मध्यलीला

गदाधरस्य कालिकापूजकपदग्रहणं, हृदयरामस्य गोविन्दसेवा, रामकुमारपण्डितस्य महाप्रयाणम्

मध्यलीलायाः पञ्चमोऽध्यायः


यदा गदाधरः साक्षाद्गदाधरसमो महान् ।
श्रीराधागोविन्द सेवामकरोद्भक्तिभावतः ॥२.५.१॥

राज्ञ्या गता तस्य पूजां संद्रष्टुं देवमन्दिरे ।
असमोर्द्धसाधकानां बहूनां देवतार्चनम् ॥२.५.२॥

दृष्ट्वा सुशिक्षिता राज्ञी देवतानां समर्चने ।
किन्त्वत्र साधक पूजां दृष्ट्वा वाकशून्यतां गता ॥२.५.३॥

पूजाकाले पूजकस्य तेजोदीप्त कलेवरात् ।
उद्गम्य सुमहत्तेजो गोविन्देसमलीयत् ॥२.५.४॥

दृष्टैवन्तं तदा राज्ञी मनस्येतदचिन्तयत् ।
साक्षाद्ब्रह्मण्यदेवोऽयं धृत्वा मानुषविग्रहम् ॥२.५.५॥

मर्त्यलोकमुपाश्रित्य पूजाकार्यं करोति हि ।
जगद्वासि पूजकेषु कदापीदृक् न सम्भवेत् ॥२.५.६॥

यद्यस्य सविधे कञ्चित् स्थित्वा वाचमुदिरयेत् ।
तन्मयत्वान्नजानाति गमनागमनेऽपि वा ॥२.५.७॥

आराध्य देवतायाश्चाराधना कार्य कारकात् ।
तृतीयः कोऽपि नास्त्यन्यो मन्दिराभ्यन्तरे तदा ॥२.५.८॥

अस्याद्भूत पूजकस्य पूजार्थञ्चोत्तमोत्तमम् ।
प्राणाराम सुकण्ठेन मधुरं गानमुत्तमम् ॥२.५.९॥

सुकण्ठ निसृतं गानं वारमेकं श्रुतं यदि ।
पुण्यवता अनेनैव जीविते नास्ति विस्मृतिः ॥२.५.१०॥

अभूत पूर्वार्चक देवपूजां दृष्ट्वातिरम्यां मधुरां सुगीतिम् ।
श्रुत्वैव राज्ञी सा चमत्कृता मती ह्यानन्दमग्ना स्वगृहं प्रयाता ॥२.५.११॥

परन्तु सा जानविपण्यगेहतः प्रायेण तन्नुतन पूजकस्य ।
द्रष्टुं सुपूजां मधुकण्ठगीतिं श्रोतुञ्च प्राप्ता देवमन्दिरम् ॥२.५.१२॥

धन्याद्य मे मन्दिर सुप्रतिष्ठा दन्याहमद्यार्चक सन्नियोगात् ।
धन्याद्य पृथ्वी भगवत् प्रसादात् धन्यातिधन्या महतोऽस्य पूजा ॥२.५.१३॥

उवाचैवं श्रीहृदयस्तदा तद्भाव भावितः ।
ठाकुरस्य हि पूजेयं सर्वेषां प्रीतिदायिका ॥२.५.१४॥

दृष्टिमात्रेण मुग्धा ते नरनारीजनास्तदा ।
तथा पूजावकाशे च मधुरस्वर गीतितः ॥२.५.१५॥

आत्मविस्मृत भावोऽयं न कुत्राप्यक्षि गोचरः ।
नेयं पूजा पूजकस्य स्वरूपेण व्यवस्थितिः ॥२.५.१६॥

यदा गतो रामकुमार पण्डितो देवालये सज्जन सन्निधौ सुधीः ।
तदास्य सांसारिक वित्तहीनता भागीरथीतीरे समाश्रयादगता ॥२.५.१७॥

किन्त्वस्य साधोश्च निजानुजाते कर्तव्यचिन्ता मनसि प्रजाता ।
दृष्ट्वानुजस्यास्य विराग भावात् संसार सौख्ये च न सारदृष्टिम् ॥२.५.१८॥

एवं सदौदास्यकभावयुक्त चित्तस्य मतीव जातम् ।
सुयोग्य स्नेहास्पद मातृभावः सुलक्षितस्तेन तदास्यवभावः ॥२.५.१९॥

तथापि तस्मिन्मथुरस्य राज्ञ्याः श्रद्धां गभीरामवलोक्य विद्वान् ।
एवं तदाशा परिवर्द्धिताभून्ममासनं पास्यति सोदरोऽयम् ॥२.५.२०॥

वयसः परिणामेन क्षेत्रस्य शक्तिह्रासतः ।
देव सेवाविधौ रामकुमारोऽपटुतां गतः ॥२.५.२१॥

ततः स शीघ्रन्त्वनुजं गदाधरं पुराणशास्त्र स्मृति संहितादिकम् ।
अध्यापयमास सुधीः यत्नतः श्रीब्रह्मसूत्रस्य च भाष्यसङ्ख्यकम् ॥२.५.२२॥

अत्यल्पकालेन तु सर्वशास्त्राधीतात्परं तस्य गुरोर्व्यवस्था ।
मता यतोऽदीक्षित विप्रजातेः शक्त्यर्च नायामधिकारहानिः ॥२.५.२३॥

अत्रोऽत्र देवालय सन्निधौ स्थितात् पूर्णाभिषिक्तान्महतः सुपण्डितात् ।
सुहृत्तमाद्रामकुमार सम्मते गदाधरस्यापि तथानुमोदनात् ॥२.५.२४॥

केनाराम भट्टाचार्य शक्तिसाधक वर्यतः ।
गृहीत दीक्षा भगवान्नामोद्गदाधरः स्वयम् ॥२.५.२५॥

दीक्षा काले तस्य गुरोः सकाशे शिष्यस्य कर्णे जगदम्बिकायाः ।
मन्त्रे प्रविष्टे सहसा सशिष्यः समाधिना शोभित विग्रहोऽभूत् ॥२.५.२६॥

प्राणस्य वायोश्चालनं निवृत्तं मन्त्रेण सार्धं मिलितं स्वचित्तम् ।
एवं महाभावयुततुशिष्यं दृष्ट्वा चमत्कारयुतो गुरुर्भृशम् ॥२.५.२७॥

तन्मस्तके न्यस्तहस्तो जगाद लभस्व वत्साचिरमिष्टसिद्धिम् ।
समाध्यवस्थं सुखवोधरूपमाशीर्वचोसिर्बहुर्भिः स्वशिष्यम् ॥२.५.२८॥

सम्बोध्य शिष्येन प्रदत्त द्रव्यं तथा तदीयां महतीञ्च पूजाम् ।
संगृह्यमार्गानुगतो महात्मा मन्त्रप्रदाता गतवान् स्वगेहम् ॥२.५.२९॥

अतःपरं नूतन दीक्षितस्य दिव्येन भावेन युतस्य तस्य ।
पूजां ग्रहीतुं भवतारिणीच्छा जाता तदा चिन्मय विग्रहस्य ॥२.५.३०॥

तदेव मथुरानाथस्तत्रागत्वोक्तवान् स्वयम् ।
शृणु ज्येष्ठ भट्टाचार्य मदीयं परमं वचः ॥२.५.३१॥

भवतः स्थविरावस्था प्रायेण समुपागता ।
सञ्जातं सुमहत्कष्ट दृष्ट श्रीकालिकार्चने ॥२.५.३२॥

अतोऽस्माकमियंवाञ्छा गोविन्दस्यार्चनं कुरु ।
शक्तियुक्तेन पटुना कनिष्ठेनानुजेन च ॥२.५.३३॥

कृते श्रीभवतारिण्याः पूजने नः सुख भवेत् ।
भवतोऽपि लघुर्भारो भविष्यति न संशयः ॥२.५.३४॥

निशम्य माथुर वचो मधुरं चिरकाङ्क्षितम् ।
आनन्द सम्प्लवेलीनः श्रीरामकुमारः सुधीः ॥२.५.३५॥

गदाधरादिनामानि सर्वाणि संपरित्यजन् ।
अद्यारभ्य श्रीमथुरस्तात् नाम प्रदत्तवान् ॥२.५.३६॥

यदाहनि जगन्मातुः पूजकोऽभूज्जगद्गुरु: ।
तद्दिने मथुरश्वश्रूरतीवानन्दिता भवेत् ॥२.५.३७॥

उवाच तां श्रीमथुरो हवत्या भवतारिणी ।
शिलामयी जगन्माता जीविता प्रतिभाति मे ॥२.५.३८॥

कियद्दिन गते रामकुमारः पण्डितो महान् ।
भागिनेयं श्रीहृदयं मथुरमनुरुध्य च ॥२.५.३९॥

गोविन्दस्यार्च्चने युक्तं कृत्वा निर्लिप्ततां गतः ।
कामारपुकुरे तस्य प्रत्या गमन व्यग्रता ॥२.५.४०॥

जाता किन्तु जन्मभूमि परिदर्शन योग्यता ।
न जातादृष्ट वैरूप्यात्तस्येच्छा विफला भवेत् ॥२.५.४१॥

अतःपरं रामकुमार पण्डितः कर्मानुरोधेन मुलाजडङ्गत ।
तत्रैव जन्मान्तर कर्मयोगतो भागीरथीतीरसमाश्रितोमृतः ॥२.५.४२॥

अद्यात्र वर्षावधि दक्षिणेश्वरे समर्चनं श्रीजगदम्बिकायाः ।
कृतं त्रिषष्ठ्युत्तर सूर्यसङ्ख्यके शते साले स्वप्रगतो महात्मा ॥२.५.४३॥

ततोऽग्रजस्याति वियोगयोगादत्यन्त शोकान्वित मान्सस्य ।
द्वन्द्वस्य पारं विगतस्य तस्य स्वबन्धु युक्तस्य गदाधरस्य ॥२.५.४४॥

तथा च राज्ञ्या महिमान्विताया आकस्मिकात्तदपि संप्रयाणात् ।
परन्तु राज्ञ्याः स्वसुतोपमस्य जामातुरेकस्य महाशयस्य ॥२.५.४५॥

ब्राह्मण्य धर्म प्रतिपालकस्य प्रयानतः शोकयुतो महात्मा ।
हृद्ग्रन्थि भेदात् सकलं विशून्यं मत्वाभवत् प्राणविहीन तुल्यः ॥२.५.४६॥

एवं रामकुमारस्य सदाचार युतस्य च ।
पण्डितस्य प्रयानेन दक्षिणेश्वर पत्तने ॥२.५.४७॥

स्थितानां मानसं तेषां दुःखसिन्धौ निमज्जितम् ।
एवमुक्तं महाप्राज्ञं गतं पण्डितभूषणम् ॥२.५.४८॥

एकत्रिशद्वर्षाधिकवयोज्येष्ठसहोदरः ।
गदाधरात्ततस्तस्मिन् पितृभक्तिः सुसंस्थिता ॥२.५.४९॥

गदाधरो भ्रातृस्नेहं बहुकालमवाप्तवान् ।
पितुर्मरणतः पश्चात् पितृतुल्याग्रजस्य च ॥२.५.५०॥

परिवार पोषणार्थं संसारभाव मोचने ।
स्नेहधन्यानुजस्यास्य शिक्षार्थं चिन्तितस्य च ॥२.५.५१॥

आदर्श पुरुषस्यास्य स्वसुखत्याग पूर्विका ।
संसार साधना सा तु सर्वथालौकिका मता ॥२.५.५२॥

इति श्रीभक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां सम्हितायां गदाधरस्य् दीक्षान्तरं श्रीभवतारिणी देव्याः पूजकपद ग्रहणं रामकुमारादेर्महाप्रयाणरूप मध्यलीलायां पञ्चमोऽध्यायः ॥५॥