मध्यलीला

गदाधरस्य शिवपूजनम्, देव्यावेशकर्मग्रहणम्, गोविन्दसेवादिः

मध्यलीलायां चतुर्थोऽध्यायः


कामारपुकुरे बाल्ये मूर्तिं निर्माय यत्नतः ।
देवतानां बाह्य पूजां वयस्यैर्बहुभिर्वृतः ॥२.४.१॥

कृतवान् बहुशस्तत्र हृदयेन गदाधरः ।
अत्रापि ह्रदयं प्राप्य बाल्यलीलोदिता स्मृतौ ॥२.४.२॥

हृदयं प्रत्युवाचेदं मृन्मयं शिवविग्रहम् ।
निर्माय पूजयिष्यामि मम वाञ्छाधुनोदिता ॥२.४.३॥

कामनान्तरं कार्यमुदितं साहचर्यतः ।
हृदयस्य सुयत्नेन गङ्गागर्भान्मृदाहृतिः ॥२.४.४॥

ततो गदाधरेणाशु शिवमूर्ति विनिर्मिता ।
दिव्य वृषभ पृष्ठे श्रीशङ्करः सुष्ठु शोभितः ॥२.४.५॥

कोटिचन्द्र प्रतीकाशो देहो रजतसन्निभः ।
अपूर्वारुणकान्तिश्च विग्रहस्यपदाब्जयोः ॥२.४.६॥

व्याघ्रचर्मावृत कटिस्तुन्दिलः फणिसंयुतः ।
त्रिशूल डमरुभ्याञ्च मण्डितोदक्ष सव्ययोः ॥२.४.७॥

भालं चन्द्रार्द्धयुक्तं वक्षोऽक्षमालयायुतम् ।
जटाजुटसमायुक्तं नयनत्रितयान्वितम् ॥२.४.८॥

भस्मलिप्तं कालसर्पैवेष्टितं सुभयङ्करैः ।
एवन्देवादिदेवन्तं निर्माय स गदाधरः ॥२.४.९॥

पूजोपचारं संगृह्य भक्तिभावेन शङ्करम् ।
स्वयं सम्पूजयामास रम्ये पञ्चवटीतले ॥२.४.१०॥

यदृच्छया गतस्तत्र सेवको मथुरो महान् ।
अपूर्व शिवमूर्तिं तां तस्य पूजामलौकिकीम् ॥२.४.११॥

अर्चकस्य तन्मयतां दृष्ट्वा विस्मयमागतः ।
तद्भावेनैव तत्रस्थं हृदयं स्पृष्टवान् मुदा ॥२.४.१२॥

कुत्रैषा प्रतिमा प्राप्ता केन वा घटिता वद ।
हृदयोङ्गुलिमुत्तोल्य तन्तु तन्मयतां गतम् ॥२.४.१३॥

दर्शयित्वोक्तमेतेन घटिता शिव मूर्तिका ।
श्रुत्वातिविस्मयाविष्टो मथुरानाथ उक्तवान् ॥२.४.१४॥

भट्टाचार्यस्यावरज एतां घटयितुं क्षमः ।
श्रुत्वा ससम्भ्रमञ्चोक्तं हृदयेन तदैव हि ॥२.४.१५॥

अयन्तु सर्व देवता प्रतिमा घटनेपटुः ।
परन्तु भग्न प्रतिमां सन्धातुं सर्वथा क्षमः ॥२.४.१६॥

एवं यस्य गुणग्राम उभयाभ्यां परिकीर्तितः ।
तस्य समाध्यवस्था सा मथुरेण सुलक्षितः ॥२.४.१७॥

एकदृष्टातिमुग्धः स तदात्मनं नियम्य च ।
प्रोवाच हृदयं शुद्धनभावेन विनयान्विता ॥२.४.१८॥

दास्यसीमां पूजान्ते मे प्रतिमां शुभलक्षणां ।
श्रौत्वा तांओर प्रार्थनां साध्वीं हृदयेनोररीकृतम् ॥२.४.१९॥

पूज्यास्याः पूजाविरमे ततः संगृह्य विग्रहम् ।
ददौ मथुरानाथाय गत्वा तद्भवनं सुधीः ॥२.४.२०॥

मुग्धः श्रीमथुरानाथस्तन्मूर्ति प्राप्य तत्क्षणात् ।
श्वश्रूदेव्या गृहं गत्वा तस्यै तां समदर्शयत् ॥२.४.२१॥

भक्तीमतीं तदा राज्ञी विश्वाभिरूप्य दर्शनात् ।
चमत्कृता मुक्तकण्ठचकार सुप्रशंसन्म् ॥२.४.२२॥

निर्मातुर्भगवद्भावं विशिष्ट समवर्णयत् ।
उवाच मथुरानाथ एवं राज्ञीं ससम्भ्रमम् ॥२.४.२३॥

भट्टचार्य कनिष्ठेन सवृषः शिवबिग्रहः ।
धटितोऽयं महाभावात् सप्राण एव लक्ष्यते ॥२.४.२४॥

राज्ञ्या गुणानुरागिन्याः श्रीलगदाधरोपरि ।
श्रद्धापूर्णं मनस्तस्याः सञ्जातं प्रथमं तदा ॥२.४.२५॥

इतः प्राङ् मथुरानाथो देवालये गदाधरम् ।
कर्मेयुक्तं कारयितुमादग्रहातिशयान्वितः ॥२.४.२६॥

तद्भावमधुना ज्ञात्वा राज्ञो सानन्दमब्रवीत् ।
यद्हस्तनिर्मिता मूर्तिर्भगवद्भावभाविका ॥२.४.२७॥

तद्हस्ताद्वस्त्रभूषणादि गृहित्वा भवतारिणी ।
सर्वथा प्रीतिमागन्ता निश्चितेति मतिर्मम ॥२.४.२८॥

अतः सन्तोष्य कनिष्ठ भट्टचार्यं नियोज्य ।
वेशकार्ये जगन्नातुस्तेन मे मङ्गलं भवेत् ॥२.४.२९॥

तत्परेह्नि पराह्ने तु ह्र्दयेन गदाधरः ।
पञ्चवट्या क्रोडे तिष्ठन्नाहुतो मथुरेण हि ॥२.४.३०॥

भृत्यं दृष्ट्वा सचकितं सशङ्कं ठाकुरः ।
यत् पूर्वं चिन्तितं मेऽद्य तत् साक्षात् समुपस्थितम् ॥२.४.३१॥

गच्छ भो हृदय त्वं हि यत्र नो परवश्यता ।
तत्र नाहं गमिष्यामि मथुरानाथ सद्मनि ॥२.४.३२॥

मथुरानाथ सविधे गन्तुं श्रीमातुलस्य तां ।
कुण्ठां दृष्ट्वा हृदयेन जिज्ञासितो गदाधरः ॥२.४.३३॥

उवाचाप्यतिकृच्छ्रेण फलं तत्र गतस्य मे ।
दासत्वं गर्हितं लोके तत्र माम् योजिष्यते ॥२.४.३४॥

श्रुत्वैवं हृदयः प्राह को दोषस्तत्र मातुलः ।
वयन्तु ब्राह्मणास्तात देवमेवैव भो गतिः ॥२.४.३५॥

अत्र भागीरथी तीरे महतो देवमन्दिरे ।
देवता परिचर्यायां सर्वथा मङ्गलं भवेत् ॥२.४.३६॥

ततो गदाधरेणोक्तमनिच्छा दास कर्मणि ।
परन्तु जगदम्बाया मणिमुक्तादि भूषणं ॥२.४.३७॥

सन्त्यत्र बहुशस्तेषां रक्षणमति दारुणम् ।
मादृशेन रत्नरक्षा न सम्भाव्या कदाचन ॥२.४.३८॥

मातुलेनैवमुक्तोऽपि हृदयः पुनरब्रवीत् ।
न कापि भवतां चिन्ता चिन्मयायाः रत्नरक्षणे ॥२.४.३९॥

सदा पटुतराशक्तितरस्ति ते कृपया मम।
भवत्सु कर्मलिप्तेषु सर्वदा नः सुखं भवेत् ॥२.४.४०॥

हृदयाग्रहवाक्यन्तच्छ्रुत्वा वाक्यविशारदः ।
प्रोवाच हृदयं प्रेम्ना चेदेवं सम्मतिर्मम ॥२.४.४१॥

सर्वदात्र यदि स्थित्वा जगदम्बाधनं महत् ।
रक्षियसि तदा बाधा नास्ति मे कार्यसाधने ॥२.४.४२॥

हृदयागमनञ्चात्र कर्मणः प्राप्ति काम्यया ।
अतस्तन्मातुलवचः श्रुत्वा स नन्दितोऽभवत् ॥२.४.४३॥

ततो मथुरानाथस्तु सश्रद्धं समुपस्थितम् ।
गदाधरं देवदेवी वेशकार्ये न्ययोजयत् ॥२.४.४४॥

तद्दिनावधि तत्रायं वाञ्छाकल्पतरुः स्वयं ।
भक्ताभीष्ट पूरणार्थं भवतारिणी मन्दिरे ॥२.४.४५॥

साक्षाद् गदाधर इव वेशकार्येऽभवद्व्रती ।
हृदयस्तन्मातुलयोः साहाय्यार्थं नियोजितः ॥२.४.४६॥

स्वेच्छा रामकुमारस्य तदैव पूर्णतां गता ।
कनिष्ठस्य कर्मयोगात् किञ्चिद्वित्तागमात्तथा ॥२.४.४७॥

निष्ठावत्या रासमणेर्नास्ति सेवाविरुद्धता ।
श्रीभवतारिणी देव्या या सेवा तन्महोत्सवे ॥२.४.४८॥

श्रीगोविन्दस्य तद्रूपं सेवाधिक्य तदुत्सवे ।
द्विषष्ठिद्वादशशते वर्षे जन्माष्टमी तिथौ ॥२.४.४९॥

श्रीगोविन्दस्य तत् कृत्यं बाहुल्येन समापितम् ।
नन्दोत्सवे तत् परेऽह्नि सुबृहद्देवमन्दिरे ॥२.४.५०॥

गीत नृत्यादिवादित्रैर्हरि सङ्कीर्तनादिना ।
दक्षिणेश्वर पल्ली सा गोकुलेन समाभवत् ॥२.४.५१॥

हरिद्रा दधि तैलादेः क्षेपनाच्च परस्परम् ।
देवोद्यानं प्राङ्गनञ्च तथा भागीरथी तटम् ॥२.४.५२॥

अभू हरिद्रातैल्लदि लिप्तं भागीरथो जलम् ।
सर्वत्र पीत वर्णाभं पिच्छिलं देवताङ्गनम् ॥२.४.५३॥

सम्पाद्य गोविन्द पूजां मध्याह्न भोगमुत्तमम् ।
दत्वा नाम्ना क्षेत्रनाथः पूजको ब्राह्मणोत्तमः ॥२.४.५४॥

श्रीराधां शयने न्यस्य ततो गोविन्द विग्रहम् ।
नीत्वा गच्छन् सतैलत्वात् स्खलनात् पथि पादयोः ॥२.४.५५॥

श्रीगोविन्दो हस्तच्युतः पतितो धरणीतले ।
प्राप्ताघातो विशेषेण पतितः पूजकोऽपि च ॥२.४.५६॥

तदा सङ्कीर्तनरवः सहसा लुप्ततां गतः ।
द्रुतं तत्रागतैः सर्वैर्जनैः सुपरिलक्षितम् ॥२.४.५७॥

श्रीगोविन्दस्य चरणं दक्षिणं भग्नतां गतम् ।
महान् कोलाहलो जातो गोविन्द पादभङ्गतः ॥२.४.५८॥

मथुरस्यार्तनादाच्च राज्ञ्याः क्रन्दन शब्दतः ।
हाहारवो महानासौ दक्षिणेश्वर मन्दिरे ॥२.४.५९॥

अर्थप्राचुर्यतथात्र विधेयस्य विनिश्चये ।
शीघ्रं महानगर्यास्तु वैधपत्रं सुगृहीतम् ॥२.४.६०॥

सर्वैः पण्डितवर्यैस्तदैक मत्येन भाषितम् ।
गङ्गामध्ये विनिक्षिप्य भग्न गोविन्द विग्रहम् ॥२.४.६१॥

अत्रान्य विग्रहः कश्चित् प्रतिष्ठाप्यो यथाविधि ।
दृष्टैवं पण्डित मतं मथुरानाथ सेवकः ॥२.४.६२॥

क्रयार्थं नव गोविन्द मूर्तेश्चिन्तां दुरत्ययाम् ।
प्राप्य तत्क्षण एवैकं भृत्यं प्रेरितवान् स्वयं ॥२.४.६३॥

कालेऽस्मिन् मथुरानाथ मनसीदं समुत्थितम् ।
अत्रास्ति भगवत्तुल्यो दिव्यभावो गदाधरः ॥२.४.६४॥

न स पृष्टो मया किञ्चिदस्यां गुरु परिस्थितौ ।
विग्रहचरणे भग्ने मन्दिरे बहु दूरतः ॥२.४.६५॥

धर्म प्राणा जनाः सर्वेऽप्यत्रागत्याति दुःखिता ।
युक्तितर्कैः समाकीर्णं दक्षिणेश्वर पत्तनम् ॥२.४.६६॥

किन्त्वत्र न समायातो महाज्ञानी गदाधरः ।
एवं मथुरानाथस्य चित्तमान्दोलितं तदा ॥२.४.६७॥

तथा पूर्वं प्रतिष्ठित भग्न गोविन्द विग्रहम् ।
गङ्गागर्भे विनिक्षेप्तुमिच्छा तस्य न जायते ॥२.४.६८॥

दुश्चिन्तया शङ्कया च व्यथया पीडितान्तरः ।
विक्षुब्धो मथुरानाथो राज्ञ्या सान्निध्यमागतः ॥२.४.६९॥

मातस्तुभ्यं नमस्यामि शृणु मे परमं वचः ।
सङ्कटेस्मिन् महाघोरे वेशकारि महात्मनः ॥२.४.७०॥

मतौ जिज्ञासितायां नः का हानिस्तत्र जायते ।
राज्ञ्याप्युक्तमधुनैव गत्वा तं पृच्छ यत्नतः ॥२.४.७१॥

प्राप्याज्ञां मथुरानाथः श्रीगदाधर दृष्टये ।
गत्वा पञ्चवटी मध्ये स्वगृहाभ्यन्तरे स्थितं ॥२.४.७२॥

भावभावित भावेश भावनासुविभावितम् ।
भावाविष्टं तथालोक्य तदैव श्रीगदाधरम् ॥२.४.७३॥

श्रावयामास तद्वार्तां गोविन्द पाद भङ्गजाम् ।
पण्डित प्रवराणाञ्च विधानं शास्त्र सम्मतम् ॥२.४.७४॥

भवतः किं मतञ्चात्र प्रकटी कुरु पावन ।
श्रुत्वैव तत्क्षणाद्दत्तं भावुकेन सदुत्तरम् ॥२.४.७५॥

राज्ञ्या जामातृषु प्राप्ते कस्यचित् पाद भङ्गने ।
किं तदीयस्य पादस्य चिकित्सां न विधास्यति ॥२.४.७६॥

अथवा तं परित्यज्य नूतनं वरयिष्यति ।
तद्रूपात्रापि सा वार्ता सुदृढा शास्त्रसम्मता ॥२.४.७७॥

भग्नपादं सुसन्धातुं व्यवस्थां कुरु यत्नतः ।
पूर्वतुल्यो भवेद्देवः सुसंहित यदे सतिः ॥२.४.७८॥

वर्तते यादृशी पूजा विग्रहस्य तदात्मिका ।
पूजां नित्यं प्रचलतु न त्यागो विदुषान्मतः ॥२.४.७९॥

एवं तेजो दृप्त वचः स्पष्टमभ्रान्तमुत्तरम् ।
श्रुत्वा श्रीमथुरानाथः परं विस्मयमाप्तवान् ॥२.४.८०॥

अलौकिक जनस्यास्याद् गोविन्द विग्रहः स्वयम् ।
अस्यैवोत्तरवाचो याप्यनेन प्रकटीकृता ॥२.४.८१॥

एवं मीमांसावाक्येन राज्ञीमथुरयोस्तदा ।
हृदयाभ्यन्तरेऽपूर्व आनन्दः सुप्रवाहितः ॥२.४.८२॥

एक वाक्येन तत्रस्था जनाः सर्वे गदाधरम् ।
अमर्त देवतां मत्वा धन्यवादं ददुस्तदा ॥२.४.८३॥

भग्नपाद संस्कारार्थं राज्ञी चिन्तान्विता यदा ।
तदा मथुरानाथेन राज्ञ्युक्ता मा भयं कुरु ॥२.४.८४॥

योऽसौ विधानदाता तु स एव संस्कारिष्यति ।
तदा गदाधरेनैव गोविन्द विग्रहस्य तु ॥२.४.८५॥

भग्नपादस्य सन्धानमभग्नसादृशं कृतम् ।
तद्दिनावधि श्रीराधागोविन्द पूजकोऽभवत् ॥२.४.८६॥

गदाधरः श्रीहृदयो वेशकारि पदे व्रती ।
एवं कर्मणि लिप्तौ तौ परमां मुदमापतुः ॥२.४.८७॥

तत एकस्मिन्दिवसे श्रीगदाधर साधकः ।
दशमहाविद्या मूर्ति दर्शनस्य कुतूहलात् ॥२.४.८८॥

वराहनगरं गत्वा ततः प्रत्यागतो यदा ।
पथि कश्चित् सुसम्भ्रान्तो राजतुल्यो महाधनी ॥२.४.८९॥

साधक पूजकं दृष्ट्वा कौतूहल समुत्थितः ।
पृष्टवान् किं रासमणेर्गोविन्दो भग्नविग्रहः ॥२.४.९०॥

सद्यः प्रत्युत्तरं दत्तं साधकेन सयुक्तिकम् ।
भवता मन्दबुद्धित्वादेवमत्र प्रजल्पितम् ॥२.४.९१॥

अखण्ड मण्डलाकारो विग्रहो भग्नविग्रहः ।
एवमत्र प्रलापोऽयं न पण्डित वचस्त्विति ॥२.४.९२॥

श्रुत्वैव स महामानी चमत्कार प्रदोत्तरम् ।
तत् पादौ शिरसा धृत्वा कृपाभिक्षां चकार ह ॥२.४.९३॥

इति श्रीरामेन्द्रसुन्दरभक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां गदाधरस्य शिव पूजनं वेशकर्म ग्रहणं गोविन्द सेवादि रूपो मध्यलीलायाश्चतुर्थीऽध्यायः ॥४॥