मध्यलीला

गदाधरस्य देवीपूजासमये मथुरानाथस्य देव्या जीवितारूपेण दर्शनम्

मध्यलीलायां षष्ठोऽध्यायः


मृत्योः परमग्रजस्य श्रीमद्गदाधरस्य हि ।
मनसोऽपूर्व रूपञ्च भावान्तरमुपस्थितम् ॥२.६.१॥

तल्लक्षितं हृदयेन सिद्धस्य मातुलस्य च ।
दैनन्दिनन्तन्मनसी बहुशः परिवर्तनम् ॥२.६.२॥

आहारे सा रुचिर्नास्ति मुखे मधुर हास्यता ।
मिष्टालापे मतिर्नास्ति केवलं पूजने रतिः ॥२.६.३॥

पूजापि नो पूर्वविधास्वनुष्ठिता देवार्चना काल विवेक लोपतः ।
पूर्वं यथाशास्त्र विनिश्चिते क्षणे कर्तुर्निदेशात् कृतमर्चनं शुभम् ॥२.६.४॥

पूजारम्भे शीर्षके स्वस्य पुष्पं दत्वा देवीं मानसैर्द्रव्यजातैः ।
पूजां कृत्वा न्यस्य हस्तौ हृदि स्वे योगे मग्नो लोचने मुद्रयित्वा ॥२.६.५॥

समाधि योगेन ततः सुयोगिनो बाह्यार्चना तत्र विलीनता गता ।
पूज्यस्य पूजा विरमात्तदैव काल्स्य चिन्ताकथमत्र जाता ॥२.६.६॥

मध्याह्न भोगानयनावकाशे समाधिभङ्गे विनिवेदितान्ने ।
सुभोजनं त्वं कुरु देवी मातः प्रदत्तमन्नम् ॥२.६.७॥

एवं गदित्वा पुनराय तुष्णीं भावं महात्मा सुबहुक्षणं तथा ।
तथा पराह्ने मधुरा स्वगीति गीता हि तेन श्रवणाय देव्याः ॥२.६.८॥

तद्रूप माधुर्य विलीन चित्तस्तद् गाणतस्तन्मयतां गतः सः ।
प्रेमाश्रुणाप्लावितहृन्सुखोदकस्तद् भावमग्नो विललाप विस्तृतम् ॥२.६.९॥

दिवसे समतीते च योगी तत्र गदाधरः ।
गतेऽप्यारत्रिके काले निर्विकारः सुपूजकः ॥२.६.१०॥

भक्त रामप्रसादस्य सर्व साधकवर्यतः ।
गायन् गीतिं सुमधुरा व्याकुलोऽभूद्गदाधरः ॥२.६.११॥

सहसा दर्शनकाङ्क्षी जगन्मातुरुवाच ताम् ।
रामप्रसादस्य मातः स्वरूपः प्रकटीकृतः ॥२.६.१२॥

कथं तर्हि त्वया देवी न मे रूपं प्रदर्शितम् ।
नैव धनं जनो भोगः सुखं वान्यस्पृहा तथा ॥२.६.१३॥

सम्प्रार्थ्यते मया मातः प्रार्थ्यते तव दर्शनम् ।
ब्रुवतस्तत् समुत्कण्ठा दर्शनार्थमं विवर्द्धिता ॥२.६.१४॥

अश्रूणां धारया वक्षः प्लावितं तस्य रोदनात् ।
अत्युच्च स्वरयुक्तेनाप्युक्तं न त्वं शृणोषि किम् ॥२.६.१५॥

न दास्यसि दर्शनं किं चिन्मयि भवसुन्दरि ।
एवं श्री भवतारिण्याः प्रत्यक्ष दर्शनेच्छया ॥२.६.१६॥

युक्तोऽपि सात्विकैर्भावैर्न लेभे दर्शनं तदा ।
उक्तञ्च जीवितं त्याज्यं जीवितैः किं प्रयोजनम् ॥२.६.१७॥

एवमुन्मत्ततां प्राप्य सहसैव गदाधरः ।
दृष्ट्वा मातुस्तीक्ष्णधारं खड्गमानन्दसम्प्लुतः ॥२.६.१८॥

अनुग्रहं मन्यमानो महादेव्यातदैव हि ।
खड्गेन जीवितस्यान्तं करिष्याम्यद्य निश्चितम् ॥२.६.१९॥

एवमुन्मत्तभवेन यदा खड्गं समस्पृशत् ।
तदा गदाधरो मातुः स्वरूपं सन्ददर्श तत् ॥२.६.२०॥

एवं गृहं गृहाद्वारं मन्दिरं देवतादिकम् ।
सर्वन्तत् विलयं जातं न किञ्चिदवभासते ॥२.६.२१॥

नास्ति कुत्रापि किञ्चिच्च सर्वं शून्यमिदं जगत् ।
घटाकाशमठाकाशौ महाकाशेन संयुतौ ॥२.६.२२॥

आनन्दघन सामुद्रतरङ्गेनाभिधावितः ।
तद् गाढ परमानन्द ज्योतिः सिन्धौ निमज्जितः ॥२.६.२३॥

तन्मध्ये जगदम्बायाः कृपामय्याः कृपाकणाम् ।
लब्धमात्रस्तु धन्यः स परमानन्द निवृतः ॥२.६.२४॥

एवं मातुः सच्चिदानन्दमय्या नित्यं शुद्धं बुद्धमुक्तस्वरूपम् ।
दृष्ट्वा किञ्चिद्भाशितुं नो समर्थो मामेत्युक्त्वा ज्ञानशून्यो बभूव ॥२.६.२५॥

रूपं देव्या दर्शनेनाचितस्य नाशापूर्णा चेतसो व्याकुलस्य ।
नैरन्तर्येणेक्षनस्यैव हेतोश्चित्त शक्त नैवचार्थेषु किञ्चित् ॥२.६.२६॥

भावेन भङ्ग्या व्यवहारतोऽस्य पूजादिका प्राक्तन शास्त्ररीत्या ।
सम्पूर्ण भिन्ना गिरिजा प्रसादात् गदाधरोऽयं न स पूर्वमानुषः ॥२.६.२७॥

मातुलस्याद्भूतां चेष्टां कालेऽस्मिन्नवलोक्य च ।
अतीव चिन्तया युक्तो हृदयोऽधीरतां गतः ॥२.६.२८॥

स्वर्गतो मातुलो ज्येष्ठो तादृशान्य जनोऽपि वा ।
नास्त्यत्र स्वजनः कोऽपि यं गुह्यं विनिवेदये ॥२.६.२९॥

मन्दिर प्राङ्गने गङ्गागर्भे कालोगृहान्तरे ।
यत्रकुत्रोस्थितो वापि सिंहविक्रम ठाकुरः ॥२.६.३०॥

अनिर्वाच्य दिव्यभावावेशं दृष्ट्वा भयेन वै ।
पूनर्द्रष्टुं न शक्नोमि तेजःपुञ्ज कलेवरम् ॥२.६.३१॥

पूजाकाले ठाकुरस्य पूजादर्शनजस्पृहा ।
प्रलोभयति मां नित्यं त्यक्तुं न पारयामि ताम् ॥२.६.३२॥

मयि प्रविष्टे सहसा मन्दिराभ्यन्तरे क्वचित् ।
तत्र दृग्गोचरं मे स्यात्तेनाप्तो बहुविस्मयः ॥२.६.३३॥

बहिरागत्य तत् सर्वं विचर्य च पुनः पुनः ।
इदमेव सुनिष्पन्नं पागलो मातुलो मम ॥२.६.३४॥

अन्यथा चरणञ्च दृक् पूजाकाले कथङ्कृतम् ।
सरक्तचन्दन जवा विल्वपत्राक्षतादिकम् ॥२.६.३५॥

करे विधृत्य तमर्घ्यं दत्वा स्वमुण्डिं वक्षसि ।
तथा स्वपादयोर्न्यस्य भावाविष्टः सुपूजकः ॥२.६.३६॥

ततो देव्याः श्रीचरणे तदर्ध्यं व्यतरत्तदा ।
एवमलौकिकीं पूजां दृष्ट्वा सोऽभूच्चमत्कृतः ॥२.६.३७॥

कदापि मद्यपस्येव नेत्रे द्वेरक्ततां गते ।
वेपमानः सुसर्वाङ्गः प्रायेण पतितश्च सः ॥२.६.३८॥

टलन् पूजासनं त्यक्त्वा देव्याः सिंहासनोपरि ।
उत्थितः स्नेहती मातुर्विधृत्य चिबुकं तदा ॥२.६.३९॥

मामेति मधुरं वाक्यमुक्तवांष्ठाकुरो बहु ।
प्राप्य कुमारिकां कन्यां प्रीत्यागत पिता यथा ॥२.६.४०॥

अन्येद्युर्भोग वेलायां देव्या भोगं ददन् मुदा ।
पात्रात्व्यञ्जनमन्नञ्च गृहीत्वैवोत्थितः सुखम् ॥२.६.४१॥

मातुरास्यं विदार्यैव तदन्नं तत्र दत्तवान् ।
प्रोवाच भुङ्क्ष मातस्त्वं सुखं भुङ्क्ष मदीयकम् ॥२.६.४२॥

अन्नमेवं गद्गदयावाण्या तां परितोष्य च ।
पुनरुक्तं वदसि मां भोजनार्थं जगन्मयि ॥२.६.४३॥

एवं भवतु भो मातः खादामि पश्य मे मुखम् ।
वदन्नेवं प्रसादीयं किञ्चिद्भुक्ता स्वयं तदा ॥२.६.४४॥

भुक्तशेषं तदन्नञ्च पुनर्मातुर्मुखे ददौ ।
भुक्तमन्नं मया देवी भुङ्क्ष सर्वं मतःपरम् ॥२.६.४५॥

एवं प्राकृतवद्देवीमुवाच जगदम्बिकाम् ।
मातुलस्य देवसेवां दृष्ट्वा वाचाति विस्मितः ॥२.६.४६॥

अर्चनेयं कथम्भुता ज्ञातुं लेशे कथञ्चन ।
पुनरन्य दिनेऽपश्यद् भोगदानार्थमासने ॥२.६.४७॥

उपविश्य मातुलोऽयं मार्जारं कृत सरवम् ।
आहूय भगवत्यम्ब भुङ्क्ष भुङ्क्षाब्रवीद्वच ॥२.६.४८॥

भोद द्रव्यं स्वहस्तेन मार्जारं तमभोजयत् ।
एवं रात्रावेकदाहमपश्यमद्भूतं महत् ॥२.६.४९॥

देव्याः शयनकालेतु न दत्वा शयनम् तदा ।
रौप्यनिर्मितखट्वायां मातुलः स्वयमेव हि ॥२.६.५०॥

शेते तत्र सुखेनैव गाढ निद्रा पुरःसरम् ।
गत निद्रोवेदन्नुच्चैर्देवीमुद्दिश्य मातुलः ॥२.६.५१॥

शयनार्थं सकाशे ते मां ब्रवीषि जगन्मयि ।
आदेशस्तव भो मातः सर्वतः परिपालितः ॥२.६.५२॥

मातुलस्य दशां दृष्ट्वा हृदयश्चिन्तितो भृशम् ।
विषयस्यास्य जिज्ञासामथवास्य प्रतिक्रियाम् ॥२.६.५३॥

असमर्थं संनिधातुं यतो गुह्यतमस्त्वयम् ।
मत्तो वा मातुलादन्यो यदि जानाति कश्चन ॥२.६.५४॥

तर्ह्यस्माकं महद्दुःखमथवा प्राणसंशयम् ।
भविष्यति न सन्देहः किं करिष्यामि साम्प्रतम् ॥२.६.५५॥

विज्ञाते मन्दिराध्यक्षे मृत्यु नौ भविताध्रुवम् ।
एवं हृदयरामेन कृते संगोपनेऽपि च ॥२.६.५६॥

अशास्त्रीयार्चना देव्यास्तत्त्रस्य परिचारकैः ।
अचिरनैव विज्ञाता दक्षिणेश्वरवासिभिः ॥२.६.५७॥

ऊचुस्तेऽपि पूजकोऽयं क्षिप्ततां प्राप्तवान् ध्रुवम् ।
अथवोपदेवतास्य स्कन्धारूढेति निश्चितम् ॥२.६.५८॥

अन्यथा ब्राह्मण युवाप्यार्याचारं विलङ्घ्य च ।
चिदानन्दमयीं कालीं सृष्टिस्थित्यन्तकारिणीम् ॥२.६.५९॥

शिववक्षः समारूढां मातरं भवतारिणीम् ।
क्रीडापुत्तलिकां कृत्वा यथेच्छाचारमाश्रितः ॥२.६.६०॥

एवं बहु विजल्पेन तत्रस्थाः कर्मचारिणः ।
स्वेच्छाचारमिमं राज्ञीं विज्ञापायितुमुद्यताः ॥२.६.६१॥

तदासीन्मथुरानाथः श्वश्रुदेव्याः सकाशे हि ।
जानवाजारभवने लिप्तो विषयकर्मणि ॥२.६.६२॥

कमप्येकं वैषशिकं व्यापारमवलम्ब्य च ।
राजद्वारे विचारार्थं तावुभौ चिन्तितौ भृशम् ॥२.६.६३॥

तस्माद्राज्ञी जामाता च दक्षिणेश्वर मन्दिरे ।
आगन्तुं न समर्थो तौ बह्वहः सुगतेषु च ॥२.६.६४॥

अनाचारः पूजकस्य ह्यध्यक्षस्यानुपस्थितेः ।
सर्वेऽप्येवं सुनिश्चित्य तत्रस्थाः कर्मचारिणः ॥२.६.६५॥

जानवाजारमागत्य मथुराय न्यवेदयन् ।
इमं हि पूजकं शीघ्रमनाचाररतं ध्रुवम् ॥२.६.६६॥

दूरमुत्सृज्य वातुलं सदाचाररतं द्विजम् ।
नूतनं पूजकं तत्र नियोजयतु भो भवान् ॥२.६.६७॥

श्रुत्वा श्रीमथुरानाथस्तेषां वाचः सयुक्तिकाः ।
उवाचाहं तत्र गत्वा पूजां दृष्ट्वा विशेषतः ॥२.६.६८॥

करिष्यामि सुव्यवस्थामधुना यात तत्र हि ।
परन्तु तत्र यावन्मे न गतिः सम्भविष्यति ॥२.६.६९॥

करोति यादृशीं पूजां भट्टचार्य महोदयः ।
पूजां करोतु तद्रूपां वाधां तत्र न दापय ॥२.६.७०॥

भट्टाचार्य मते नैव पूजाकार्यं ध्रुवं भवेत् ।
एवं श्रीमथुरानाथेनोक्तास्ते कर्मचारिणः ॥२.६.७१॥

पुनः प्रत्यागताः सर्वे तस्यागमनकाङ्क्षया ।
कालक्षेपं प्रकुर्वन्तो दिनानि गणयन्ति ते ॥२.६.७२॥

परस्परं प्रजल्पन्ति पूजकं प्रति ते तदा ।
पागलं पूजकं त्यक्त्वा नूतने पूजके वृते ॥२.६.७३॥

देवमन्दिरमर्यादारक्षा तेन भविष्यति ।
सहसाहनि कस्मिंश्चिन्नोक्ता कमपि किञ्चन ॥२.६.७४॥

आगतो मथुरानाथो दक्षिणेश्वर मन्दिरे ।
तदाशेषश्रद्धापात्र तातो गदाधरः स्वयम् ॥२.६.७५॥

मन्दिराभ्यन्तरे पूहजासने पद्मासने स्थितः ।
नेत्रे निमील्य पद्मानि विधृत्य करपद्मयोः ॥२.६.७६॥

अश्रुभिर्वहुभिस्तस्य सिक्तं हृदुदरं तथा ।
द्रष्टैवं मथुरानाथः सभयो देवमन्दिरे ॥२.६.७७॥

प्रवेशमात्रतस्तस्य हृत्कम्प समुपस्थितः ।
उवाच विस्मयाविष्टो मथुरः सुकृतेर्बलात् ॥२.६.७८॥

कोऽयन्तु विश्वब्रह्माण्डस्तम्भकारी स्थिरस्थितिः ।
महाभावेन सम्पूर्ण उज्वलोकृत मन्दिरः ॥२.६.७९॥

पाषाण प्रतिमेयं किं सत्यं सचेतना सती ।
पूजकस्याग्रतः साद्य स्वरूपेणावभाषते ॥२.६.८०॥

अहो वदनमण्डलस्याद्यकामधुर प्रभा ।
त्रिनयन प्रभा देव्याः कोटिसूर्य समप्रभा ॥२.६.८१॥

बहुवारं बहुदिनं मन्दिराभ्यन्तरेऽप्यहम् ।
अपश्यमम्बिका मूर्तिं साधारणतया पुरा ॥२.६.८२॥

किन्तु तामेव पश्यामि जीवितामधुनास्फुटम् ।
श्वासप्रश्वाससंयुक्ता कम्पमानं खड्गमुण्डयोः ॥२.६.८३॥

मन्दिराभ्यन्तरे कोऽपि को वात्रायाति याति वा ।
तत्रभ्रुक्षेपनश्चास्य नास्त्यन्तर्दृष्टि योगतः ॥२.६.८४॥

एवन्तत् शुद्धचैतन्यं मातृसायुज्यताङ्गतम् ।
ईदृक् साधकवर्यस्य सम्भवत्येव लक्षणम् ॥२.६.८५॥

एवमाराधनाधारा प्रेमभक्ति प्रदायिका ।
यथाशेष साधकानां सुलभं साध्यवस्तु च ॥२.६.८६॥

एवं श्रीजगदम्बायाः सकाशे बालको यथा ।
परन्तु विगलिताश्रुधारयाकुलितो भृशम् ॥२.६.८७॥

उद्दमोल्लसयुक्तोऽसौ देव्याङ्घ्रिकमले बहु ।
पुष्पाञ्जलिं प्रदायैव ब्रवीति प्रेम विह्वलः ॥२.६.८८॥

गृहाणेदं शुभं मातस्तया मेऽप्यशुभं नय ।
ज्ञानाज्ञान धर्माधर्म पुण्यपापादिकांस्तथा ॥२.६.८९॥

सर्वं गृहाण मे देवी त्वयि भक्तिं प्रयच्छ मे ।
ब्रुवन्नेवं महायोगी समाधिमगमत्तदा ॥२.६.९०॥

पूजकस्य तन्मयतां भावभङ्ग्यादिकञ्च तम् ।
स्वात्मार्पनं व्याकुलतामालोक्य मथुरो महान् ॥२.६.९१॥

कण्टकीकृत सर्वाङ्गः साश्रुचक्षु विचक्षणः ।
मन्यते स्म तदैवं हि श्रीजगज्जननीं प्रति ॥२.६.९२॥

सुविशुद्ध मातृभक्तेः प्रबल प्रेरणां विना ।
वैधिभक्तिमतिक्रम्य प्रेमभक्तिः कथं भवेत् ॥२.६.९३॥

नेदृग् विधे भक्तिमये सुच्चमार्गे सुदुर्लभे ।
समर्थः साधकः कोऽन्यः प्रवेष्टुं पूजकोऽपि वा ॥२.६.९४॥

अपूर्वं पूजकस्यास्याकापथ प्रेममार्गतः ।
स्वरूपं किं विजानन्न्ति भृत्याः सङ्कीर्णचेतसः ॥२.६.९५॥

नास्तीदृक् साधकः कोऽपि तातो मे पूर्वसाधकः ।
सिद्धेः पथि साधनेयं धाविता द्रुतवेगतः ॥२.६.९६॥

जगन्मातुः कृपाप्राप्त्या धन्योऽभूत् साधकोत्तमः ।
एवं श्रीमथुरानाथो भावभावित मानसः ॥२.६.९७॥

साधकस्य साधनायां सन्तुष्टोऽभूत् सुसज्जनः ।
परन्तु कृपया तस्य मातृभक्तिर्दृढाभवत् ॥२.६.९८॥

तदा साधकवर्योऽपि मातरं सर्वसिद्धिदां ।
अदूरात्तां नमस्कृत्य तद्भावेनैव भावितः ॥२.६.९९॥

प्रोवाच भो जगन्मातस्त्वत् प्रतिष्ठाद्य सार्थिका ।
प्रतिष्ठातुरग्रजस्य साधना शक्तितो मम ॥२.६.१००॥

भवत् कृपाभवद्देवि भूतये भवगेहिनी ।
पूर्वजानां प्रभावाद्धि परजाः प्रभवन्ति हि ॥२.६.१०१॥

पागलस्य पुजकस्य विग्रहं द्रष्टुमोत्सवः ।
सर्वे भृत्याः प्रतीयन्ते मन्दिर प्राङ्गने स्थिताः ॥२.६.१०२॥

निशब्दं मथुरं किन्तु मन्दिराद्वहिरागतं ।
दृष्ट्वा भवन् विस्मयप्ता प्रभोरादेशकाङ्क्षी ॥२.६.१०३॥

कर्ता तु कमपि किञ्चिन्नोक्ता राजगृहं गतः ।
तदीय यानमारुह्य व्यग्रभाव पुरःसरम् ॥२.६.१०४

इति श्रीभक्तितीर्थे विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहिताया गदाधरस्य देवीपूजाकाले मथुरानाथस्य देव्यां प्रत्यक्षदर्शन रूपो मध्यलीलायां षष्ठोऽध्यायः ॥६॥