मध्यलीला

तोतापुरीं प्रति कालिकानुग्रहात् परं अन्यत्र गमनम्

मध्यलीलायाश्चतुर्दशोऽध्यायः


एवं श्रीरामकृष्णस्य शिष्यस्य मुखतस्तदा ।
श्रुत्वा तोता विमुग्धोऽभूत् प्रभावदर्शनेन च ॥२.१४.१॥

त्रिरात्रं कुत्रापि न स तिष्ठति स्मेति निश्चितं ।
क्रोधी कठोर सन्न्यासी निजाश्रम मठाद्वहिः ॥२.१४.२।
मुक्ताम्बरात् किञ्चिदन्यत् मस्तकाच्छादनं नहि ॥

किन्तु श्रीरामकृष्णस्य शिष्यस्याश्चर्य शक्तितः ॥२.१४.३॥

भूत्वात्यन्त समाकृष्टो दक्षिणेश्वरमन्दिरे ।
एकादशमासकालं एकादिक्रमतस्तथा ॥२.१४.४॥

भगवन्तं समासाद्य परमानन्द निर्वृतः ।
यापयामास हर्षेण शिष्येण सह सङ्गतः ॥२.१४.५॥

क्षणं शिष्यं परित्यज्यान्यत्र गन्तुं न शक्यते ।
मनोऽपि नेच्छति त्यक्तुं पादौ न चलितुं क्षमौ ॥२.१४.६॥

कृतवानतिधन्यन्तं स्वयं सफलतां गतः ।
किन्त्वलौकिक शिषेण ब्रह्मज्ञस्य यतेरपि ॥२.१४.७॥

वेदान्त साधनासिद्धावसमोर्द्ध गुरोस्तथा ।
श्लेषार्थद्योतकरुक्ष वाक्योच्चय उदीरितः ॥२.१४.८॥

तद्वचने गुरुः क्रुद्धः किन्तु विस्मयमास्थितः ।
शिष्य वाक्योपलब्ध्यर्थं प्रयासं प्राप्तवान् मुहुः ॥२.१४.९॥

तत् कथा खण्डने साधुर्वेदवेदान्तपारगः ।
असमर्थी ब्रह्मवादी मुह्यत्यत्र न संशयः ॥२.१४.१०॥

रामकृष्णस्य सिद्धान्त वचोभिर्न्यासिनो वलम् ।
सर्वं सञ्चूर्णतामेति केवलं शास्त्रचक्षुषः ॥२.१४.११॥

दृष्ट्वा साधोः सुकम्पोऽभूच्छिष्यस्य योगवैभवम् ।
आध्यात्मिक जीवनस्य ममाद्यपि प्रयोजनम् ॥२.१४.१२॥

अस्त्यसङ्ख्यशास्त्रवाक्य शिक्षाया बहुविस्तरम् ।
शिष्य स्थलाभिषिक्तोऽयं सर्वदर्शी विचक्षणः ॥२.१४.१३॥

आधारः सर्वशक्तीनां महीयान् महतोऽपि च ।
स्वासनोपरि संविश्य तोता नामा यथाविधि ॥२.१४.१४॥

प्रत्यहं ध्यानमग्नोऽभूतद्ब्रह्म चिन्ता पुरःसरम् ।
एकदा श्रीरामकृष्णो गुरु पप्रच्छ सादरम् ॥२.१४.१५॥

पुंसो ब्रह्मज्ञस्य तव नित्यध्यानमनर्थकम् ।
श्रुत्वेवोवाच श्रीरामकृष्णं तोता सुयुक्तिकम् ॥२.१४.१६॥

शुद्ध्यर्थं मनसो वत्स नित्य ध्यान प्रयोजनम् ।
परन्तु तेन मालिन्यं मनसः सुविनश्यति ॥२.१४.१७॥

यथेदं पित्तलं पात्रं प्रत्यहं मार्जितं यदि ।
मालिन्येन न लिप्येत शुद्धरूपेण तिष्ठति ॥२.१४.१८॥

श्रुत्वैव श्रीरामकृष्ण ईषद्धास्य पुरःसरम् ।
प्रोवाच यदि तत् पात्रं जाम्बुनदमयं भवेत् ॥२.१४.१९॥

तत्र नित्य शुद्धरूपे मालिन्यं सम्भवेत् कुतः ।
सर्वदा शुद्धरूपन्तन्मालिन्येन न युज्यते ॥२.१४.२०॥

तोता श्रोरामकृष्णस्य श्रुत्वा प्रत्युत्तरं वचः ।
क्षणं वाक्शून्यतामाप सत्यन्तदिति निश्चितम् ॥२.१४.२१॥

पुनरन्यदिने ब्रह्म विचार समये तयोः ।
प्रज्वलित होमवह्णेर्ज्वलन्तं काष्ठखण्डकम् ॥२.१४.२२॥

देवालयस्य सहसा भृत्यो जग्राह तं यदा ।
तदा तत्साहसं दृष्ट्वा तोता वह्णिरिव ज्वालन् ॥२.१४.२३॥

सक्रोधं प्राह तं भृत्यं कथं त्वमग्निमग्रहीः ।
यत्र पवित्राग्नि मध्ये सर्वे देवाः सवासवाः ॥२.१४.२४॥

संप्रास्याज्याहुतिं ते वै तृप्यन्ति नात्र संशयः ।
तदग्निनातिनीचस्य भवेत्तामाकुसेवनम् ॥२.१४.२५॥

इत्युक्त्वा निजपार्श्वस्थं त्रिशूलं दीप्ततेजसम् ।
धृत्वोत्थितः क्रोधयुतो भृत्यमाक्रम्य तिष्ठति ॥२.१४.२६॥

दृष्ट्वा श्रीरामकृष्णस्तु गुरुो क्रोधं भयावहम् ।
स्वाभाविक स्वरेणै ण बावदत्तं न्यासिनं गुरुम् ॥२.१४.२७॥

धिक त्वां लङ्घितमर्यदं ब्रह्मज्ञं गुरुरूपिणम् ।
येन त्वयाधूनैवेदमुक्तं ब्रह्ममयं जगत् ॥२.१४.२८॥

ब्रह्मेति खल्विदं सर्व्वं स आत्मा सत्यमप्यदः ।
एवं श्रुत्यनुकूलस्य साधनस्येदृशं फलं ॥२.१४.२९॥

श्रुत्वैवं भाषणं तोता शूलं त्यक्त्वातिलज्जितः ।
स्तब्धोभूतोऽभवद् योगी पुनस्तत्रासनोपरि ॥२.१४.३०॥

क्षुब्धरूपेणोपविश्य शिष्यमाहुय यत्नतः ।
प्रोवाच भो रामकृष्ण यदुक्तं मम मङ्गलं ॥२.१४.३१॥

तदतीवोत्तमं वाक्यं क्रोधशान्तिकरं त्वया ।
क्रोधोऽयं मे महाशत्रुः सदसद् वुद्धिनाशकः ॥२.१४.३२॥

अद्यैवाहं सन्त्यजामि पापक्रोधं सुनिश्चितम् ।
येन मे योगयुक्तस्य स्खलनं भवति ध्रुवम् ॥२.१४.३३॥

अग्नेस्तद्दाहाहिकाशक्तेरभेदः शास्त्रसम्मतः ।
ब्राह्मणो ब्रह्मशक्तेश्व प्राहाभेदं श्रुतिस्तथा ॥२.१४.३४॥

आजन्म पुरुषाकारालम्बो तोता न तु क्वचित् ।
शक्ति शक्तिमतीरेवमभेदं स्वीकरत्यसौ ॥२.१४.३५॥

ब्रह्मनिर्द्धर्मकं वस्तु तोता वदति सन्ततम् ।
श्रीरामकृष्णो वदति पूर्णब्रह्म सशक्तिकम् ॥२.१४.३६॥

एवं ब्रह्म विचारे तु गुरोः शिष्यस्य च द्वयोः ।
सङ्घर्षः सुमहान् जातो ब्रह्म सिद्धान्ततस्तयोः ॥२.१४.३७॥

एकदा श्रीरामकृष्णो निर्गुणब्रह्मसाधकम् ।
प्रोवाच शृणु मे योगिन् यन्मयात्र विचारितम् ॥२.१४.३८॥

केवलं युक्तिमाश्रित्य जगतः कारणं परम् ।
भगवन्तमनादृत्य नेति नेति ब्रुवन् जनः ॥२.१४.३९॥

सर्व शून्यं जगत् पश्यन् शून्य एव विलीयते ।
किन्तु यो जगतः स्वामी माता धाता प्रियः सुहृत् ॥२.१४.४०॥

तत्तद्भाव साधनेन सर्वत्र साधकोत्तमः ।
प्राप्नुवन्ति परात्मानं सर्वानन्दप्रदं प्रभुम् ॥२.१४.४१॥

श्रुतिध्येयं घनानन्दं सच्चिदानन्दं विग्रहं ।
एकमेवाद्वितीयं तं कैवल्येक प्रयोजकम् ॥२.१४.४२॥

ज्ञानिनो यं न विन्दन्ति केवलं ज्ञान चक्षुषा ।
विन्दन्ति सततं ते हि ये हि तच्चरणं गताः ॥२.१४.४३॥

तोताः श्रीरामकृष्णस्य वाक्यं सर्वाङ्गसुन्दरम् ।
श्रुत्वाप्याह विकृतस्य प्रलापोऽयं सुनिश्चितः ॥२.१४.४४॥

श्रुत्वैवं रामकृष्णस्तु प्रोवाच तं गुरुं पुनः ।
ज्ञास्यसि त्वं तदा साधो यदा मातुः कृपा भवेत् ॥२.१४.४५॥

तत्प्रसादं विना कोऽपि ब्रह्मरूपां सनातनीम् ।
न वेत्ति ज्ञानं वैराग्ययुक्तेन मनसा क्वचित् ॥२.१४.४६॥

एतस्मिन्नन्तरे साधू रक्तातिसार पीडया ।
कठोर यन्त्रणायुक्तो वभूव पीडितो भृशं ॥२.१४.४७॥

सोदरस्य महानाड्याः कर्त्तनादिव भीषणा ।
जातासह्य यातनाहि ध्यानं ज्ञानं विलोपिका ॥२.१४.४८॥

अभूदत्यन्तरूपेण हाहतोऽस्मि वदन् मुहुः ।
एवं चित्तस्य वैकल्यं ब्रह्मनिष्ठस्य योगिनः ॥२.१४.४९॥

किंकर्त्तव्य विमूढस्य देहानस्तित्व वादिनः ।
जगज्जीवादिकं वस्तुसर्वं मिथ्येति तन्मतम् ॥२.१४.५०॥

किन्तु देहस्य पीडायाः कथमस्वीकृतिर्भवेत् ।
वेदान्तवादी सन्न्यासी निशीथ समये स्वयम् ॥२.१४.५१॥

रोगचिन्ता व्याकुलितो मनस्येतदचिन्तयत् ।
पञ्चभूतोत्थ देहोऽयं यन्त्रणाधाररूपकः ॥२.१४.५२॥

को विद्वानात्मसात् कृत्वा देहं पुष्णाति यत्नतः ।
रात्र्यामस्यामिमं देहं गङ्गागर्भे सुनिश्चितम् ॥२.१४.५३॥

विसृज्याखिल दुःखानामवसानं करोम्यहम् ।
सङ्कल्पमात्रं तत् कर्म कर्त्तुं तोता व्यवस्थितः ॥२.१४.५४॥

स्वमनो ब्रह्म चिन्तायां पूर्वाभ्यास बलेन हि ।
नियुज्य धीरभावेन गङ्गायामवतीर्य च ॥२.१४.५५॥

जानुदघ्नं जलं वीक्ष्य क्रमशोऽग्रे सरत्यसौ ।
किन्त्वत्र महदाश्चार्यं बहु दूरगतोऽपि सः ॥२.१४.५६॥

कुत्रापि न जलं प्राप जानोरुपरि सङ्गतम् ।
प्रायेण क्रमशः साधुः परपारस्य सन्निधिम् ॥२.१४.५७॥

प्राप्तो निशान्धकारेण दूरस्थान् गृहपादपान् ।
तथा तत्रस्थ द्रव्यानिच्छायामिव स दृष्टवान् ॥२.१४.५८॥

विस्मय स्तब्धभावेन तदा तोता परिप्लुतः ।
प्रायेण घटिकां यावत् तत्र स्थित्वाप्यचिन्तयत् ॥२.१४.५९॥

मायाकेयं कुतो वेयमायाता विश्वमोहिनी ।
आसुरी वाऽथ देवी वाथवा काली परीक्षणम् ॥२.१४.६०॥

शिष्य माता जगद्धात्री त्रैलोक्य जननी शिवा ।
अनुकम्पा बलाद्यस्या मृत्युर्मां न ग्रसिष्यति ॥२.१४.६१॥

कलेवरं तुच्छमिदं न निमज्जयितुं क्षमः ।
भागीरथ्या जलं नास्ति जानुमानाधिकं किल ॥२.१४.६२॥

अतो हीश्वरलीलेयं दुर्विभाव्या शरीरिणाम् ।
नोचेद्भागीरथी गर्भे वृहत् पोताः सहस्रशः ॥२.१४.६३॥

नौरोपरि सदा भान्ति समायान्त्यर्णवात्तथा ।
एवं तस्यान्तरञ्चक्षुरुन्मीलितमभूत्तदा ॥२.१४.६४॥

मोहोनष्टः स्मृतिर्लब्धो भगवत्याः प्रसादतः ।
अपरूपी ज्वलालोकसम्पातैर्दिक प्रकाशिता ॥२.१४.६५॥

तत्रापश्यन्मातृ मूर्तिं ज्योतिषामन्तरे स्थितां ।
विश्वस्य जननों साचादचिन्त्य शक्तिरूपिनीम् ॥२.१४.६६॥

जले स्थलेचान्तरीक्षे शरोरे स्वे मनस्यपि ।
सुस्थतायां यातनायां ज्ञानेऽज्ञानेह्यवस्थितां ॥२.१४.६७॥

जीवितेऽप्यथ मृत्यौ यद्दष्टे यत् श्रुतेऽपि च ।
सा माताखिल विश्वस्याधाररूपा सनातनी ॥२.१४.६८॥

नयति ध्रुवमध्रौव्यमध्रुवं ध्रौव्यमप्यसौ ।
अन्तर्यामि स्वरूपेण जोवानामन्तरे स्थिता ॥२.१४.६९॥

तस्या इच्छां विना कोऽपि स्वप्रभावेन मुक्तताम् ।
प्राप्तं कदापि नो शक्तो मर्तुं वापि न शक्यते ॥२.१४.७०॥

शरीर बुद्धि मनसामतीते च सदास्थितिः ।
तुरीया निर्गुणा शुद्धा चिदानन्दस्वरूपिनी ॥२.१४.७१॥

माता ब्रह्ममयी ज्ञाताधुना प्रत्यक्षरूपतः ।
तया मृत्युमुखग्रस्तो ह्यहं सम्पूर्ण सुस्थताम् ।
२.४.७२॥

नीतो रोगो गतः कुत्र गता वा रोगयातना ।
नास्ति तथा बिधो रोगः शोको वापि शरीरिणां ॥२.१४.७३॥

न नाशयसि यं काली कृपादृष्ट्येव केवलम् ।
प्रायेण सप्तति समा वाङ्मनसामगोचरम् ॥२.१४.७४॥

ब्रह्मेत्युपासनायुक्तस्तस्मै सर्वं समर्पितम् ।
देहप्राणामनश्चापि तस्मै दत्तं मया ध्रुवम् ॥२.१४.७५॥

ब्रह्मैव सा जगन्माता मम प्रत्यक्षतां गता ।
हरगौरी स्वरूपेण मत्समीपे स्फुरत्यसौ ॥२.१४.७६॥

ब्रह्मणो ब्रह्म शक्तेश्च भेदो नास्ति कथञ्चन ।
साक्षादृष्टा मयासाद्य महामाया प्रसादतः ॥२.१४.७७॥

निशीथे भोषणे तस्मिन् भक्ति विक्लव चेतसि ।
श्रीजगज्जननी काली ब्रह्मरूपा प्रकाशिता ॥२.१४.७८॥

तदा चिन्त्या व्यक्तरूपा महामाया प्रदर्शनम् ।
कुर्वंस्तोता पुनर्गङ्गाजलं जानुप्रमाणकम् ॥२.१४.७९॥

लङ्घयित्वा पादचारैः स्वघट्टे समुपस्थितः ।
भागीरथीं नमस्कृत्य तरङ्ग वीक्ष्य विस्मितः ॥२.१४.८०॥

ततः पञ्चवटी मूले स्व होमाग्नि समीपतः ।
हर्षेण महताविष्ट उपविश्याजिनासने ॥२.१४.८१॥

पुनः पुनः स्वोदरे स कृत्वा तु करताडनम् ।
सम्पूर्ण यातनाभावं रोगमुक्तिं विलोक्य च ॥२.१४.८२॥

गङ्गागर्भे निशायां यः समाधिर्नवरूपकः ।
आविर्भूतोऽधुना सोऽपि मनसः प्रीतिदायकः ॥२.१४.८३॥

तचिन्तयां ततस्तोता विनिद्र नयनेन वै ।
सुमधुरं रात्रिविशेषं मातुर्नाम जपेन च ॥२.१४.८४॥

ध्यानेनापि जगन्मातूरूपप्रत्यक्ष पूर्वकम् ।
क्षपयित्वा स्वमानन्दात् कृतकृत्यममन्यत ॥२.१४.८५॥

एवं ब्रह्ममयी भावं प्राप्तः पूर्वतपोबलात् ।
सर्वमेव रामकृष्णप्रभावान्नात्र संशयः ॥२.१४.८६॥

प्रत्युषे श्रीरामकृष्णो रोगातुर गुरोरथ ।
दैहिकं कुशलं ज्ञातुमागत्य गुरु सन्निधौ ॥२.१४.८७॥

अपश्य तं गुरुं तत्र रूपान्तरमवस्थितं ।
न रोगलक्षणं किञ्चिज्जातेव पृथगात्मता ॥२.१४.८८॥

हास्यहीनस्य मुखस्य सर्वतः परिवर्तनम् ।
आनन्दप्लुतदेहोऽयं रोगमुक्तोऽभवत्तथा ॥२.१४.८९॥

स्वशिष्यं श्रीरामकृष्णं स्वपार्श्येऽप्यतियत्नतः ।
उपवेश्य व्यतीतायां यामिन्यां या ह्यलौकिकी ॥२.१४.९०॥

घटनाघटिता तां हि सर्वां स समवर्णयत् ।
एवञ्चोक्तं कथाशेषे कालो मे निष्कलो गतः ॥२.१४.९१॥

ब्रह्ममय्या यतो मातुर्नाहं वेद्मि स्वरूपकम् ।
अहोऽज्ञता वाधते मां शक्तिर्विमानिता ॥२.१४.९२॥

वत्साद्य दिव्यचक्षुर्मे स्फुटितं त्वत्प्रसादतः ।
श्रुत्वैव श्रीगुरोर्वाक्य प्रत्युवाच पुरीं प्रभुः ॥२.१४.९३॥

ज्ञातमेतद्भवद्भिस्तु संशयः कर्णचक्षुषोः ।
गतोऽद्य सविशेषं हि कृपामय्याः कृपावलात् ॥२.१४.९४॥

प्रागेवाहमिदंमात्रा ज्ञापितं बहुरूपतः ।
ब्रह्मणो ब्रह्मशक्तेञ्च भेदो नास्ति कथञ्चन ॥२.१४.९५॥

अग्नेस्तद्दाहिकाशक्तेर्नानात्वं नास्ति निश्चितम् ।
तादृगियं ब्रह्मशक्तिर्ब्रह्मरूपामतामम ॥२.१४.९६॥

ततस्तोता रामकृष्णमुवाच परपुरुषम् ।
या ममाध्यात्मिकी शक्तिरपूर्णा विद्यते हृदि ॥२.१४.९७॥

साधुना त्वत् सहायस्य परितः पूर्णतां गता ।
कृतार्थोऽहं कृतार्थोऽहं दृष्ट्वा मातुः कृपाकणाम् ॥२.१४.९८॥

एवन्तौ गुरुशिष्यौ द्वौ समसिद्धियुतौ तदा ।
प्रविश्य जगदम्बाया मन्दिरं भक्तिपूर्वकम् ॥२.१४.९९॥

नेमतुर्दण्डवद्भूमौ तावुभौ सिद्ध साधकौ ।
प्रत्यक्षा सा तदा माता मस्तके योगिनोर्द्वयोः ॥२.१४.१००॥

करौ दत्वावदद्देवि पश्य मे योगवैभवम् ।
मत्तः परतरं नास्ति भूतं भव्यं भवच्च यत् ॥२.१४.१०१॥

अहमेव हरिः साक्षाद्वैकुण्ठाधिपतिर्महान् ।
रामः कृष्णो हरिर्विष्णुर्जिष्णुर्नारायणोऽव्ययः ॥२.१४.१०२॥

योगोयागस्तथा सिद्धिर्देवता मन्त्र एव वा ।
मद्भक्तियोगमाश्रित्य भक्ता जानन्ति तत्त्वतः ॥२.१४.१०३॥

ज्ञानेन कर्मणा वापि वैराग्येन दृढेन च ।
न विन्दन्ति स्वरूपं मे भक्तिरेव हि कारणम् ॥२.१४.१०४॥

एवं काली विश्वरूपं दर्शयामास तौ तदा ।
पुरी दृष्ट्वैव तद्रूपं निमज्यानन्दसागरे ॥२.१४.१०५॥

स्तोत्रेणानेन तां देवीं तुष्टाव जगदम्बिकाम् ।
देवी त्वं जगतां मातः सृष्टिस्थित्यन्तकारिणी ॥२.१४.१०६॥

सर्वाधारे सदानन्दमयि दुर्गे नमोऽस्तुते ।
कालिके कृष्णवर्णे त्वं कामारि कृष्णविग्रहे ॥२.१४.१०७॥

त्वत्पादपद्मयुगले सुरतिर्ममास्तु मातः प्रसीद भवदुःखहरा त्वमाद्या ।
देवी प्रसीद वरदे सुखशान्तिदात्री ह्याशीः स्रजं वितर हे मम मूर्द्ध्नि नित्यम् ॥२.१४.१०८॥

त्वमेव सर्वस्य सुवीजरूपा त्वमेव सिद्धिः सुखवोधदात्री ।
त्वमेव धात्री जनमुक्ति हेतु स्त्वमेव नित्या परतः परासि ॥२.१४.१०९॥

विमोहितास्ते जडबुद्धयः सदा द्वारात्मजार्थेषु निमग्नमानसाः ।
सदा सदानन्द मयार्य सम्पदं त्वत् पादपद्मं परिहाय पामराः ॥२.१४.११०॥

धन्योऽहमद्य महत् स्तवपादपद्म सम्पर्कलेशपरिशुद्ध गदाधरस्य ।
सङ्गादहो सकल शान्तिमयीं भवाद्धेः पाराय पादतरणीं परमां प्रयातः ॥२.१४.१११॥

यदि गमनमधस्तात् पूर्वकर्मप्रभावात् भवति कुलविहोने जन्म कीटानुकीटे ।
हर हर हरकान्ते दुर्गतिं त्वं मदीयां भवतु मम हृदिस्था त्वत् पदे भक्तिरेका ॥२.१४.११२॥

एवं पुरी तदा स्तोत्रं विश्राव्य भवतारिणीम् ।
मन्दिराद्बहिरागत्य पञ्चवट्यामुपाविशत् ॥२.१४.११३॥

ततः कतिपयाहानि तत्र स्थित्वा मुदायुतः ।
शिष्यैः सह जगन्मातुः प्रसादं परिगृह्य सः ॥२.१४.११४॥

लब्धा श्रीभवतारिण्याः सदनुज्ञां महामतिः ।
भूत्वा देव्या महाभक्तो गतः स दक्षिणेश्वरात् ॥२.१४.११५॥

इति श्रीरामेन्द्रसुन्दर भक्तितोर्थ विरचिते श्री श्रीरामकृष्णभागवते पारमहंस्यां संहितायां भगवतः श्रीरामकृष्णदेवस्य तोतापुरी सन्न्यासी सकाशात् ब्रह्ममन्त्र ग्रहनानन्तरं तत् कृपाकरणरूपो मध्यलीलायां चतुर्द्दशोऽध्यायः ॥१४॥