मध्यलीला
गदाधरस्य सर्वजीवे शिवज्ञानं साधनम्
मध्यलीलायां अष्टमोऽध्यायः
ततो जगन्मलमङ्गलात्मना विधाय देव्यास्तदपूर्वसाधनम् ।
दैनन्दिनाध्यात्मिकभावावृद्धितः कर्तुं न शक्तः कृतकृत्यशेषतः ॥२.८.१॥
भावावेशात् सर्वदा तन्मयत्वात् बाह्य पूजा वर्जिता वैधरूपा ।
पूर्वं भोगं यत्नतः सम्प्रदाय तत् पश्चात्तत् पाद्यदानं चकार ॥२.८.२॥
कदापि वा ध्याननिमग्न चित्तो विस्मृत्य पूजां जगदम्बिकायाः ।
देव्याप्रसूनैः शिव विल्वपत्रैर्गन्धादिभिः प्रार्च्य निजां हि मूर्ति ॥२.८.३॥
भोग्यद्रव्येर्भोजनं स्वविधाय स्वोच्छिष्टान्नैर्भोगदानं समर्प्य ।
विस्मृत्यासावर्चकार्च्यादि भावं तस्थो स्तब्धो बुद्धमुक्तस्वभावः ॥२.८.४॥
दशायामस्यां तातस्य महादेव्या प्रपूजनम् ।
असम्भाव्यमहं मन्ये सेवाया बाह्यरूपतः ॥२.८.५॥
तातान्तःकरणं बाह्य विषयाद्विनिर्वतितम् ।
अतोऽस्य पूजनं बाह्यं विषतुल्य् इ निश्चितम् ॥२.८.६॥
विमृश्यैव श्रीमथुरः पूजकार्थं प्रयत्नवान् ।
कृपया भवतारिण्याः पूजकं प्राप्ततत्क्षणात् ॥२.८.७॥
गदाधरस्य कालेऽस्मिन् पितृव्य तनयः सुधोः ।
सुपण्डितः सदाचारः कर्मठो रामतारकः ॥२.८.८॥
आगतः कर्मलाभाय दक्षिणेश्वरमन्दिरे ।
गदाधरस्य रोगोऽयं यावन्न याति निश्चितम् ॥२.८.९॥
तावद्वै पूजनं मातुः करोतु रामतारकः ।
हलधारीतिनामस्य प्रदत्तं ठाकुरेण वै ॥२.८.१०॥
तेनात्र हलधारीति नाम्नैव विदितो जनैः ।
हलधारी व्रती भूत्वा पूजकस्थ पदेऽपि तम् ॥२.८.११॥
स्वाहारार्थं श्रीमथुरं विज्ञापितमथाकरोत् ।
स्वपाकं भक्षयिष्यामि नान्यपाकं कदाचन ॥२.८.१२॥
श्रुत्वातन्मथुरानाथोऽप्युवाच हलधारिणम् ।
कथमेवं तव भ्राता भागिनेयोऽपि पण्डितः ॥२.८.१३॥
प्रसादीयान्नं देव्यास्तौ भक्त्या भक्षयतो ध्रुवम् ।
मथुरेनैवमुक्तेऽपि श्रीरामतारकोऽब्रवीत् ॥२.८.१४॥
भ्रातुर्मेऽभेद बुद्धित्वादुच्चमार्गावलम्बनात् ।
न दोषस्तस्य तद्रूपे प्रसादीयान्न भोजने ॥२.८.१५॥
भागिनेयोऽपि तस्यैवं वश्यताप्राप्ति हेतुतः ।
गदाधरस्य मद् भ्रारतुर्मतं तन्मतमेव हि ॥२.८.१६॥
कण्ठं गतेषु प्राणेषु तथा न करवाम वै ।
ब्रह्मण्यधर्मनिष्ठायास्तेन न मे स्खलनं भवेत् ॥२.८.१७॥
हलधारि मतेनैवा भवद्देव्याः प्रपूजनम् ।
किन्त्वलौकिक भावस्त भ्रातुर्गदाधरस्य च ॥२.८.१८॥
साधनायां सुविश्वासः कर्तुं न सर्वथा क्षमः ।
कदापि वा तदाचारे संशयः प्रकटीकृतः ॥२.८.१९॥
एकदा वा सुप्रशंसां भूरिरूपामथाकरोत् ।
एवमहनि कस्मिञ्चिद्भावेन तन्मयात्मना ॥२.८.२०॥
देव्या सह मातृभावं कुर्वता ठाकुरेण हि ।
स्तन्यपानं कृतं देव्याः पुत्रेण शिशुना यथा ॥२.८.२१॥
कदापि वा पादमूले पतितः क्रन्दनस्वरैः ।
क्रोडे कुरु महादेवि पुत्रं मां पुत्रवत्सले ॥२.८.२२॥
एवमुक्ता महादेव्याः पदौस्पृष्ट्वा स्ववक्षसा ।
अश्रुभिःसिक्त पादौ तौ दृढरूपमधारयत् ॥२.८.२३॥
भावोच्छासमिमं दृष्ट्वा हलधारी सुविस्मितः ।
अवददुच्चकण्ठेन न ठाकुरं भावविग्रहम् ॥२.८.२४॥
परे त्वामद्य जानामि ब्रह्मरूपिणमीश्वरम् ।
श्रुत्वैव प्रत्युवाचेदं ठकुरो हलधारिणम् ॥२.८.२५॥
सावधानो भव त्वं भो न पुनर्विस्मृतो भव ।
श्रुत्वा गादाधरी वाचं हलधार्यब्रवीद्वचः ॥२.८.२६॥
त्वत्स्वरूपं पुनस्त्वं मे गोप्तुं नालमसि ध्रुवम् ।
ऐश्वरिको महाशक्तिस्त्वयि नूनं समागता ॥२.८.२७॥
कृपया करुणा करुणामय्या ज्ञातमद्य मया दृढम् ।
ततो गदाधरेणोक्तं वसात्र दक्षिणेश्वरे ॥२.८.२८॥
कञ्चित्कालं मया सार्द्धं ततो ज्ञास्यामि ते मतम् ।
एवमुक्त्वा महातेजास्तुष्णीम्भावं गतः स हि ॥२.८.२९॥
ततः कतुपयाहसु गतेषु हलधारिणः ।
ठाकुराचरणं दृष्ट्वा भावान्तरमुपस्थितम् ॥२.८.३०॥
योऽसौ गदाधरः पूर्व प्रसादीयान्न भोजने ।
कृतवान् बहुशस्तर्कं पण्डितेनाग्रजेन हि ॥२.८.३१॥
दीनत्वस्यैव संसिद्धे वधुना देव एव सः ।
साधनार्थं साधारण स्थास्पृश्यमशुभञ्च यत् ॥२.८.३२॥
स्थानं तद्धीतकरणं स्वहस्तेन न कुण्ठितः ।
विधृत्योच्छिष्टपत्राणि मस्तके वै गदाधरः ॥२.८.३३॥
खञ्जश्वित्रि दरिद्राणां गङ्गागर्भे न्ययातयत् ।
सम्मर्जनीं स्वयं नीत्वोच्छिष्ट स्थानममार्जयत् ॥२.८.३४॥
पुनरण्यदिने साधुः समबुद्धिमदर्शयत् ।
सर्वजीवे शिवज्ञान साधनसिद्धये सुधीः ॥२.८.३५॥
दरिद्रोच्छिष्ट भक्तानामकरोद्भोजनं स्वयम् ।
महाप्रसाद बोधेन मस्तकोपरिधारयन् ॥२.८.३६॥
कृत्वैवमानन्दयुतो नृत्यतिस्म गदाधर ।
यथा धनो लब्धधनः परमानन्द निर्वृतः ॥२.८.३७॥
दृष्ट्वा धैर्यच्युतिः प्राप्तो हलधारी गदाधरम् ।
सक्रोधमुक्तवांस्तन्तु किं कृतं भोः कुबुद्धिना ॥२.८.३८॥
ज्ञानतः पतितोच्छिष्ट गलाधःकरणङ्कृतम् ।
तेन त्वं पतितो भूत्वा चण्डालत्वं गतोऽधुना ॥२.८.३९॥
परन्तु ते पुत्रकन्या विवाहो न भविष्यति ।
सामाजिकजनैस्त्वन्तु वर्जितो नात्र संशयः ॥२.८.४०॥
संसारकूप मग्नस्य वाक्येन हलधारिणः ।
अपारधैर्य गाम्भीर्य धाररूपस्य योगिनः ॥२.८.४१॥
निःशेषं भग्नतामाप्य धैर्य सेतुर्महात्मनः ।
सुतीक्ष्णस्वरसंयुक्त क्रोधप्रस्फुरिताधरः ॥२.८.४२॥
प्रोवाच ठाकुरस्तन्तु पण्डितं हलधारिणम् ।
त्वया श्रीभगवद्गीताऽधीताचाध्यापिता ध्रुवम् ॥२.८.४३॥
वेदान्तवाक्य स्तोमस्य विचारोऽपि कृतस्त्वया ।
शास्त्रव्याख्यानकाले तु जगन्मिथ्येति मन्यते ॥२.८.४४॥
सर्वं ब्रह्ममयं जगदिति किं नाभिभाष्यते ।
सर्वभूते ब्रह्मदृष्टिः कर्तव्येति सदोच्यते ॥२.८.४५॥
नारायण स्वरूपस्य दरिद्रस्यान्नभोजनात् ।
जाताद्य मे चित्तशुद्धिः साधुनामुपदेशतः ॥२.८.४६॥
अत्रेदं भगवद्वाक्यं स्मार्तव्यं पण्डितैः सदा ।
शुनिचैव स्वपाके च पण्डिताः समदर्शिनः ॥२.८.४७॥
किन्त्वया चिन्तितञ्चेत्थं तादृशोऽहंशठः सुधी ।
ब्रह्म सत्यं वदिष्यामि करिष्यामि प्रियाप्रियम् ॥२.८.४८॥
शास्त्रानुशीलनं त्वां धिङ्मूर्खं पण्डितमानिनम् ।
शास्त्राध्यायन साफल्यं विफलं प्रतिभाति ते ॥२.८.४९॥
श्रुत्वैवं हलधारी तु शास्त्रसिद्धान्तमुत्तमम् ।
स्वपाण्डित्यस्याभिमानं सर्वं समजहात्तदा ॥२.८.५०॥
स्थूणात्वेनावस्थितस्य विदुषो हलधारिणः ।
जातश्चैवं सुसिद्धान्तो जीवन्मुक्तो गदाधरः ॥२.८.५१॥
इति श्रीरामेन्द्र सुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामक्र्ष्णभागवते मध्यलीलायां प्रारमहंसां संहितायां गदाधरस्य सर्वजीवे शिवज्ञान साधनरूपोऽष्टमोध्यायः ॥८॥