मध्यलीला
गदाधरस्य रामकृष्ण नामकरणादिः
मध्यलीलायां एकादशोऽध्यायः
दिनानि कतिचित्तत्र भैरवी देवतालये ।
स्थित्वा देवीमण्डलस्य घट्टे योगासनस्य सा ॥२.११.१॥
प्रतिष्ठामकरोत्तस्य मन्दिरस्य च सन्निधौ ।
अस्या एवोपदेशेन महायोगी गदाधरः ॥२.११.२॥
तन्त्रोक्त साधनयुक्तो वभूव भूरियत्नतः ।
ततः स परमानन्दं लेभेचैवं व्रते व्रती ॥२.११.३॥
साप्यस्य पुत्रतुल्यस्य योगिनो योगसिद्धये
।
साहाय्यं सुविशेषेण कृतवत्यति यत्नतः ॥२.११.४॥
मन्त्रसिद्धा शिक्षयित्री भैरवी स्तब्धतां
गता ।
दृष्ट्रा साधकवर्यस्य तदलौकिक साधनम् ॥२.११.५॥
ये चान्ये साधका दुःखैः साधना
क्रमभूमिकाम् ।
न समर्था विजेतुं यां प्राणपति परिश्रमैः ॥२.११.६॥
सा भूमिका प्रतिदिनमयत्नेनैव दुःखदा ।
जितानेन महाविघ्नकारिणी सुभयावहा ॥२.११.७॥
एव चतुःषष्ठिमितास्तन्त्रोक्ताः
साधनक्रमाः ।
सुकरा दुष्करा वापि विविधा विहिताश्च ये ॥२.११.८॥
वर्ष त्रयान्तरे तासु सिद्धिं लेभे सुखेन
सः ।
ततस्तु भैरवी देव्याः पूर्ण प्रयत्नतस्तथा ॥२.११.९॥
पूर्णाभिषेकः पूर्णस्य प्राप्तः सम्पूर्ण
पूर्णताम् ।
या दुर्लभा या दुष्प्राप्या मनसो वा ह्यगोचरा ॥२.११.१०॥
ता अष्टसिद्धीः सम्प्राप्त आनन्दमयमूर्ति
धृक ।
दृष्ट्वा सिद्धिं स्व शिष्यस्य भैरवी विस्मिताभवत् ॥२.११.११॥
अनिमाद्यष्टसिद्धीस्ता लब्धापि सुमहामति: ।
तदलौकिक शक्तिना कदापि परिचालनम् ॥२.११.१२॥
न कृतं तेन तु वरं सिद्धिविघ्न विधायिनीम्
।
सद्यो विभूतिं मत्वा तां तत्याज स योगीश्वरः ॥२.११.१३॥
वर्णाश्रमाचारादिकान् तन्त्र साधन कालतः ।
सर्वांस्तांस्त्यक्तवान् साधुः कैवल्याश्रम योगतः ॥२.११.१४॥
प्राणान्देहं मनश्चापि सर्वस्व मातृ
पादयोः ।
समर्प्यस्वीयमात्मानं वाह्याभ्यन्तरयोस्तदा ॥२.११.१५॥
ज्ञानाग्निना परिव्याप्तं ददर्श
साधकोत्तमः ।
तदा तद्विग्रहमपि तेजःपुञ्जपरिप्लुतम् ॥२.११.१६॥
विस्मितामनुजाः सर्व दृष्ट्वातीवमनोहरम् ।
पवन्तद्रूपमाधुर्यं कामनाशून्य योगिनः ॥२.११.१७॥
विरक्तः कारण' तस्य
चित्तस्य समभूत्तदा ।
योगिभिर्देह सौन्दर्यं यत्नतः परिहृयते ॥२.११.१८॥
अस्याश्चर्य स्वरूपस्य व्याख्यानावसरे
क्वचित् ।
गोष्टीमध्ये स्वशिष्यानामुवाच सुवेशेषतः ॥२.११.१९॥
तदा मे रूपमाधुर्यं दृष्ट्वा साधारणा जनाः
।
अक्ष्या वर्तयितुं शक्या यत्नेनापि न तु क्वचित् ॥२.११.२०॥
जवाकुसुम सङ्काशं रक्ताभं मन्मुखं वभौ ।
अभवद्गात्रकान्त्या च रविकान्तिर्निराकृता ॥२.११.२१॥
एवं हृन्मुखवाह्वङ्घ्रि मध्यतो
देहमण्डलात् ।
ज्योतिरुद्गम्य विमलं शुशुभे देव देहवत् ॥२.११.२२॥
तेन सर्वक्षणः स्थूल वस्त्रेणाच्छाद्य
मामकं ।
देहं मातुः समीपेऽहमवदन्नतमस्तकम् ॥२.११.२३॥
मातस्तया दत्तमिदं बाह्यरूपं महेश्वरि ।
गृहीत्वान्तर सौन्दर्यं देहि मे जगदम्बिके ॥२.११.२४॥
स्वगात्र चर्पटाघातं कृत्वोक्तञ्च
पुनःपुनः ।
बाह्य सौन्दर्यरूपं त्वं गच्छ शीघ्रं ममान्तरे ॥२.११.२५॥
एवं कृते कियद्दिनात परतः स्वयमेव हि ।
मालिन्यं मे देहकान्तेरभवन्मातुरिच्छ्या ॥२.११.२६॥
परन्त्वस्मिन्नवसरे भावि वृत्तपरम्परा ।
प्रत्यक्षताङ्गतास्तस्य योगिनो योगशक्तितः ॥२.११.२७॥
यत् कार्यसाधनार्थाय दिव्य देहस्य धारणम् ।
तथा दिव्यासाधना च यदर्थं विहिता शुभा ॥२.११.२८॥
तद्दिनावधि तत् सर्वं विज्ञातं सुमहात्मना
।
ज्ञातञ्चोत्तरकाले तु देवोद्यानेऽत्र साधकाः ॥२.११.२९॥
समेष्यन्ति धर्मलाभ कृते नानाविधा जनाः ।
तेन त्राणं सज्जनानां दुर्जनानां विशोधनम् ॥२.११.३०॥
भविष्यति न सन्देहः सद्धर्मः प्रचरिष्यति ।
स्वकीयोपलब्धि वाक्यं मथुरानाथ सन्निधौ ॥२.११.३१॥
कृतं व्यक्तं ठाकुरेण एकदा तत् कथान्तरे ।
श्रुत्वा श्रीमथुरानाथः सानन्दं प्रत्युवाच तं ॥२.११.३२॥
एवश्चेत्तर्हि भो तात शोभनं भवति ध्रुवम् ।
भगवन्तं गृहीत्वा त्वां सर्वेवयमतः परं ॥२.११.३३॥
आनन्दसिन्धुमग्नाः स्मो जगतोमङ्गलं भवेत् ।
एकदा नन्दरूपा सा योगारूढा महयसी ॥२.११.३४॥
योगासने योगयुक्ता दिव्यभाव समन्विता ।
अचिन्त्यस्याप्रमेयस्य गदाधर महाप्रभोः ॥२.११.३५॥
आलोक्यालौकिकीं शक्तिं भैरव्या तदचिन्तयत्
।
केयं भागवती शक्तिर्ययायं सर्वशक्तिमान् ॥२.११.३६॥
नोचेन्मयोपदिष्टा याः साधन क्रमभूमिकाः ।
श्रुतमात्रेण तत्सिद्धिर्निर्विकल्पसमाधिना ॥२.११.३७॥
कथमस्य स्वरूपं वा कथ वा योगयुक्तता ।
स्वयं सिद्ध स्वरूपस्य कथं वा गुरुकारिता ॥२.११.३८॥
भैरवी सा विमृश्यैवं ध्यानस्तिमित लोचना ।
चिन्तयति स्वरूपं किं श्रीगदाधर योगिनः ॥२.११.३९॥
तत् कण्ठ्याश्रुकलाक्षी सा
हृदब्जेऽपश्यदद्भूतम् ।
नवदूर्वादलश्यामं रामं राजीवलोचनम् ॥२.११.४०॥
सीतया रमया सार्द्धं सच्चिदानन्दरूपिणम् ।
एवं राधिकया युक्तं महाभाव स्वरूपया ॥२.११.४१॥
कन्दर्प कोटिलावण्यं कृष्णं पीताम्बरं
हरिम् ।
क्रमात्तौ श्रीरामकृष्णौ विलोनौ श्रीगदाधरे ॥२.११.४२॥
अतो गदाधरो योऽसौ श्रीरामकृष्ण एव सः ।
युगावतारः पूर्णोऽयं श्रीरामकृष्ण संज्ञकः ॥२.११.४३॥
अतः कलियुगेघोरे श्रीरामकृष्ण नामतः ।
प्राप्नुवन्ति नरामुक्तिं नान्यनाम सहस्रकात् ॥२.११.४४॥
एवं समाधियुक्ताया गतं नक्तन्दिवं यदा ।
प्रभाते श्रीरामकृष्ण भैरव्या हृदयाब्धतः ॥२.११.४५॥
सहसान्तर्हिते सा च सन्मुखे सन्ददर्श तं ।
तद्दिनावधि भैरव्या हृष्टेन मनसा तया ॥२.११.४६॥
स्वरूपं तस्य तज् ज्ञात्वा साधनालब्ध
चक्षुषा ।
श्रीरामकृष्ण देवो हि तन्नामकरणङ्कृतम् ॥२.११.४७॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीरामकृष्णभाव पारमहंस्यां संहितायां श्रीरामकृष्णदेवस्य भैरवोकृत नामकरण रूपो मध्यलीलाया एकादशोऽध्यायः ॥११॥