मध्यलीला
गदाधरस्य कामारपुकुरं गमनानन्तरं
भैरवीदेव्याः काशीक्षेत्रं गमनम्
मध्यलीलायां षोडषोऽध्यायः
पूर्वोक्ता भैरवी देवी गङ्गातीरेऽति
निर्मले ।
तदारभ्याद्य पर्यन्तं स्थिता भजनसाधने ॥२.१६.१॥
रता स्वपुत्रमिव तं रामकृष्णं च दर्श सा ।
एकदान्तरिकी तस्याः सञ्जातेच्छाशुभप्रदा ॥२.१६.२॥
श्री रामकृष्णदेवस्य जन्मस्थानमावलोकने ।
तातानुमोदनञ्चास्ति श्रुतं तन्मथुरेण तु ॥२.१६.३॥
हृदयेन समालोक्य तत्रैवमवधारितम् ।
पिता मे याति भैरव्या जन्मभूदर्शनोत्सुकः ॥२.१६.४॥
ततस्तत्परिचर्यार्थं हृदयोऽप्यनुगच्छतु ।
एवं श्रीमथुरानाथो गमने यत् प्रयोजनम् ॥२.१६.५॥
तत्तद्द्रव्यानि वित्तानि दत्तवान्
विधिपूर्वकम् ।
तथा तत्र स्थितानान्तु येन् स्यात् परिपोषणम् ॥२.१६.६॥
मथुरानाथ पत्नी श्रीजगदम्बा पतिव्रता ।
द्विरागमे यथा कन्यां नाना द्रव्यैः सुसंयुताम् ॥२.१६.७॥
कृत्वा माता प्रेष्यति तथा तद्द्रव्यमा
द्दत्र्यमाहृतम् ।
बहु गोशकटैः सजीकृत्यादाद गुरवे यथा ॥२.१६.८॥
श्रीरामकृष्ण देवस्य ज्येष्ट भ्रातृ
सुतस्तदा ।
अक्षयो भवतारिण्याः पूजाकार्येऽभवद्वृतौ ॥२.१६.९॥
अति प्रियमक्षयं तमुपदिश्य यथाविधि ।
साङ्गोपाङ्गादिभिः सार्द्धं दक्षिणेश्वरमन्दिरात् ॥२.१६.१०॥
चिदानन्द स्वरूपोऽय' कामारपुकुर गतः ।
वर्षाष्टकात् परं तत्र स्वजन्मभूमि सद्मनः ॥२.१६.११॥
प्रवेशे परमानन्दं प्राप्तवान् परमेश्वरः ।
तत्रस्थ जनसंघोऽपि मुदमापतदागमात् ॥२.१६.१२॥
चन्द्रादेवी स्नुषां स्त्रीयां
पितृगेहाच्च तत्रताम् ।
यूनीं द्विसप्तवर्षीयां भव्यामानाययत्रदा ॥२.१६.१३॥
योगेश्वरी श्रीभैरवी कठोरा ब्रह्मचारिनी ।
ब्राह्मणी श्रीरामकृष्णं प्रोवाचस्मारकं वचः ॥२.१६.१४॥
नारी सम्बन्ध गन्धोऽपि सन्न्यासाश्रम
सेविनः ।
सर्वथापरिहर्तव्यः सावधानस्ततो भव ॥२.१६.१५॥
श्रीरामकृष्णस्तच्छ्रुत्वा भैरव्या
यदुदीरितम् ।
गुरोब्रह्मज्ञस्य तथा चाद्वैत ब्रह्मवादिनः ॥२.१६.१६॥
तोतापूर्या दृढं वाक्यं कर्णयोः प्रति
नादितम् ।
योगिनो न प्रतिष्ठास्थात् स्त्रीपुंसोर्भेददर्शने ॥२.१६.१७॥
अतोऽधुना भगवतः श्रीरामकृष्ण योगिनः ।
सम्मुखे वर्तते सेयं परीक्षाति भयङ्करी ॥२.१६.१८॥
तथापि श्रीरामकृष्णः कठोरतर संयमो ।
शुभार्थे सहधर्मिन्या इहामुत्र च सर्वदा ॥२.१६.१९॥
तथा शिक्षा साहचर्यं विधेयमिति चिन्तयन् ।
अकृत्रिम सुपवित्र स्नेहमत्युच्च रूपकम् ॥२.१६.२०॥
कृत्वा पत्न्याः कर्णमूले बीजमन्त्रं
प्रदत्तवान् ।
देवदैव प्रसादात्तु महा गुरोरनुग्रहात् ॥२.१६.२१॥
सद्यस्तदङ्कुरोजातो विशुद्ध हृत्सरोरुहे ।
येन सा सारदादेवी सारदेति प्रगीयते ॥२.१६.२२॥
श्रीरामकृष्ण देवस्य तद्रुपाचरणं तदा ।
अवलोक्य शक्तितन्त्रे महासिद्धा तपस्विनी ॥२.१६.२३॥
न लेभे भैरवी तुष्टिं गर्जिता घनशब्दवत् ।
दृष्ट्वैवं भैरवी देव्याः कठोराचरणं तदा ॥२.१६.२४॥
कम्पितां सारदा देवी व्याघ्रं द्रष्ट्वा
यथा मृगी ।
येन केन साधकेन यदि सम्मेलनं भवेत् ॥२.१६.२५॥
श्रीरामकृष्ण देवस्य भैरव्यग्नि समाभवत् ।
किन्त्वलौकिक भावत्वान्निर्विकार स्वभावतः ॥२.१६.२६॥
अप्यत्युच्च साधिकाया अभूद्भ्रमापनोदनम् ।
श्रीभैरव्या परन्त्वेवं निश्चितं सविशेषतः ॥२.१६.२७॥
नित्यशुद्धबुद्धमुक्तादौ स्वभाव
ब्रह्मचारिणि ।
श्रीरामकृष्णदेवे हि म्रान्त्ये वेदं कृतं मया ॥२.१६.२८॥
स्वभावशुद्धमुक्तादौ यथा मालिन्य शून्यता ।
तथास्मिन् पुरुषश्रेष्ठे नैर्मल्यं विद्यते सदा ॥२.१६.२९॥
एवं सा भैरवी देवी स्व भ्रान्तिमवगम्य च ।
आत्मग्लानियुता स्वञ्चमर्हयामास सर्वथा ॥२.१६.३०॥
अतःपरमेकदा सा साक्षाद् गौराङ्गज्ञानतः ।
श्रीरामकृष्णदेवन्तं पुष्पचन्दनचर्च्चितम् ॥२.१६.३१॥
कृत्वा पुष्पाञ्जलिं दत्ता
पादयोर्विधिपूर्वकम् ।
तदनुज्ञां गृहीत्वेव काशीक्षेत्रं जगाम सा ॥२.१६.३२॥
स्थित्वा स्व सम्भवक्षित्यां षन्मासान्
भगवांस्ततः ।
पुनः प्रत्यागतस्तस्मिन् दक्षिणेश्वर धामनि ॥२.१६.३३॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां भगवतः श्रीरामकृष्णदेवस्य दक्षिणेश्वरात् कामारपुकुर गमनानन्तरं ब्राह्मनी श्रीभैरवी देव्याः काशीक्षेत्र गमनात् परमेव ठाकुरस्य दक्षिणेश्वर प्रत्यागमनरूपो मध्यलोलायाः षोडशोऽध्यायः ॥१६॥
अत्रैव मध्यलीला समाप्ता ।