मध्यलीला
गदाधरस्य जन्मभूमौ श्मशानमध्ये कालिका
प्रत्यक्षीकरणम्
मध्यलीलायां नवमोऽध्यायः
मन्दिरस्य प्रतिष्ठातो गतं वर्णचतुष्टयम् ।
किन्तु गदाधरस्यायं दिव्योन्मादो गतो न हि ॥२.९.१॥
स्वास्थ्यविद्भि विशेषज्ञैरेवमुक्तं
विचक्षणैः ।
न याद्ब्रह्मचर्यस्य स्खलनं भवति ध्रुवम् ॥२.९.२॥
तावदुन्मादभावस्य न किञ्चित् परिवर्तनम् ।
भविष्यतीति नः शास्त्रसम्मताधारणा मता ॥२.९.३॥
उन्मादरोगमुक्त्यर्थं मथुरो चिन्तितो
भृशम् ।
हृदयेन समालोच्यावैधोपायः समाश्रितः ॥२.९.४॥
आरोग्यस्यानुरोधेन रूपेणाप्रतिमां भुविः ।
स्थानीय तरुणीं काञ्चित्तस्य शय्या समीपतः ॥२.९.५॥
अरक्षदुपभोगार्थं शीघ्रन्तद्रोगमुक्तये ।
तदा गदाधरोऽन्यत्रावस्थितो ध्यानमास्थितः ॥२.९.६॥
प्रविश्य तरुणीं दृष्ट्वा सायाह्णे तां
गृहान्तरे ।
अपूर्वोल्लासतः सूच्चकण्ठं हृदयमाह्वयत् ॥२.१.७॥
अरे हृदु हृदु इति वारं वारं वदश्च सः ।
एह्यैहि पश्य शीघ्रं नो गेहे केयं समागता ॥२.१.८॥
हृदयोऽति तरां धावंस्ततत्रागत्य सविस्मयः ।
स्तब्धीभूतस्तां तरुणीं ददर्शाश्चर्यवत्तदा ॥२.१.९॥
गलदश्रुलोचनेभ्यो सुन्मतीं मातुलो महान् ।
प्रणम्य तरुणीं तान्तु गद्गदेन स्वरेण वै ॥२.९.१०॥
मा मा मेति वदनभुरि बद्धाञ्जलि पुरःसरम् ।
वीरासनेनोपविश्य प्रार्थनामकरोत्तदा ॥२.९.११॥
कृपयास्मद् गृहे यस्मादगता भवसुन्दरि ।
अतस्तव दीनहीन पुत्राय देहि चाशिषम् ॥२.९.१२॥
येन मे मनसो वाञ्छां पुरयेज्जगदम्बिका ।
नारीमात्रे मातृबुद्धिर्दृष्ट्वा सा मुग्धता गता ॥२.९.१३॥
ठाकुरस्य परीक्षार्थं वैद्योपदेशतोऽथवा ।
रोगशून्य कारयित्वा विषयास्वादसंयुतम् ॥२.९.१४॥
कर्तुं तं मथुरेणेदृगुपायश्चावलम्बितः ।
किन्त्वत्राद्भुत चर्यां स दृष्ट्वे मां ज्ञातवांस्तदा ॥२.९.१५॥
स्पर्शमणेः स्पर्शहेतोरायसंयाति हेमताम् ।
आयसस्य तु संस्पर्शान्नभवेदायसं मणिः ॥२.९.१६॥
तथेयं सुखसंस्पर्शा तरुणी कोमलात्मिका ।
अतीव सौन्दर्ययुता कामुक प्रीतिदायिका ॥२.९.१७॥
असीम संयमप्राप्त साधनासिद्ध योगिनः ।
दर्शनेनैव निर्धूत पापारूपान्तरं गता ॥२.९.१८॥
सा पदोर्लुण्ठिता सद्य य्वाच करुणस्वरैः ।
पितस्ते बहवो विज्ञाः स्वरूपं न विदन्ति वै ॥२.९.१९॥
कथं जानामि ते रूपं सर्वैर्या
निन्दिताह्यहम् ।
क्षमस्व कृपया देव मामुद्धर दयानिधे ॥२.९.२०॥
एवमुक्त्वा तदा नारी सर्वस्वं परिहाय सा ।
गललग्नीकृतावासा तत् पादलुण्ठिता सती ॥२.९.२१॥
प्रणम्य देव देवेशं ज्ञात्वा नारायणं
हरिम् ।
तद्दिनावधि तत्रैव साधानायां रता भवत् ॥२.९.२२॥
तदा मथुरानाथेन मनस्येतद् विचिन्तितम् ।
ठाकुरेण सुविज्ञातं ममेदं दुष्टचेष्टितम् ॥२.९.२३॥
चेतो विकार वार्तेयं देवस्य बहुभिर्जनैः ।
कृता पल्लविता तत्र यत्र जातो गदाधरः ॥२.९.२४॥
चन्द्रादेव्यपि पुत्रस्य चिन्तयाकुलिता
भृशम् ।
सविधे संरक्षणाय शुश्रूषा यत्र हेतवे ॥२.९.२५॥
मात्रा सम्प्रेरितः कश्चित्
कामारपुकुराज्जनः ।
शीघ्रं तत्र समागत्य दक्षिणेश्वरमन्दिरे ॥२.९.२६॥
गदाधरं तत्र नेतुं मथुराय न्यवेदयत् ।
आकर्ण्य मथुरानाथः शुभं मत्वा व्यचिन्तयत् ॥२.९.२७॥
सम्भावना रोगमुक्तेः स्थानस्य परिवर्तनात्
।
स्नेहमय्या जनन्यास्ति सर्वदा परिचर्यया ॥२.९.२८॥
एवं तुष्टेन मनसा दातुं मात्रे धनं बहु ।
बह्वर्थ सद्भृत्ययुतं गोयानेन समन्वितम् ॥२.९.२९॥
अस्त्रशस्त्रदण्डधारि संरक्षक जनैर्वृतम् ।
वाष्प संरुद्धकण्ठस्तु मथुरः साश्रुलोचनः ॥२.९.३०॥
उवाचेदं सविनयं गच्छन्तं तं गदाधरम् ।
शीघ्रं प्रत्यागमं याचे तवाहं क्षुद्रकिङ्करः ॥२.९.३१॥
तदङ्घ्रिधूलिमागृह्य प्रणम्य च पुनः पुनः ।
साधुं स प्रेषयमास जन्मभूदर्शनाय सः ॥२.९.३२॥
एवं पञ्चषष्ठ्यदिक द्वादश शतसङ्ख्यके ।
बङ्गाब्दस्य मध्यभागे त्रयोविंश वयःक्रमे ॥२.९.३३॥
पैत्रिकभवने जन्मस्थाने दीर्घदिनात् परम् ।
पुनर्गृहं समागत्य सुस्थचित्तो गदाधरः ॥२.९.३४॥
ग्रामवासिजनैः सार्द्धमुवासानन्दयुक् सदा ।
दक्षिणेश्वर वार्ताञ्चोवाच सर्वान् सुहृज्जनान् ॥२.९.३५॥
एवं कियद्दिने याते यो भावो दक्षिणेश्वरे ।
तद्भावं पुनरत्रैवागतस्तत् पितृसद्मनि ॥२.९.३६॥
मामेति सूच्यध्वनिना व्याकुला क्रन्दनेन च
।
भावादेशात्तदा प्राप्तो बाह्यज्ञान विलुप्तताम् ॥२.९.३७॥
आतङ्किताः परिजनाश्चान्योऽपि भयविह्वलाः ।
तत् पल्लीवासिनश्चापि वभूवुः शङ्किता भृशम् ॥२.९.३८॥
यदा व्याकुलितो भावो नायातष्ठाकुरस्य हि ।
तदा भूतिर्खाल इति बुधुइ मोडल इत्यपि ॥२.९.३९॥
नाम्ना महा श्मशाने द्वे
पल्लीप्रान्तद्वये स्थिते ।
अत्युच्चशक्तिमन्तोऽपि पुरुषा दिवसेऽपि च ॥२.९.४०॥
यातुं पितृवने तेऽपि भृशं भीता भवन्ति वै ।
अमानिदशान्धकारे स एकलः श्रीगदाधरः ॥२.९.४१॥
प्रोष्य रात्रिं प्रातःस्नात्वा
पुष्पहस्तो गृहेऽविशत् ।
कस्याञ्चिदपि वा रात्र्यां तदीयो मध्यमाग्रजः ॥२.९.४२॥
रामेश्वरस्तदन्वेषी जपदीपययुतः सुधीः ।
गदाधरेतिनाम्ना च श्मशानस्याविदूरतः ॥२.९.४३॥
आहूतवान् साग्रहं तं भ्रातरं श्रीगदाधरम् ।
श्रुत्वैवं तत्क्षणादूचे गच्छामि शीघ्रमेव हि ॥२.९.४४॥
त्वमस्यां दिशिमागच्छ तवानिष्टं भविष्यति ।
एवं तत्तदाचरणं द्रष्ट्वा तत्स्थानवासिनः ॥२.९.४५॥
सर्वेऽपि मेनिरे तत्र साधनार्थं गदाधरः ।
रात्रौ श्मशानमभ्येति साधनासिद्धये सुधीः ॥२.९.४६॥
प्रायेण प्रकृतिस्थं तं गदाधर मतः परम् ।
पश्यन्ति स्नेहसंयुक्तं चक्षुषा ग्रामवासिनः ॥२.९.४७॥
अपूर्व मानवस्यास्य यस्यार्थे व्याकुलं
मनः ।
मर्मस्पर्शो सदोच्छ्वासो रोदनञ्च निरन्तरम् ॥२.९.४८॥
दृष्ट्वा विलीनं तत् सर्वं विदुः सर्वे
सुनिश्चितम् ।
साधनामृतपानेन सुतृप्तोऽयं गदाधरः ॥२.९.४९॥
साधकानुग्रहार्थाय भक्ताभिष्ट प्रदायिनी ।
चिदानन्दमयी काली स्वमूर्तिं तमदर्शयत् ॥२.९.५०॥
यन्महासाधकानां हि काम्यमेकान्त दुर्लभम् ।
तदायत्तमभूत्तस्य दुष्प्रापमपि दैवतैः ॥२.९.५१॥
साधकस्यैकनिष्ठस्य साधनाशक्तिशाखिनः ।
सुधाफलं समुद्भूतं भविष्यति न संशयः ॥२.९.५२॥
पूर्वं साधनकालेतु दक्षिणेश्वर मन्दिरे ।
जगन्मातुः स्वरूपस्य सकृद्दर्शनतः परम् ॥२.९.५३॥
याकाङ्क्षा साधकमनः करोत्युद्वेजितं सदा ।
अत्र महाश्मशाने तां साधना समपूरयत् ॥२.९.५४॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीरामकृष्णभागवते पारमहंसां संहितायां गदाधरस्य दक्षिणेश्वरात् जन्मस्थान प्राप्त्यननतरं श्मशाने देव्याः साक्षाद्दर्शनरूप मध्यलीलाया नवमोऽध्यायः ॥९॥