मध्यलीला

तोतापुरी सन्न्यासि समागमः

मध्यलीलायां त्रयोदशोऽध्यायः


गते साधौ ततस्तत्र वारामकृष्ण योगिनः ।
तोतापुरी साधुसङ्गाद्वैत ब्रह्म साधना ॥२.१३.१॥

श्रीरामकृष्णदेवस्य प्रसादाद्गुरुरूपिनः ।
वेदान्तवादिनश्चाभूदुत्तमं दिव्यदर्शनम् ॥२.१३.२॥

वात्सल्य साधनासिद्धि लाभं कृत्वापि ठाकुरः ।
साधनायाः पिपासान्तु नैव योगीश्वरो जहौ ॥२.१३.३॥

तदा तन्मनसोऽभीप्सा भक्तेभ्यः प्रकटीकृता ।
साधनानि विचित्रानि विहितानि सुसाधकैः ॥२.१३.४॥

सर्वसाधन सिद्धाय नैकोऽपि यतते क्वचित् ।
रत्नाकरस्यान्तरस्य नानारत्नानि सर्वदा ॥२.१३.५॥

विद्यन्तेऽत्र न सन्देहो यन्त्रविद्भिः सुवीक्षितम् ।
समुद्रतीरवास्तव्या यन्त्रोद्धृत बहून्यपि ॥२.१३.६॥

वितृप्यन्ति न रत्नानि पश्यन्तोऽपि मुहुर्जनाः ।
व्यग्रा भवन्ति सततं नवदर्शन हेतवे ॥२.१३.७॥

तथाहमपि वै तत्तत् साधनेषु बहुष्वपि ।
सर्वदा सिद्धिलाभाय यतिष्ये नात्र संशयः ॥२.१३.८॥

अत्रान्तरे जगन्मातुर्भूय एवानुकम्पया ।
निर्विशेष परब्रह्माद्वैत साधन सिद्धिमान् ॥२.१३.९॥

श्रीपरिब्राजकाचार्यस्तोतापुरीति नामतः ।
श्रीरामकृष्णदेवस्य ब्रह्मज्ञानार्थमेव सः ॥२.१३.१०॥

आविर्भूतो महायोगी सन्न्यासी शाङ्करस्तदा ।
बहुकालं पुन्यतोय श्रीनर्मदा नदीतटे ॥२.१३.११॥

जनशून्योटजावास उषित्वार्द्धशतं समाः ।
लिप्तः साधनसम्पत्तौ निर्विकल्प समाधिना ॥२.१३.१२॥

कृतोऽनेन ब्रह्मसाक्षात्कारो योगी सुदुर्लभः ।
तस्तोतानन्दमना बमूव योगसिद्धितः ॥२.१३.१३॥

एवं तोतापुरीसाधो ब्रह्मज्ञस्य मनस्यभूत् ।
नानादेश पर्यटने सङ्कल्पः सुमहत्तरः ॥२.१३.१४॥

ततः स्वाश्रमतः साधुर्वहिर्यातो ययाविधि ।
उत्तरायण संक्रान्त्या गङ्गासागर सङ्गमे ॥२.१३.१५॥

तीर्थे स्नात्वा तथा दृष्ट्वा तत्र तं कपिलं मुनिम् ।
दृष्ट्वा प्रभुं जगन्नाथमुत्कलेषु विराजितम् ॥२.१३.१६॥

मध्यभारतपर्यन्तं कृत्वा पर्यटनं सुधीः ।
वङ्गदेशं समासाद्य यत्र गङ्गा सरिद्वरा ॥२.१३.१७॥

तस्याः पूर्वतटे रम्या कलिकाता महापुरी ।
तव श्रीकालिकां दृष्ट्वा दक्षिणेश्वरमागतः ॥२.१३.१८॥

अस्येवातिथिशालायां प्रविश्यातिथ्यमाश्रितः ।
अत्र तोता रामकृष्णं दृष्टैव भाव विग्रहं ॥२.१३.१९॥

तेनाकष्टो भृशं योगी मनस्ये तदचिन्तयत् ।
अयमेव निर्वि कार पुरुषो भावयुग्ध्रुवम् ॥२.१३.२०॥

मन्येऽद्वैत ब्रह्म सिद्धि साधनस्याधिकारवान् ।
भवेदेव न सन्देहऽस्तूत्तमं ब्रह्मसाधनम् ॥२.१३.२१॥

सामन्यालाप मात्रेणालौकिक शक्तिसाधक ।
वुबोध तं तपोदीप्त भावोज्वल मुखं द्विजम् ॥२.१३.२२॥

दृष्टान्तर्वेधकारिण्या वीक्ष्य तोता ब्रवीद्वचः ।
वेदान्त साधनाकांक्षा विद्यते किं भवद्धृदि ॥२.१३.२३॥

दीर्घाकृते जटाजूटधारिणो दीप्त चक्षुषः ।
सन्न्यासिनस्तेजोमय नग्नदेहस्य योगिनः ॥२.२३.२४॥

श्रुत्वा वाचं तदा रामकृष्ण नोक्तमिदं वचः ।
किं कर्तव्यमकर्तव्यं नाहं वेद्मि कथञ्चन ॥२.२३.२५॥

वेत्ति सर्वं जगन्माता वदेच्चेत्तत्करोम्यहं ।
श्रुत्वाऽवदत्ततस्तोता गच्छ पृच्छ स्वमातरम् ॥२.२३.२६॥

श्रुत्वेवं श्रीरामकृणो भावगद्गद चेतसा ।
जगदम्बा मन्दिरे संप्रविश्य सुमहामतिः ॥२.२३.२७॥

भावाविष्टो माटवाक्यं सुश्राव तत्क्षणादहो ।
त्वदर्थमेव सन्न्यासो दक्षिणेश्वरमागतः ॥२.२३.२८॥

कुरु शिक्षामसङ्कोचं समीपे तस्य योगिनः ।
ब्रह्मरूपां मत्तनुभां तुभ्यं दास्यति निश्चितम् ॥२.२३.२९॥

इत्येवं मातुराज्ञां स प्राप्य तत्क्षणतः सुधीः ।
प्रायेण लुप्तसंज्ञः स कम्पन्वित कलेवर: ॥२.२३.३०॥

ततस्तोतापुरी साधोः समीपं पुनराप्तवान् ।
भावाविष्टः प्रत्युवाच देवस्तं गुरुरुपिनम् ॥२.१३.३१॥

भवतः कृपयाऽद्याहं मात्रादिष्टोऽभवं प्रभोः ।
शिष्य भावातिशय्यन्तद्दष्ट्वा तोता चमत्कृतः ॥२.१३.३२॥

अधुनाद्भूत शिष्योऽयं देवी मूर्तिं मठस्थिताम् ।
मातृ सम्बोधनं कृत्वा करोत्वभिनयन्त्विमम् ॥२.१३.३३॥

एवं तोतापुरी ज्ञात्वा रामकृष्णं पुनः पुनः ।
सदयमवलोक्यैवावज्ञायुक्त मुखस्तदा ॥२.१३.३४॥

हास्येन स्फुरितश्चाभूदद्वैत ज्ञान हेतुतः ।
अज्ञानवन्धनान्मुक्ति लाभार्थं साधकस्य च ॥२.१३.३५॥

नास्त्यन्यः पुरुषाकारादुपायः शास्त्र सम्मतः ।
ईश्वरस्याथवा शक्तिसंयुक्त ब्रह्मणोऽपि वा ॥२.१३.३६॥

कृपया वानुकूल्येन न कोऽपि फलभाग भवेत् ।
परन्तु भ्रान्त संस्काराद् ये चैवं भावमाश्रिता: ॥२.१३.३७॥

कृपा कुरु भो भगवन् वदन्तः केवलं सदा ।
तेऽत्यन्त दुर्बला ज्ञेयाः शास्त्रार्थं न विदन्ति हि ॥२.१३.३८॥

अतोऽस्य रामकृष्णस्य देवो निष्ठा दृढस्य च ।
अवज्ञा तस्य साधोर्हि स्वाभाविकी सुनिश्चिता ॥२.१३.३९॥

तथाप्यसौ तदा तोता मनस्ये तदचिन्तयत् ।
निम्नाधिकारिणोऽप्यस्य यदा दीक्ष्या भविष्यति ॥२.१३.४०॥

मत्तस्तदा देवीभावः समूलं हि विनश्यति ।
ज्ञानशक्ति प्रभावेन नाम शक्तेर्विलीनताम् ॥२.१३.४१॥

यास्यत्यस्य न सन्देहो ब्रह्म मार्गावलम्विनः ।
ततः पञ्चवटौ मध्ये ब्रह्मस्थापन पूर्वकम् ॥२.१३.४२॥

कृत्वा योगासनं तोता तत्रस्थानमकल्पयत् ।
ततः प्राचीन ब्रह्मज्ञ गुरोरादेशतस्तदा ॥२.१३.४३॥

रामकृष्णः स्व पितृणां कृत्वा वै सलिल क्रियाम् ।
पिण्डान् निर्वापयामास स्वपिण्डमपि दत्तवान् ॥२.१३.४४॥

सन्न्यासदीक्षा समये स्वर्लोक गति कामनाम् ।
वर्णाश्रमाधिकार व निःशेषं परिवर्जयेत् ॥२.१३.४५॥

तथा शास्त्रविधानाद्धि मन्त्र ग्रहणपूर्वतः ।
साधकः स्व प्रेतपिण्डं स्वहस्तेन प्रयच्छति ॥२.१३.४६॥

एवं स्व पूर्वकृत्ये च सुसमाप्ते परेऽहनि ।
शुभ्र ब्राह्ममुहुर्ते श्रीरामकृष्णस्य धीमतः ॥२.१३.४७॥

साधनायतने पञ्चवट्या होमाग्निरुत्थितः ।
एवं स्व सर्वस्व त्याग ब्रह्म मन्त्र ग्रहे तदा ॥२.१३.४८॥

स्वाहा स्वधा वषट्कार प्रणवोच्चारणादिना ।
पूतोदात्त सुगम्भीर ब्रह्म मन्त्रेण तद् गृहं ॥२.१३.४९॥

पूतञ्चाभूद्विशेषेण ब्रह्म मन्त्र प्रभावतः ।
होमधूम परिव्याप्तं वर्षास्विव नभो घनेः ॥२.१३.५०॥

विद्युद्युक्तेव संभाति तदा पञ्चवटी तथा ।
अपूर्वीऽयं ब्रह्मगुरुः शिष्यश्चापूर्वरूपधृक् ॥२.१३.५१॥

दीक्षा पूर्वापूर्वरूपं तयोः सम्मेलनं तथा ।
स्वयं सिद्धस्य शिष्यस्य हृत्पद्म द्वार सन्निधौ ॥२.१३.५२॥

दण्डायमानां तां वीक्ष्य चिन्मयीं भवसुन्दरीम् ।
अपसार्य ब्रह्ममयी मद्वैत ब्रह्म चिन्तने ॥२.१३.५३॥

शिष्य समाहितं कर्तुं प्रयासं प्राप्तवान् गुरुः ।
किन्त्वस्य मातृसर्वस्व शिष्यस्य द्वैतभावतः ॥२.१३.५४॥

संशयोऽस्य मनो मध्ये सुदृढश्चाभवत्तदा ।
दीक्षादानात्परं शिष्यं नेतुं ब्रह्मैक्य भावनाम् ॥२.१३.५५॥

नाना वेदान्त वाक्यानां सुपदेशं प्रदत्तवान् ।
एकमेवाद्वितीयं वै नेह नानास्ति किञ्चन ॥२.१३.५६॥

सर्वं खलु ब्रह्मवस्तु जगदेतच्चराचरम् ।
बहुना वा किमुक्तेन शृणु सत्यमिदं वचः ॥२.१३.५७॥

ब्रहम सत्यं जगन्मिथ्या जोबो ब्रह्मेव नापरः ।
सर्वती मन आकृष्य निर्विकल्प स्वरूपकम् ॥२.१३.५८॥

कृत्वात्मध्यान जलधौ निमग्नो भव सर्वदा ।
एवम् दिगम्बर गुरुर्मामुवाच पुनः पुनः ॥२.१३.५९॥

किन्तु मे मनसोऽवस्था सञ्जाते दृक् तदा ध्रुवम् ।
ध्यानार्थमुपविश्याहं बहु यत्ने कृतेऽपि च ॥२.१३.६०॥

कर्त्तुं मनो निर्विकारमथवा नामरूपयोः ।
व्यासङ्गं सम्परित्यक्तुं न शक्नोमि कथञ्चन ॥२.१३.६१॥

अज्ञानां विषयेभ्योऽहं कृत्वाप्युपरतिं तदा ।
नो समर्थः समानेतुं मनसो निर्विकल्पता ॥२.१३.६२॥

चिराराध्या मातृमूर्तिर्जीवन्तो सा प्रभास्वरा ।
समुद्भूता मनोमध्ये सर्वथा नामरूपयोः ॥२.१३.६३॥

त्यागवार्त्ता स्मृतिं माता विलोक्य मम चण्डिका ।
दण्डायमाना सा देवी ब्रह्मरूपा सनातनी ॥२.१३.६४॥

एवं ध्याननिमग्नस्य मम प्रत्यक्षतां गता ।
गुरोः सिद्दान्त वाक्यानि श्रुत्वाप्येवं पुनः पुनः ॥२.१३.६५॥

गतोऽप्यहं ध्याननिष्ठां समाधिं निर्विकल्पस्य ।
पुनः पुनः कृते यत्ने प्राप्तवान्न कथञ्चन ॥२.१३.६६॥

निर्विकल्प समाधी हि नैराश्यमगमं यदा ।
तदाहं चक्षुरुन्मील्य गुरु सन्न्यासिनं ततः ॥२.१३.६७॥

अवदं न समर्थोऽस्मि कदापि तव वाक्यतः ।
निर्विकल्पं मनः कृत्वा ब्रह्म ध्यानानुशीलने ॥२.१३.६८॥

चेष्टा मे विफला जाता भस्मन्याहुतयो यथा ।
एवं दिगम्बर गुरुः श्रुत्वैव मम भाषणम् ॥२.१३.६९॥

प्राप चञ्चलतां साधुर्वायोर्योगेन वृक्षवत् ।
किं करोमि कथं वास्य ब्रह्मैक्यं सम्भवेदिति ॥२.१३.७०॥

अत्यन्तमुत्तेजितभावयुक्तो तोव्रं तिरस्कारवचः समुच्चरन् ।
कथं भवेन्नेतिवदन् मुहुर्मुहुर्मध्ये कुटीरस्य चलन्नितस्ततः ॥२.१३.७१॥

भग्नैकखण्डं सुविलोक्यकाचं स्वयं समुत्तल्य तदा करेण ।
सूच्या यथा तीक्ष्ण तदग्रभागतः कृत्यातिविद्धं मम भालमध्ये ॥२.१३.७२॥

ततः स मां क्रोधयुतो महात्मा प्रोवाच चात्रप्रति बिद्ध विन्दौ ।
संयम्य सम्यग् विषयान्तरान्मनः स्थिरीकुरु त्वं निजवोध सिद्धये ॥२.१३.७३॥

एवं तदा तस्य गुरो: प्रसादाद्विद्धे ललाटेऽपि च मे महासुखम् ।
वमूव धैर्येन युतः पुनस्तदा ह्यहं दृढं स्वासनमास्थितो मुदा ॥२.३.७४॥

तद्विन्दु मध्ये द्विदले मनः स्थिरं कृत्वा निमग्नो गुरु मन्त्र चिन्तने ।
पुनः स्वमूर्त्तिं जगदम्बिकायाः स्वशुद्ध चित्तोपरि पूर्वरूपाम् ॥२.१३.७५॥

दृष्टैव तां ज्ञान महासिना तदा कृतं द्विखण्डं मम मातुरङ्गः ।
निर्वात निष्कम्प प्रदीपवन्मनो वभूव चात्यन्त सुनिल प्रभम् ॥२.१३.७६॥

विकल्प सङ्कल्प मनः स्वधर्मी दूरे गतन्तत् सकलं नामरूपम् ।
ब्रह्माण्ड सम्बन्धि कटाह भेदं कृत्वा परब्रह्मणि तत् परस्तात् ॥२.१३.७७॥

शान्ते शिवेऽद्वैत महासमुद्रे निमज्जनाच्छुद्ध चिदात्मरूपे ।
चित्तस्य वृत्तेः सुविलीन भावादवाप निर्लेप समाधिभावम् ॥२.१३.७८॥

तोतापुरी तं सुसमाध्यवस्थं निमीलिताक्षन्त्वचल प्रतिष्ठ ।
योगासने योगयुतं प्रशान्तं तरङ्गहीनाम्बुधि तुल्यरूपम् ॥२.१३.७९॥

दृष्ट्वा च कृत्वा सुपरीक्षणं मुदा रोमाञ्चयुक्तः खलु विस्मितोऽभवत् ।
एवं पुरो तत्र बहुक्षणं वसन् तस्यान्तिके तस्य समाधिभावम् ॥२.१३.८०॥

श्रीरामकृष्णं सुसमाध्यवस्थं ददर्श चैकाग्रमनाः स साधुः ।
ततः पुरी शिष्य समाधि चिन्तया गतः स्वयञ्चापि समाधिमग्नतां ॥२.१३.८१॥

भग्ने समाधौ घटिका चतुष्टयात् परं स्वशिष्यन्त्ववलोक्य पूर्व वत् ।
न चालिता तस्य शरीर यन्त्रिका तत् प्राणनाड्यां सकलं विलीनम् ॥२.१३.८२॥

ततः स्वदण्डोपरि देहभारं सन्न्यस्य साधुः सुखमुत्थितः सन् ।
निःशब्दभावेन कुटीर मध्यतो वहिर्गतः शिष्य समाधियोगतः ॥२.१३.८३॥

परन्तु चेत् कोऽपि कुटीर मध्ये प्रविश्य शिष्यस्य समाधिभङ्गम् ।
करोति शङ्कायुत साधुरित्थं कृत्वावरुद्धं तदालयम् ॥२.१३.८४॥

स्थाने कुटीरस्य समीपवर्त्तिनि स्वस्यासने पञ्चवटी सुसंङ्गके ।
तन्मुलदेशे सुखसुसिन्धुमग्न आस्ते कुटीरं सुविलोक्य योगी ॥२.१३.८५॥

द्वारस्य मुक्त सदनस्य तस्य शिष्यस्य चाञ्चल्यमपेक्षमानः ।
मध्यन्दिनाद्रात्रि समागमेऽपि न स्पन्दनं नापि समाधिभङ्गः ॥२.१३.८६॥

किन्त्वत्र सर्वक्षणमुन्मुखः स योगी चमत्कारयुतस्तदानीम् ।
दीक्षा द्वितीयेऽह्नि गतेऽपि तस्थौ न चञ्चलो धैर्य विशेष युक्तः ॥२.१३.८७॥

अलौकिकन्तं सुविलोक्य योगो समाधियुक्तं पुरुषं महान्तम् ।
गवाक्षरन्ध्रे कृतदृष्टिपातः सुविस्मतस्तत्र तृतीय घ ॥२.१३.८८॥

गतेऽपि नो तस्य शरीर विक्रिया नाभूत्तदा तस्य समाधिभङ्गः ।
अगाधगम्भीर समुद्रवत्तदा ददर्श देवन्त्वचलं स्वरूपम्॥२.१३.८९॥

तदा गुरोस्तस्य सुदीर्घं धैर्यम् साधोः सुभग्नं बहु विस्मयेन ।
ततः परित्यज्यं निजं हि पीठं तद्द्वारमुद्घाट्य कुटीर मध्ये ॥२.१३.९०॥

प्रविश्य शिष्यस्य ददर्शभावं स्थैर्यन्ततथाऽपूर्वमिवावभासम् ।
आश्चर्य शिष्यस्य समाधियोगं देहे तथा प्राणविकाशहानिम् ॥२.१३.९१॥

तथापि तस्याननमण्डलस्य प्रशान्त गम्भीर युतस्य भावम् ।
विलोक्य योगी स्वविचार योगात् पस्पर्श देवं शिवशान्तमूत्तिम् ॥२.१३.९२॥

एवञ्चानुमितस्तेन ब्रह्मज्ञ पुरुषेण हि ।
मदीयोऽयं महाशिष्योऽधुना बाह्यजगत्सु च ॥२.१३.९३॥

सम्पूर्णं मृतकल्पोऽस्ति निर्विकल्प समाधिना ।
चित्तं ब्रह्मणि लीनन्तु निष्कम्पेव प्रदीपिका ॥२.१३.९४॥

तोतापुरी समाधिज्ञः श्रीरामकृष्ण योगिणः ।
दृष्ट्वाभूतं निर्विकल्प समाधिं समचिन्तयत् ॥२.१३.९५॥

चत्वारिंशद्वर्षमित कठोर साधनाफलं ।
उपलब्धं मया यत्तत् किमनेनैक वासरे ॥२.१३.९६॥

वङ्गदेश भु वायुना स्वायत्तीकृतमेव हि ।
ततो यौगिकशक्त्या स ध्यान‌मग्नस्य योगिनः ॥२.१३.६७॥

समाधिं दवयित्वातिविस्मयानन्दसंप्लुतः ।
ततः सूच्चस्वरेणाथ शिष्यं प्रोवाच ब्रह्मवित् ॥२.१३.६८॥

सत्यं सत्यं पुनः सत्यं समाधी ब्रह्मदर्शनम् ।
ब्रह्म विचाराख्य शास्त्रवेदान्ते यो निरूपितः ॥२.१३.९९॥

एकेनाह्वा स समाधिस्तव सम्पूर्णतां गतः ।
कथमेवं न जानामि भो शिष्य ब्रूहि तद्धि मां ॥२.१३.१००॥

श्रुत्वैवं श्रीगुरोर्वाक्यं प्रतुप्रवाच तमोश्वरः ।
अस्ति पौराणिको वार्ता खट्टाङ्गोनृपतिर्वरः ॥२.१३.१०१॥

उपदेशाद्देवगुरों मुहुर्त समयेन हि ।
ममत्वं सम्परित्यज्य देहादौ विषयेषु च ॥२.१३.१०२॥

स्वस्यायुषः क्षणं ज्ञात्वा गतवानभयं हरिं ।
भरतस्याम्बरीषस्य गयस्य नहुषस्य च ॥२.१३.१०३॥

देवव्रतस्य राजर्षेर्विष्णुरातादिकस्य च ।
भक्त रामप्रसादस्य कृष्णराम नृपस्य च ॥२.१३.१०४॥

त्रैलङ्ग तुलसीदास स्वामिनोरपि वा तथा ।
सर्वेषां सिद्धिलाभोऽभून्निर्विकल्प समाधिना ॥२.१३.१०५॥

तथैव मामकं विद्धि निर्विकल्प समाधिजं ।
झटित्येवागतासिद्धि जगदम्बा प्रसादतः ॥२.१३.१०६॥

ब्रह्म विष्णु शिवादीनामाराध्या शक्तिरेव सा ।
नैवात्र विस्मयः कार्यो यतः सेव गुरोर्गुरुः ॥२.१३.१०७॥

इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहस्यां संहितायां श्रीरामकृष्णदेवस्य तोतापुरी नामक दिगम्बर सन्न्यासि सकाशाद्ब्रह्ममन्त्र ग्रहणात्परमेव त्रिदिनं यावत् निर्विकल्प समाधिस्थरूपो मध्यलीलायास्त्रयोदशमोऽध्यायः ॥१३॥