मध्यलीला
रामलालासेवी जटाधारी सन्न्यासी समागमः
मध्यलीलायां द्वादशोऽध्यायः
श्रीरामकृष्णदेवस्य योगारूढस्य तत्क्षणात्
।
साधना सिद्धि सम्प्राप्तिरपूर्वस्यास्य योगिनः ॥२.१२.१॥
अभूदलोकसामान्या भैरख्या आनुकूल्यतः ।
असाध्य साधनासिद्धेः प्राप्तिरेव न पूर्णता ॥२.१२.२॥
देव दानवा गन्धर्वा राक्षसा मुनि मानवाः ।
सिद्धिं प्राप्तास्तथा ते वै यं यं भाव समाश्रिताः ॥२.१२.३॥
वैष्णवा विष्णुमाप्ता वै सौरा: सूर्य्यं
शिवं तथा ।
शैवाः शाक्तास्तथा शक्तिं गाणपत्या गजाननम् ॥२.१२.४॥
सर्वेऽप्येव साधकास्ते स्व स्व
साधनशक्तितः ।
स्वां स्वां सिद्धिं समुत्पाद्य कृतार्थाह्यभवंस्तदा ॥२.१२.५॥
किन्त्वस्य साधनदशा ठाकुरस्य पृथग्विधा ।
आर्यानार्यं साधनानां भेदोनास्ति कथञ्चन ॥२.१२.६॥
नाना साधनमागः स देवतानामुपासनम् ।
अवलम्ब्य तत्र तत्र सिद्धिलाभ चकारह ॥२.१२.७॥
एवं साधन वैशिष्ट्यं प्राक्
सृष्टेरधुनावधि ।
लक्षितं न च कुत्रापि केवलन्तद् गदाधरे ॥२.१२.८॥
असाध्य साधिका माता चिद्रूपा परमेश्वरी ।
अद्भूत प्रकृतेरस्य सन्तानस्य सुसाधने ॥२.१२.९॥
चित्तव्याकुलतां ज्ञात्वा नाना साधन
सिद्धये ।
तत्तदुपासना सिद्ध परिव्राजक सत्तमान् ॥२.१२.१०॥
कृपयैवाचकर्षात्र साधनासिद्ध मन्दिरे ।
अष्टषष्ठ्याधिक द्दिषट्शतकाब्दात् प्रभृत्यसौ ॥२.१२.११॥
एकोनाशीत्यधिक द्विषट्शतकाब्दावधिं द्विजः
।
कालन्तु साधनायुक्तो गङ्गागर्भे समाधिमान् ॥२.१२.१२॥
साधनारम्भकालेतु रौप्यमुद्राश्च मृत्तिका ।
गृहीत्वा मृत्तिका यातु सैवमुद्रा न चापरा ॥२.१२.१३॥
स्वर्णं रौप्यादिका मुद्रा मृत्तिका न तथा
परा ।
पुनः पुनवेदन्नेव गङ्गागर्भे व्यसर्जयत् ॥२.१२.१४॥
इयं प्राथमिकी तस्य साधना सिद्ध योगिनः ।
धनरत्न परित्यागरूपा चित्तस्य शुद्धयेः ॥२.१२.१५॥
वस्तूपलब्धये किन्तु गङ्गागर्भेऽतिनिर्मले
।
प्रायोपवेशन' कत्वा नित्यानित्य विचारणम् ॥२.१२.१६॥
कृतस्तेन श्रीभैरव्या तथान्यन्यासिभिः सह ।
तथा साधन सम्पत्त्या नारीमात्रे स्वमातृवत् ॥२.१२.१७॥
धारणा सुदृढ़ा जाता योगिनो योगसिद्धये ।
सिद्धिलाभात् परं साधुः कदापि कामपि ध्रुवम् ॥२.१२.१८॥
कामिनीं काञ्चनं वापि भोगबुद्ध्या
दृष्टवान् ।
कामिनी काञ्चन त्यागरूपा साधनतः परम् ॥२.१२.१९॥
दीनता निरहङ्कार साधना पूर्णतां गता ।
यत्रापवित्र्यबाहुल्य स्थाने साधारणो जनः ॥२.१२.२०॥
पदार्पणे सङ्कुचितो न याति तत्र कहिचित् ।
ठाकुरस्तु तदस्पृश्य स्थान मार्ज्जितवान् स्वयं ॥२.१२.२१॥
आचण्डालोच्छिष्ट पत्रं विधृत्य मस्तके तथा
।
गङ्गागर्भे विनिःक्षिप्य जात्यभिमानं चूर्णताम् ॥२.१२.२२॥
कृत्वा स्वयमस्पृश्य जातेर्नाधिकं मन्यते
सुधीः ।
अतःपरं सर्वजीवे शिवज्ञानस्य साधना ॥२.१२.२३॥
वीरस्यास्य साधकस्य सर्वथाभिनवामता ।
भिक्षुकोच्छिष्टकाहारं कृत्त्वादरपुरःसरम् ॥२.१२.२४॥
मत्वा महाप्रसादांस्तान् मूर्ध्नि
धृत्वाननर्त ह ।
आदौ साधनाकाले च चतुर्वर्षान्तरे सुधी ॥२.१२.२५॥
वैष्णव मतमाश्रित्य दास्य सख्यादि भावतः ।
तत्तत् साधन योगेन सिद्धिलाभं चकार सः ॥२.१२.२६॥
श्रीकृष्णस्य समप्राणा ये स्युः
श्रोव्रजवालकाः ।
चिन्ता तत्तुल्य सख्यस्य ठाकुरस्य तदा भवत् ॥२.१२.२७॥
तथा श्रीरामचन्द्रस्य दास्य भक्ति
प्रवर्त्तकः ।
महावीर रामदासतुल्योऽभूद्भक्त ठाकुरः ॥२.१२.२८॥
तन्त्रोक्त साधनायां हि सिद्धिलाभात् परं
तथा ।
सख्यरूपा ठाकुरस्य प्रकृतेः साधना च सा ॥२.१२.२९॥
सर्वथा पूर्वरूपा सा लोकोत्तर चमत्कृतिः ।
तदासौ स्वं जगन्मातुः सखीरूपां विभाव्य च ॥२.१२.३०॥
प्रायश्चामरहस्तेन कालिकां समवीजयत् ।
कदापि वा भूषणादेर्वस्त्रादेरपि वा तथा ॥२.१२.३१॥
परिधेयं कृतं तेन रमण्या इव सर्वदा ।
देवीमेवाचिन्तयत् स्वं स्त्रीमूर्त्या वान्यया समम् ॥२.१२.३२॥
तद्भक्तो मथुरानाथष्ठाकुरस्याभिलाषतः ।
प्रकृतेः साधने यद्द्रव्यमावश्यकं भवेत् ॥२.१२.३३॥
तत्तद्द्रव्यञ्च वेशार्थे दत्वा
धन्योऽभवत्तदा ।
एवं प्रकृतिभावस्य प्रावल्याद्धि तदन्तरे ॥२.१२.३४॥
स्वस्यपुन्भावरूपस्य सर्वथा विस्मृतिर्वभौ
।
तदा श्रीरामकृष्णस्य सान्निध्यात् सर्वतो दिशि ॥२.१२.३५॥
सुतीर्थ इव सुख्यातिर्जातास्य देवसद्मनः ।
तीर्थपर्यटने लग्नैः परिव्राजक सत्तमैः ॥२.१२.३६॥
यात्राध्वनि तदानीन्तैर्यदा दृष्टो
बृहन्मठः ।
प्रविश्य ते पान्थगेहे साधूनामतिशोभनाम् ॥२.१२.३७॥
सुव्यवस्थां समालोक्य सानन्दास्तत्र
तेऽवसन् ।
दिनानि कतिचित्तत्रस्थातुमाग्रहशालिनः ॥२.१२.३८॥
आतिथ्य कृत्य प्राचुर्यात् साधवः सुख
संस्थिताः ।
मधुरः साधुसेवायां सर्वदा मुक्तहस्तकः ॥२.१२.३९॥
नित्यञ्चातिथि सेवार्थं
द्रव्यजातानरक्षयत् ।
एवं श्रीमथुरानाथस्तातस्य तुष्टिसाधने ॥२.१२.४०॥
घुर्णतायां तदिच्छायाः सर्वदायं सुचेतनः ।
तदादेशं प्रतीक्ष्यैव तन्मुखं वीक्ष्य भक्तितः ॥२.१२.४१॥
चिन्तायुतः श्री मथुरः किमादिष्टो
भवाम्यहं ।
यद्यसौ गृह्णीयान्मत्तो धनरत्नादि वैभवान् ॥२.१२.४२॥
तदाहं जन्म साफल्यं प्राप्स्यामि
जन्मखण्डनम् ।
नेदृक् चिन्ता मया कार्या भ्रमाद्वापि कथञ्चन ॥२.१२.४३॥
स्वर्णरौप्यादि मुद्रां यो मृद्रपां
गणयेत् सुधीः ।
तस्य प्रार्थनीयं द्रव्यं न किञ्चिदपि सम्भवेत् ॥२.१२.४४॥
तथापि मथुरानाथे दानार्थमाग्रहान्विते ।
उक्तं श्रीरामकृष्णेन न मे किञ्चित् प्रयोजनम् ॥२.१२.४५॥
कमण्डलून् कम्बलान् वा
पट्टवस्त्रादिकांस्तथा ।
देयांश्चेन्मन्यते तर्हि साधुभ्यः सर्वमर्प्यताम् ॥२.१२.४६॥
श्रुत्वैवं मथुरस्तत्र वहुलं कम्बलादिकम् ।
तत्तद्द्रव्यं समानीय भाण्डागाराण्यपूरयत् ॥२.१२.४७॥
एवमादिष्टवांश्चैव तत्रस्थान् कर्मचारिणः ।
भवन्तो वितरिष्यन्ति तातादेशानुसारतः ॥२.१२.४८॥
पङ्ग्वन्धवधिरान् वापि साधून् वा
सज्जनांस्तथा ।
यान्कानपि वदेद्दवो देयं तेभ्योऽतियत्नतः ॥२.१२.४९॥
यदेदृग्भजने लिप्तो रामकृष्णः स्वयं हरिः ।
तदैव मन्दिरे तत्र सिद्ध साधक सत्तमः ॥२.१२.५०॥
आविर्भूतो जटाधारी रामलाला सुसेवकः ।
वात्सल्य भावपूर्णोऽयं सुन्दरो रामविग्रहः ॥२.१२.५१॥
यत् प्रसादाट्ठाकुरस्य वात्सल्यभाव साधना ।
अत्याश्चर्य साघनेयं जीवता विग्रहेन वै ॥२.१२.५२॥
श्रीरामस्य धातुमयः शोभनो वालविग्रहः ।
सिद्धसाधोः समीपेऽसौ विद्यतेऽहर्निशं मुदा ॥२.१२.५३॥
साधोः श्रीविग्रह सेवा विग्रहाचरणं तथा ।
सर्वथा पूर्वरूपेयं परं विस्मयहेतुका ॥२.१२.५४॥
सपुत्रं विग्रहं मत्वा स्वहस्तेन
त्वभोजयत् ।
स्नेहाधीनं स्वसन्तानं मत्वा वा भूषयत् क्वचित् ॥२.१२.५५॥
कदापि तच्चञ्चलतां दृष्ट्वा
तमत्यभर्त्सयत् ।
साधोरेवं साधनन्तदृष्ट्वा श्रोहृदयः सुधीः ॥२.१२.५६॥
वाक्यहीन मुखश्चैवं सातङ्कं समाचिन्तयत् ।
एकतो मातुलस्यास्य नानाभावेन सर्वदा ॥२.१२.५७॥
व्याकुलीकृतवन्तं मामधीरं कुरुते तथा ।
कोऽन्यः पुनः समुन्मत्तो मन्दिरेऽसावुपस्थितः ॥२.१२.५८॥
एवमद्भूत भावस्य तरङ्गे नाभिघातितः ।
हृदयः साधुकृत्यन्तदवलोक्याति विस्मितिः ॥२.१२.५९॥
नास्ति साधोर्विग्रहस्य स्नान पूजादिकाः
क्रियाः ।
तपो नास्ति जपो नास्ति साधनं भजनं तथा ॥२.१२.६०॥
तद्विग्रहमहोरात्रं विधृत्य हृदि भक्तितः ।
साधुस्तन्मयतां प्राप्य समाहूय सुविग्रह ॥२.१२.६१॥
आगच्छ रे रामलाला क्व गतश्चञ्चलः सूतः ।
एवन्तद्भाषणं श्रुत्वा रामलालातिशङ्कितः ॥२.१२.६२॥
तत्क्षणात्तत्समीपे स पुत्रवत् समुपस्थितः
।
साधुदत्तं भोज्यद्रव्यं भुक्तवान् विग्रहः स्वयं ॥२.१२.६३॥
कदा वा विग्रहः खाद्यद्रव्यं दृष्ट्वा
जगाद तं ।
नाहं भोक्ष्ये द्रव्यमिदममिष्टं क्षीरिकाफलम् ॥२.१२.६४॥
शुत्वा तद्विग्रह वचो नानारूपेण तं तदा ।
मिष्टवाक्येन सन्तोष्य भुङ्क्ष भुङ्क्षाधुनात्विदम् ॥२.१२.६५॥
मा क्रोधं कुरु पुत्र त्वं अद्येय भुङ्क्ष
सादरं ।
आगामि दिवसे वत्स दास्यामि क्षीर लड्डुकम् ॥२.१२.६६॥
कदाप्युक्तो रामलाला विग्रहः प्राणसस्मितः
।
मा गच्छ गच्छ पुत्र त्वं कण्टकारण्य मध्यतः ॥२.१२.६७॥
द्रुतः कुत्र गच्छसि त्वं विद्धाङ्गं
कण्टकैर्भवेः ।
प्रत्यागच्छात्र भी शीघ्रमसह्यस्ते त्वसन्निधिः ॥२.१२.६८॥
कदा वातिविरक्तेन साधुना बालविग्रहः ।
उक्तस्तवार्थमत्युग्र वह्रिदग्धो भवाम्यहं ॥२.१२.६९॥
तयैव धारणा ध्यान तपः पूजा जपादिकम् ।
कृत्यं सन्न्यासिनां यद् यक्षत् सर्वं नाशितं मम ॥२.१२.७०॥
सर्वस्वं संपरित्यज्य त्वा नीत्वाहं
बहिर्गतः ।
धनं धान्यं गृहं द्रव्यं यत्किञ्चित् पैत्र्ययवैभवम् ॥२.१२.७१॥
भिक्षा लभ्यान्धसा त्वां वै नित्यं
पुष्णामि यत्नतं ।
तथापि त्वन्मनः प्राप्तुं नार्हामि वै कथञ्चन ॥२.१२.७२॥
एवं श्रीठाकुरश्चापि रमणीरूपधृक् तदा ।
प्रकृतेः साधनायां स लिप्तोऽभूदु भगवान् स्वयंः ॥२.१२.७३॥
श्रीजटाधारिणः साधारपूर्व भाव साधना ।
सर्व भावमयस्यास्य श्रीरामकृष्ण योगिनः ॥२.१२.७४॥
हृदयं वात्सल्यरसैः परिपूर्णं चकार सा ।
एवं श्रीरामकृष्णस्तु श्रीरामलाला विग्रहं ॥२.१२.७५॥
प्राणवन्तं दिव्यमूर्तिं दिव्यभाव
समन्वितम् ।
दृष्ट्वा चाचरणं तस्यालौकिकं सर्वमेव तत् ॥२.१२.७६॥
कदा वा पुष्पमानेतुं कण्टकारण्य धावनं ।
बह्वशिष्टमाचरति भोजनावसरेऽपि च ॥२.१२.७७॥
नानाभावेन त्वं साधुमुद्वेजयति विग्रहः ।
वभूव विस्मितो देवो दृष्ट्वास्य प्रेमकर्षणम् ॥२.१२.७८॥
शिशुपुत्रस्याचरणं दृष्ट्वा मातुर्यथा
भवेत् ।
अपूर्वं प्रीत्यनुभवो रामकृष्णस्य चाभवत् ॥२.१२.७९॥
व्यापारेऽस्मिंष्ठाकुरस्य श्रीजठाधारिणा
सह ।
प्रोत्याधिक्यं महज्जातं येन तत् सन्निधौ सदा ॥२.१२.८०॥
उपविश्य विग्रहस्य तां तां लीलां ददर्श सः
।
तथा तन्मयतां यातावतिमात्रमुभौ सदा ॥२.१२.८१॥
नानुभूतौ तदा तौ तु ब्रह्मभाव परिप्लुतौ ।
गतोऽयं दिवसः किम्वा गता वा यामिनी कदा ॥२.१२.८२॥
चिदानन्दः शिशुरयं वात्सल्य भावविग्रहः ।
सर्वदा रामकृष्णस्य सन्निधिं समपेक्षते ॥२.१२.८३॥
ठाकुरोऽस्मिन्नवसरे श्रीजटाधारिणो गुरोः ।
दीक्षां गृहीत्वा वात्सल्यभाव साधनसंरतः ॥२.१२.८४॥
अतःपरं ठाकुरेणानुभूतमिदमेव तत् ।
क्षणार्द्धं रामकृष्णन्तु त्यक्तं नेच्छति विग्रहः ॥२.१२.८५॥
सर्वदा रामकृष्णस्य कण्ठलग्नो भवाम्यहं ।
श्रीजटाधारिणः पार्श्वे यावत्तिष्ठति ठाकुरः ॥२.१२.८६॥
तावत् कालः शान्तमूर्तिर्विविग्रह: किल
खेलति ।
यदा श्रीरामकृष्णस्तु गमनायोपचक्रमे ॥२.१२.८७॥
तदैव रामलालातु क्रीडां सन्त्यज्य ठाकुरम्
।
धावंस्तद्वस्त्र प्रान्तं सः समाकृष्य स्वहस्ततः ॥२.१२.८८॥
निवारयामास तस्य गमनमन्यतो दिशि ।
एवं श्रीरामलालाया वश्यतां ठाकुरस्य ताम् ॥२.१२.८९॥
दृष्ट्वाश्रुपूर्ण चक्षुर्भ्यां साधुः
स्वसिति दारुणम् ।
एवं श्रीरामकृष्णस्तूभय सङ्कट मध्यगः ॥२.१२.९०॥
चिन्तयन् येन स तस्य सर्ववस्तु विरागिनः ।
सर्वस्वं साधनधनमेकमेवावलम्बनम् ॥२.१२.९१॥
वलात् प्रसह्य तं देवं नेतुमिच्छति ठाकुरः
।
अपूर्व सिद्धपीठेऽस्मिन् प्राचीन नवीनद्वयं ॥२.१२.९२॥
भक्तं गृहीत्वा वात्सल्यभावस्याधार रूपकः ।
रामलाला व्यधात् क्रीडां तत्र प्रायेण वत्सरं ॥२.१२.९३॥
दृष्ट्वा लीलां जटाधारी किं करोमीति
चिन्तितः ।
रामलालां रामकृष्ण सकाशान्न कदाचन ॥२.१२.९४॥
नेतुं शक्तो भविष्यामि तत् प्रेमाधिक्य
हेतुतः ।
इत्येवं महती चिन्ता सदा मे हृदि वर्त्तते ॥२.१२.९५॥
रामलालां विनान्यत्र गमनं मरणं मम ।
विचिन्त्यैवं जटाधारी कदाचित्तं सुविग्रहम् ॥२.१२.९६॥
हस्ते कृत्वा रामकृष्ण सम्मुखे समुपस्थितः
।
श्रीरामकृष्णहस्ते स समर्प्य बालविग्रहम् ॥२.१२.९७॥
गद्गदेन स्वरेणैव योगी योगीशमभ्यधात् ।
तव सङ्गं परित्यक्तुं रामलाला हि नेच्छति ॥२.१२.९८॥
अत्रैवास्य स्थातुमिच्छा नान्यत्र गमने
स्पृहा ।
चिराराध्य नित्यशुद्ध सच्चिदानन्द विग्रह ॥२.१२.९९॥
प्रदर्श्य कृपया मह्यं स्वरूपं साधुवत्सलः
।
उवाचाहं सुखी स्यां वै स्थास्यामि चेत्तदन्तिके ॥२.१२.१००॥
कृतकृत्यो भवाम्यद्य तेनाहं त्वत् समीपगः ।
अस्यानन्दो ममानन्दः प्रागहं नाव बुद्धवान् ॥२.१२.१०१॥
जानेऽधुना त्वत् कृपया प्रमाधारस्य
वस्तुनः ।
आराध्य विग्रहस्यास्य सुखमेव सुखं मम ॥२.१२.१०२॥
अतोऽहं मम सर्वस्वं समर्प्य भवतः करे ।
अद्यान्यत्र गमिष्यामि तद् भवाननुमोदताम् ॥२.१२.१०३॥
गृहाणेमं ममाराध्यं वात्सल्याधाररूपकं ।
जीवन्तं विग्रहं तात वक्तुं द्रष्टुं न शक्यते ॥२.१२.१०४॥
वाष्पैः कण्ठोऽतिरुद्धो में
चक्षुरश्रुभिराप्लुतम् ।
प्राणाराम रामराम रामलाला गतिर्मम ॥२.१२.१०५॥
गतोऽन्यत्र जटाधारी मुक्तकण्ठं रुदन्
मुहुः ।
भगवान् रामकृष्णस्तु ततस्तं विष्णुमन्दिरे ॥२.१२.१०६॥
विग्रहं वै सुखं स्थाप्य
ब्रह्मानन्दमवाप्तवान् ।
विग्रहोऽपि सुखं प्राप्य स्वस्यैवापररूपकम् ॥२.१२.१०७॥
पावनं कलियुगस्य भुक्तिमुक्ति प्रदायकं ।
श्रीरामकृष्णदेवन्तं परमानन्दमाप सः ॥२.१२.१०८॥
तादृङ् महाप्रेमिकस्य दक्षिणेश्वर मन्दिरे
।
कदापि किं पुनस्तस्य चाविर्भावो भविष्यति ॥२.१२.१०९॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां श्रीरामलाला विग्रहसेवी जटाधारी सन्न्यासी समागमरूपी मध्यलीलाया द्वादशोऽध्यायः ॥१२॥