
देवादेशे ह्यलब्धे च न करिष्यामि पूजनम् ॥२.३.२३॥

एवं व्यवसायमतौ सानन्देन सहदरौ ।
लिखित्वा धर्मली प्रक्षिप्यकलसान्तरे ॥२.३.२४॥

पञ्चवर्षमितं बालं समाहूयादरेण वै ।
तेनैवोत्थापितं दर्मपत्रं कलसमध्यतः ॥२.३.२५॥

तत्र चैवम्विधं वाक्यमुत्थितं रोमहर्षणम् ।
अत्र रामकुमारेण स्वंकृते विग्रहार्चने ॥२.३.२६॥

जगद्वासि जनानां वै भविष्यति सुमङ्गल ।
तत् पूर्वपुरुषाः सर्वै स्वर्गे नृत्यन्ति निश्चितम् ॥२.३.२७॥

दृष्ट्वा गदाधरः सुस्थो धर्मपत्र्स्य भाषणम् ॥

द्वैधभावो गतस्तस्य परमानन्दमाप सः ॥२.३.२८॥

ततोऽग्रजः प्राह गदाधरं सुदा शिवालये पक्कमिदं शिवामृतैः ।
निवेदितं भागवतीयमोदनं सुखेन तत्तस्य कुरुष्व भोजनम् ॥२.३.२९॥

गदाधरस्तस्य सुयुक्तिपूर्णवाक्यं निशम्यापि न साधु मेने ।
शूद्राप्रदत्तं भगवत् प्रसादं विशुद्धमन्नं न भवेत् कदापि ॥२.३.३०॥

एवं स्वानुज सिद्धान्तं श्रुत्वा राजकुमारकः ।
उवाच शास्त्रीय वचः स्वसिद्धान्त पुरःसरम् ॥२.३.३१॥

गृहित्वा तर्हि मद्दत्तं भोज्यं पञ्चवटी गृहे ।
गङ्गातीरे स्वहस्तेन पाकं सम्पाद्य यत्नतः ॥२.३.३२॥

भोजनं कुरु निःशङ्कं पवित्रान्नमसंशयम् ।
गङ्गाजलैः सुपकान्नं देवतानां सुदुर्लभं ॥२.३.३३॥

एवं गदाधरेणापि स्वीकृतं शास्त्र भाषितम् ।
भक्तिविश्वासयोः क्षेत्रं सर्वथा साधु सम्मतम् ॥२.३.३४॥

समाश्रितः पञ्चवटीं तत्र पञ्चवटी तले ।
तद्दिनावधि तत्रस्थोद्याने भागीरथी तटे ॥२.३.३५॥

सर्वसन्तापहारिण्या गङ्गाया रूप माधुरी ।
वीक्ष्य तस्याः स्वरूपञ्च चिन्तयामास चिद्घनः ॥२.३.३६॥

नित्य शुद्ध चिदानन्द परब्रह्ममयो हरिः ।
नीराकारा गृहीत्वैव भाति नास्त्यत्र संशयः ॥२.३.३७॥

स्नानं दानपूजनञ्च श्राद्धं वा पितृतर्पनम् ।
गङ्गायां यः करोत्यस्यां विष्णुलोके महीयते ॥२.३.३८॥

अत्र सुविस्तृतो दिव्य देवालयो ह्यनुत्तमः ।
नित्यं नियमित देवसेवा भक्तजनैः कृता ॥२.३.३९॥

पितृ तुल्याग्रज स्नेहो राज्ञ्या रासमणेस्तथा ।
एवं मथुरानाथस्य प्रगाढ भक्ति योगतः ॥२.३.४०॥

स्वजन्मभूमि तुल्यन्तु दक्षिणेश्वर पत्तनम् ।
अति प्रियममूत्तस्य श्रीगदाधर योगिनः ॥२.३.४१॥

देवालयस्त सर्वेषां जनानां चित्त संग्रहम् ।
अत्यल्पकाल मध्येतु कृतवान् श्रीगदाधरः ॥२.३.४२॥

काकथान्य जनानान्तु राज्ञ्या रासमणेरपि ।
स्थितं मथुरानाथस्य मनः प्रायो गदाधरे ॥२.३.४३॥

उद्याने मन्दिरे गङ्गातीरे पञ्चवटीसु च ।
चरन्त भावनायुक्त चित्त भावेन गद्गदम् ॥२.३.४४॥

दिगन्तक्रोड विक्षिप्तदृष्टिभङ्गीयुतञ्च तम् ।
स्वार्थशून्यं स्पृहाहीनं विशुद्धं निर्जन प्रियम् ॥२.३.४५॥

निर्लिप्तं सङ्गरहितं शान्तं दान्तं दृढ व्रतम् ।
दिवापि दीपहस्तञ्च प्रचलन्तं गदाधरम् ॥२.३.८६॥

दृष्टैवं मथुरानाथो भावुकं तमलौकिकम् ।
आह श्रीरामकुमारं भ्राता योगीश्वरस्तव ॥२.३.४७॥

किन्त्वस्मिन् वयसिस्वल्पे योगिभावोऽशुभप्रदः ।
असौ कर्मणि लिप्तश्चेत्तदा श्रेयो भविष्यति ॥२.३.४८॥

ममेच्छा भवतारिण्या वेश कार्ये वृते सति ।
औदासीन्यमपास्तन्तुभवेदेव सुनिश्चितम् ॥२.३.४९॥

श्रुत्वैवं पण्डितस्तन्तु चिरकाङ्क्षितं भाषणम् ।
गदाधरं समाहूय देवागारेऽति निर्जने ॥२.३.५०॥

उवाच परया प्रीत्या सुभद्र्ं भ्रातरं वचः ।
भ्रातास्त्वयार्जिते वित्ते सर्वेषां सुखं भवेयुः ॥२.३.५१॥

कर्मैरेव हि दरिद्राणामभाव मोचने गतिः ।
अतस्तु कर्मकुशलो भवेतिति मम वासना ॥२.३.५२॥

श्रुत्वैवं तत्क्षणादेव पण्डिताग्रजसन्निधौ ।
न्यवेदयदमेयात्मा स्वाधीनः श्रीगदाधरः ॥२.३.५३॥

भवतामपि नान्येषां मत्तो नास्ति सुखाल्पकम् ।
कस्यापि न करिष्यामि दासत्वमीश्वराट्टते ॥२.३.५४॥

एवमुक्त्वाग्रजं नत्वा नीत्वा चरणजं रजः ।
पञ्चवट्या गृहं गत्वा तातं स्मृत्वा पुनःपुनः ॥२.३.५५॥

श्वसत्यागेन सुस्थोऽहं किमद्य समुपिस्थतम् ।
एवमुक्त्वा ततस्तत्र निःशङ्कमुपविष्टवान् ॥२.३.५६॥

गत्वा रामकुमारस्तु मथुरानाथमुक्तवान् ।
ईश्वरस्यैव दासत्वं करिष्यति ममानुजः ॥२.३.५७॥

तच्छ्रुत्वा मथुरानाथः परं विस्मयमाप्तवान् ।
निःस्वेन निरुपायेन तरुणेन विशेषतः ॥२.३.५८॥

किमेतद्वाञ्छित पदं सन्त्यक्तमवलीलया ।
परन्तु वित्तनिर्लोभ युवक ब्राह्मणोपरि ॥२.३.५९॥

श्रद्धाधिक्यं महज्जातं कर्मणस्त्यागकारणात् ।
किन्त्वेन कर्मसंयुक्तं करिष्यामीति तन्मतिः ॥२.३.६०॥

कालानुकूलतामेवं तस्थौ तत् कार्य साधने ।
प्रतीक्षमानो मथुरानाथस्तेषां महासुहृत् ॥२.३.६१॥

ततः कतिपयाहसु गतेषु काल आगतः ।
पितुर्भगिनी कन्याया हेमाङ्गिन्याः सुतस्तदा॥२.३.६२॥

यदा श्रीहृदयराम मुखोपाध्याय सङ्गकः ।
गदाधर भागिनेय आगतो दक्षिणेष्वरे ॥२.३.६३॥

यस्यासीत् शेशवे पूर्व कामार्पुकुरे महान् ।
अभिन्नहृदयोबन्धुर्हृदयो हृदयं यथा ॥२.३.६४॥

प्रायो न्यूनैकवर्षन्तु हृदयः श्रीगदाधरात् ।
तदा गदाधर वय एकविंशति वत्सरम् ॥२.३.६५॥

गदाधर श्रीहृदयं विधृत्य हृदये सदा ।
आनन्दाम्बुधिमग्नोऽभूत्तद्दिनावधि तस्य च ॥२.३.६६॥

दक्षिणेश्वरसंवासः सर्वदा दक्षिणोऽभवत् ।
स्वसहायं मन्यमानो हृदयं प्राप्य सर्वदा ॥२.३.६७॥

या त्रुटिः स्वस्य यच्छिद्रमन्तरायादिकञ्च यत् ।
तत् सर्वं विलयं प्राप्तं हृदयागमन्मात्रतः ॥२.३.६८॥

हृदयोऽपि महात्मानं मातुलं प्राप्य सर्वदा ।
अभूतपूर्वमानन्दं लेभे तत्सङ्गतः सुधोः ॥२.३.६९॥

नमहतः श्रीमातुलस्य कायेवानुगतस्तदा ।
भ्रमणे भोजने स्नाने शयने चोपवेशने ॥२.३.७०॥

सान्निध्यमुभयोर्नित्यम् विच्छेदो न कथञ्चन ।
सङ्गहीनी मुहुर्तन्तु न कोऽपि स्थातुमिच्छति ॥२.३.७१॥

पाकद्रव्यं स्थाली चुल्ली काष्ठादि तण्डुलानि च ।
मातुलस्य स्वपाकार्थं हृदयेन व्यवस्थितम् ॥२.३.७२॥

एवं स्वहस्त पाकान्नभोजनेऽपि कृते तदा ।
निष्ठा प्राबल्यतः शान्तिं नाप नैष्ठिक ठाकुरः ॥२.३.७३॥

रात्रौ श्रीभवतारिण्याः प्रसादीयं प्रगृह्य सः ।
अश्रुभिः प्लावितो भूत्वा स्मृत्या तां जगदम्बिकाम् ॥२.३.७४॥

उवाच मां जगन्मातः कैवार्तान्नं प्रयच्छसि ।
एवमाहारनिष्ठायाः प्रावल्यमभवयत्तदा ॥२.३.७५॥

तद्दिनावधि सुप्रीतो यद अह्निहृदयागमः ।
बभूव सर्वकार्येषु सयत्नः स गदाधरः ॥२.३.७६॥

यवीयसो मातुलस्य हृदयोपरि सर्वतः ।
स्नेहाधिक्यं महाज्जातं ज्ञातं तद्हृदयेन हि ॥२.३.७७॥

एवं कमपि नोक्ता च सहसैवान्तरान्तरा ।
गुप्तोऽभूद्धि त्रियामार्द्धं कुत्र गदाधरो स्थितिः ॥२.३.७८॥

कृतेऽप्यन्वेषणे तत्र बुधैरपि न बुध्यते ।
एवमद्भुतरूपेण ह्यात्मगुप्तेश्च कारणम् ॥२.३.७९॥

न च बोद्धुं समर्थः स हृदयो वा परोऽपि वा ।
प्रातर्मध्याह्न सायाह्न समये देवमन्दिरे ॥२.३.८०॥

सेवासाह्नाय हृदये ज्येष्ठस्य मातुलस्य च ।
गते तत्त्तत्क्षणे यातयान्तर्हानं गदाधरः ॥२.३.८१॥

पुनः प्रत्यागते तत्र गतिः जिज्ञासिते सति ।
ददौ प्रत्युत्तरं तेभ्यः स्थितिरत्रैव मामकी ॥२.३.८२॥

ब्रजेन्द्रनन्दनः कृष्णो भाति वृन्दावनान्तरे ।
वृन्दावनं परित्यज्य पादमेकं न गच्छति ॥२.३.८३॥

तथा मे सर्वदा ज्ञेया संस्थिति दक्षिणेश्वरे ।
यत्र तत्र न यास्यामि सन्तज्य दक्षिणेश्वरम् ॥२.३.८४॥

इति भक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां श्रीरामकुमार पण्डितस्य पूजकपदग्रहणान्तरं भागिनेयस्य हृदयरामस्य दक्षिणेश्वरागमनात् भगवतो हगदाधरस्योल्लसरूप मध्य लीलायास्तृतीयोऽध्यायः ॥३॥