मध्यलीला
गदाधरस्य बहुविध साधनसिद्धिस्तथा मथुरस्य
भूमिदानप्रसङ्गे दिव्यज्ञानलाभश्च
मध्यलीलायां पञ्चदशोऽध्यायः
मन्दिरस्य कियद्दुरेऽवस्थितस्य सुयोगिनः ।
अत्यन्तमाग्रहञ्चाभूदिस्लामधर्मसाधने ॥२.१५.१॥
अद्वैत साधना सिद्धेः परं तस्यैव योगिनः ।
धर्मान्तर साधनायां वासनाभूद् गरीयसी ॥२.१५.२॥
आर्याचारमार्यधर्म मतिक्रम्य महामतिः ।
विभिन्न धर्मशीलानां तत्तद्धर्मानुवत्तिनां ॥२.१५.३॥
परमेश्वर लाभार्थं सान्निध्यं यतते सदा ।
महासाधकवर्योऽयं सञ्चिन्त्यप्रातः परं वहु ॥२.१५.४॥
तत्तत् सिद्धि प्राप्तिहेतोरुदयुक्तो
नवसाधने ।
यदृच्छयागतस्तत्र दक्षिणेश्वरपत्तने ॥२.१५.५॥
कालेऽस्मिन्निस्लामी सुफीसम्प्रदाय
प्रचारकः ।
श्रीगोविन्द राय नामा आल्लासाधक सत्तमः ॥२.१५.६॥
तस्मादेव रामकृष्णो दीक्षितो ह्यभवन् मुदा
।
यावनिकस्य धर्मस्य साधना समये प्रभुः ॥२.१५.७॥
त्यक्त्वा मथुरसम्पर्कं मन्दिरस्य च
सन्निधिम् ।
बहिर्भागे मन्दिरस्य सर्वदा समवस्थितः ॥२.१५.८॥
तद्धर्मानुगुणं पानं भोजनञ्च तथा करोत् ।
इदमुक्तं ठाकुरेण साधनायाः प्रसङ्गतः ॥२.१५.९॥
शिष्याणां श्रवणेच्छायां कौतूहलवशात् कदा ।
आल्लामन्त्रं तदाहन्तमजपं प्रीतिपूर्वकम् ॥२.१५.१०॥
परिधेयं यवनवदगृहीतमतियत्नतः ।
नामाज विधिना सन्ध्या वन्दनं विधिवत् कृतम् ॥२.१५.११॥
तदार्यभावो मनसः सम्पूर्ण लुप्ततां गतः ।
हिन्दु प्रतिष्ठितां मूर्त्तिं देवदेवी मथापिवा ॥२.१५.१२॥
तदानीं नानमञ्चाहं दर्शनेच्छापि नो मम ।
दिनत्रयगते चैवं रूपे भाव पुरःसरम् ॥२.१५.१३॥
साधनस्य फलं सम्यगुपलब्धी कृतं मया ।
परमेव सिद्धिलाभादिस्लाम धर्मसाधने ॥२.१५.१४॥
ज्योतिर्मय दीर्घश्मश्रुविशिष्ट पुरुषस्य
हि ।
दिव्यदर्शनलाभेन धन्योऽहमभवंस्तदा ॥२.१५.१५॥
ततो विराट पुरुषस्य रूप दर्शनपूर्वकम् ।
गुणातीते तुरीयाख्ये ॐ तत्सदिति शब्दिते ॥२.१५.१६॥
लीनं ब्रह्मण्यभूच्चित्तं निर्विकल्प
समाधिना ।
एवमानन्दरूपस्य जीवानन्द प्रदायिनः ॥२.१५.१७॥
परमब्रह्मभूतस्य साधनाचिन्त्य गोचरा ।
स्वनुष्ठितानन्तरूपा यया तं समुपैष्यति ॥२.१५.१८॥
शाक्त वैष्णव गणेश सौर शैवादि साधनम् ।
बौद्ध जैन खृष्टीयादि साधनान्यकरोत् प्रभुः ॥२.१५.१९॥
अत्रैव तस्य महतः पुरुषस्य साधोः
श्रीरामकृष्ण गुरु गौरव विग्रहस्य ।
धर्मात्मनः सकल धर्म सुसिद्धिलाभं प्राप्तस्य योगतपसामभवत् समाप्तिः
॥२.१५.२०॥
यदा श्रीरामकृष्णस्तु सर्वसिद्धि
युतोऽभवत् ।
तदा तद्वयसः सङ्ख्या द्वात्रिंशद्वर्ष सस्मिता ॥२.१५.२१॥
एवञ्चासौ स्वल्पकालं विभिन्नमार्ग साधने ।
भूत्वावतीर्णो भगवांस्तांस्तां सिद्धिमवाप्तवान् ॥२.१५.२२॥
त्याग एव परोधर्म सर्व धर्म प्रवर्तकः ।
एकमेवाद्वितीयं यत्तत्त्वं साधक सत्तमैः ॥२.१५.२३॥
साध्यते बहुभिर्दुःखैस्तत्त्वं ठाकुरेण हि
।
स्वल्पायासेनोपलब्धं सर्वं निरवशेषतः ॥२.१५.२४॥
एवमुक्तं भगवता श्रीमुखेन स्वयं तदा ।
धार्मिकानां धर्ममते बहुरूप गतेऽपि च ॥२.१५.२५॥
साधना सिद्धिकाले तु गतिरेकविधा भवेत् ।
सर्वधर्म मूलरूपमेतदेव चतुष्टयम् ॥२.१५.२६॥
त्यागवैराग्य विश्वासाभक्तिश्चेति मतं मम ।
सत्यमीश्वर प्रत्यक्षं संशयो नात्र विद्यते ॥२.१५.२७॥
तमैकान्तिक भक्त्या च द्रष्टुमर्हन्ति
साधकाः ।
प्रपश्यसि यथा त्वं मां पश्यामि त्वामहं यथा ॥२.१५.२८॥
एवन्तमीश्वरं साक्षात् कुर्वन्ति कुशलो
जनाः ।
सह तेन कथापिस्याद्भक्तानां मानसेप्सिता ॥२.१५.२९॥
सजातीया विजातीया या याः साधनभूमिका: ।
तत्तत् साधन सिद्धिं स लब्धैवं मन्यते तदा ॥२.१५.३०॥
ईश्वरस्यावतारोऽहं साधन जीवहेतवे ।
घोरे कलियुगे चात्र जपहोमादिकाः क्रियाः ॥२.१५.३१॥
समर्था न जनाः कर्तुं शिश्नोदरपरायणाः ।
तेषामुद्धरणार्थाय मयेदं साधनं कृतम् ॥२.१५.३२॥
येनास्मिन् सङ्कटे काले ह्यधर्मप्रभवा
नराः ।
पापमुक्तिमाप्नुवन्ति मन्नामोच्चार मात्रतः ॥२.१५.३३॥
एवं कल्याणसिद्धार्थं जीवानां समनुष्ठितम्
।
नित्यशुद्ध बुद्धमुक्त स्वभावादीश्वरादपि ॥२.१५.३४॥
जीवानामिव भिन्नं न मत्स्वरूपं कदाचनः ।
जीवः कर्मफलभुंक्ते कर्मातीतो भवाम्यहं ॥२.१५.३५॥
एवमीश्वर धर्मोऽयं मम देहे प्रवर्तते ।
अतो मे नास्ति मुक्तिश्च बन्धनं वा कुतो भवेत् ॥२.१५.३७॥
किमिच्छन् कस्य कामाय शरीरं पीडयाम्यहं ।
एवं निर्लिप्तभावेऽपि कर्तव्य मयि विद्यते ॥२.१५.३७॥
युगे युगेऽवतीर्याहं युगधर्मं चरामि हि ।
यथा राजा स्वराष्ट्रेषु यत्र राजद्रोहाः प्रजाः ॥२.१५.३८॥
तत्र गत्वा प्रजा शान्त्यै करोति शासनं
महत् ।
तद्वदेवात्र भगवानाविर्भवति सन्ततम् ॥२.१५.३९॥
पृथिव्यामघुना
तद्वद्धर्मग्लानिर्विवर्द्धते ।
धर्मवाधां विधास्यन्ति ये भोजा धनिनो जनाः ॥२.१५.४०॥
तस्याः संरोधनार्थाय ह्यवतोर्णोऽभववं कलौ ।
जनिष्यमान जोवानां तथास्मदनुवत्तिनां ॥२.१५.४१॥
सन्मार्गदर्शनार्थाय साधनेयमनुष्ठिता ।
ठाकुरः श्रीरामकृष्णो व्रतौ वेदान्त साधने ॥२.१५.४२॥
चन्द्रादेवौ तदा तत्र कामारपुकुरालयात् ।
दक्षिणेश्वरमागत्य स्थिता मन्दिर कोष्ठके ॥२.१५.४३॥
सस्त्रीको मथुरानाथो साक्षातां
जगदम्बिकाम् ।
मत्वा चैकान्तिकीं सेवां कृत्वा धन्यो वभूव ह ॥२.१५.४४॥
ठाकुरोऽपि प्रतिदिनं निद्राभङ्गे खलूषसी ।
सर्वं कर्म परित्यज्य सर्वाग्रे मातृसन्निधौ ॥२.१५.४५॥
गत्वा श्रद्धान्वितो भक्ति विनयादि
पुरःसरम् ।
पादपूजां विधायाथ पीत्वाच चरणोदकम् ॥२.१५.४६॥
धन्योऽहं कृतकृत्योऽहं फलवांश्चैव मे भवः ।
एवमुक्ता पदे मातुर्लुण्ठितश्चाभवन्मुदा ॥२.१५.४७॥
दृश्यञ्चैतत् श्रोमथुरो दृष्टवानति
भक्तितः ।
अत्रान्तरे श्रीमथुरो मनस्यै तदचिन्तयत् ॥२.१५.४८॥
पित्रे श्रीरामकृष्णाय दास्यामि बहु
विस्तरम् ।
भूखण्डं तत् प्रीति कामौ येन तस्य सुखं भवेत् ॥२.१५.४९॥
श्रुत्यै तद्रामकृष्णस्तु सर्वं
हृदयवक्तृतः ।
घृताहुत्या यथा वह्नेः शिखासंवर्द्धिता भवेत् ॥२.१५.५०॥
तद्वदेव तदैवासौ क्रोधाग्नि परिपूरितः ।
मथुरमनुसन्धाय यष्ठिमुत्तोल्य तं प्रति ॥२.१५.५१॥
वीरभावं समाश्रित्य प्रोवाचोच्चैः स्वरेण
तम् ।
विषय विषलिप्तं मां किञ्चिकईर्ष सिदुष्टभोः ॥२.१५.५२॥
विषयेषु महाप्रीतिः पशूनामेव दृश्यते ।
ठाकुरस्योग्रभावं तं दृष्ट्वा नो वाच किञ्चन ॥२.१५.५३॥
परन्तु मथुरानाथो भयेना दृश्यतां गतः ।
एवं तद्भाव विज्ञोऽपि न किञ्चिदपि चालितः ॥२.१५.५४॥
स्वसङ्कल्प सुसिद्ध्यर्थ्यं
चन्द्रादेव्याः समीपगः ।
प्रणतश्चरणोपान्त इदं वचनमब्रवीत् ॥२.१५.५५॥
भवत्या यद्यहं कोऽपि स्वात्मीयो मन्यते
ततः ।
पितामहि समीपे मे भवतो प्रार्थिनी भव ॥२.१५.५६॥
मूमिं बहुतरां देवि महत्तां शस्यशालिनीं ।
गृहानेयं कामना मे पूर्यतां पुत्र वत्सले ॥२.१५.५७॥
श्रुत्वा ठाकुरमाता तां मथुरोक्तिं पुनः
पुनः ।
प्रत्युवाच श्रीमथुरं ईशद्धास्य पुरःसरम् ॥२.१५.५८॥
भो पुत्र तव कल्यानात् सर्वदा कुशलं मम ।
प्रसादं भवतारिण्याः प्रत्यहं देव दुर्लभम् ॥२.१५.५९॥
प्राप्नोमि च तथा द्रव्यं गृहवस्त्रा
दिकञ्च यत् ।
तत्तः सर्वं मया प्राप्तं नास्त्यभावः कथञ्चन ॥२.१५.६०॥
अतोऽधुना प्रार्थनीयं नास्ति किञ्चिन्मत मम ।
श्रुत्वाप्येवं श्रीमथुरः पितामह्यावचस्तथा ॥२.१५.६१॥
दानाशामपरित्यज्य दृढ भावेन चाब्रवीत् ।
मया पितुर्भगवतः श्रीरामकृष्णरूपिणः ॥२.१५.६२॥
दास्यामि निश्चितं किञ्चित् सम्पत्तिं
सुखहेतवे ।
वंशोद्भव जनानां हि नानाभावो भविष्यति ॥२.१५.६३॥
एवमुक्तः पुनस्तेन दृढभावेन सा तदा ।
दानार् मनुरुद्धा हि प्रत्युचवाच पुनश्च तम् ॥२.१५.६४॥
अभावोऽस्ति हि मे पौत्र यदि त्वं
पुरयिष्यसि ।
तदाहं सुखिनो स्यां वै दानेच्छा यदि विद्यते ॥२.१५.६५॥
तर्हि चतुस्ताम्रमुद्रालभ्या तामाकु
पत्रिका ।
देहि मे मुखशुद्धार्थं याभिश्चूर्णं भविष्यति ॥२.१५.६६॥
तत् प्राप्तावुत्तमा प्रीतिरधुना मे
ध्रुवं भवेत् ।
एवमाकर्ण्य मथुरः पितामह्यावचस्तदा ॥२.१५.६७॥
विस्मितस्तब्धतामाप प्रायेण हतचेतनः ।
किमिदमिति चोक्ता स दानेच्छा विषयस्य हि ॥२.१५.६८॥
सम्पूर्णां तां परित्यज्य पादपांशुं
स्वमस्तके ।
प्रगृह्यैव पितामह्या विनीतस्तमुवाच सः ॥२.१५.६९॥
पितामहि मया ज्ञातं भ्रान्त्यैवेदं
सुनिश्चितम् ।
यत् पितुर्जननी त्वं हि सत्यमेतन्न संशयः ॥२.१५.७०॥
एवमलौकिकी माता यदि न स्यात्तदा कथम् ।
सतां धर्मस्थापनाय प्रशमायेतरस्य च ॥२.१५.७१॥
घोरेऽस्मिन् समये देवि तव गर्भं समाश्रितः
।
कलेर्जीवान् समुद्धर्तुं प्रकटोऽभुद्धरिः स्वयम् ॥२.१५.७२॥
दृत्येवं मथुरानाथ उभयोस्त्यागशीलताम् ।
नैतेनरा देवरूपाः सर्वे लोलार्थमागताः ॥२.१५.७३॥
इत्येवं मन्यमानस्य मथुरस्य महात्मनः ।
दिव्यज्ञानमभूत्तस्य रामकृष्ण प्रसादतः ॥२.१५.७४॥
इति श्रीरामेन्द्र सुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्ण भगवते पारमहंस्यां संहितायां श्रीरामकृष्णदेवस्य वहुविध धर्मसाधने सिद्धिलाभादनन्तरं मथुरस्य भूमिदान प्रार्थना दूरीकरणरूपी मध्य लीलायां पञ्चदशोऽध्यायः ॥१५॥