अन्त्यलीला

वियोगं वर्णनम्

अन्तलीलायास्तृतीयोऽध्यायः


तीर्थ प्रत्यागमादूर्द्धं कियत्काले गते सति ।
भगवद्रामकृष्णस्थ ज्येष्ठभ्रातृ सुतस्य हि ॥३.३.१॥

देहपीडा विशेषेण सञ्जाता दक्षिणेश्वरे ।
मत्वा तस्यान्तिमां पीडां भगवान् करुणानिधिः ॥३.३.२॥

किञ्चित् कालमपि तस्य सान्निध्यं न जहात्यसौ ।
अक्षयस्यान्तसमये तस्यास्ये योगदृष्टितः ॥३.३.३॥

ददर्श देवतुल्यस्य प्राणसंयानमुत्तमम् ।
तर्हि देवोमुदं लेभे तत्काले नात्र संशयः ॥३.३.४॥

किन्तु दिनत्रयातीते शोकेनाकुलितोभृशम् ।
शोकदुःखातीतो योगी तदैवमवदत् प्रभुः ॥३.३.५॥

समापि मर्म स्थानानि निकृत्तानि शुचायै वै ।
मया न ज्ञातमेतत्तु शोकाधिक्य सुभीषणम् ॥३.३.६॥

वियोगे दारपुत्राणां गृहस्थानां कीदृग्भवेत् ।
एवमक्षय स्वर्गार्थं अक्षयस्याक्षयो हरिः ॥३.३.७॥

भगवान् रामकृष्णस्तु योगशक्तिं न्ययोजयत् ।
एवमक्षय संयानं सर्वथाऽलौकिक मतम् ॥३.३.८॥

इतःपरमागतोऽयं द्वितीयवियोगो महान् ।
ठाकुरस्योत्तमोभक्तो मथुरानाथ संज्ञकः ॥३.३.९॥

मथुरानाथतुल्यं यष्ठाकुरं सम वै इक्षत ।
सर्वं यच्चरन्यस्य देह दैहिकमात्मनः ॥३.३.१०॥

कृतकृत्यं मन्यमानोयत् सेवां प्राप्तवान् सुधीः ।
तद्वियोगाद्भगवतः शोकोऽभूदति दारुणः ॥३.३.११॥

जिज्ञासितायां तद्गत्यां ठाकुरः स्वयमब्रवीत् ।
मथुरो मुक्ति लाभार्थं न कदापि विचेष्टितः ॥३.३.१२॥

केवलं प्रार्थयामास सान्निध्यं मम भाग्यवान् ।
येनाहं भगवत् सेवां प्राप्स्यामि जन्मजन्मनि ॥३.३.१३॥

भक्तानामपिवासेवां वासनैषामतिर्मम ।
तद्वाञ्छापूरणं माताकरिष्यत्येवं कालिका ॥३.३.१४॥

अतोराजर्षिदेहं स प्राप्य श्रीमथुरोमहान् ।
श्रीभवतारिणीमातुः सेवाकार्यमवाप्तवान् ॥३.३.१५॥

जननी रामकृष्णस्य तदात्र दक्षिणेश्वरे ।
स्वर्णद्यामवगाहार्थं पुत्र सान्निध्यहेतवे ॥३.३.१६॥

स्थित्वा देवीगृहे देवीसाधनायां सदारता ।
तदा रामेश्वरो रामकृष्णस्य मध्यमाग्रजः ॥३.३.१७॥

स्वर्गतोऽभूज्जन्मभूमौ हित्वा देहं जरायुजम् ।
एवं निदारुणः शोको वृद्धमातुर्वृहद्धृदि ॥३.३.१८॥

जानाम्यहं विशेषेण निर्द्दयं प्रहरिष्यति ।
एवं विचिन्त्य स देवो जनन्याः शोकमुक्तये ॥३.३.१९॥

मातुः श्रीजगदम्बाया सकाशे च सकातरम् ।
प्रार्थयामास वहुशः शोकग्रस्तो गदाधरः ॥३.३.२०॥

व्यर्थान प्रार्थना तस्य सफलाभूत सुनिश्चितम् ।
पुत्र शोकातुरामाता यतस्तं श्रीगदाधरम् ॥३.३.२१॥

मातृशोकातिसन्तप्तं सान्त्वयामास सा तदा ।
स्वक्रोडेन्यस्यदेवी तमाशीर्वादं पुरःसरम् ॥३.३.२२॥

उवाच शेषपुत्रत्वं शेषे मेऽग्निं प्रदास्यसि ।
एवं रामेश्वरे देवेकालधर्ममुपेयुसि ॥३.३.२३॥

तस्य ज्येष्ठ सुतो रामलालः पण्डित उत्तमः ।
दक्षिणेश्वरम् आगत्य पूजाकार्येऽभवद्वृत्तौ ॥३.३.२४॥

युग्मवस्वधिके सूर्य शताब्दे घटगेरवौ ।
षोडशाहे जन्मतिथौ रामकृष्णस्य धीमतः ॥३.३.२५॥

श्रीराम सेविकामाता पञ्चनवति वत्सरे ।
शिवामृत जलस्याहि पश्यन्ती जाह्नवीं चिता ॥३.३.२६॥

गङ्गानारायण ब्रह्मेत्युक्त्वाञ्जलिपुरःसरम् ।
स्वभाले न्यस्तहस्ता सा रामनामोच्चरन्त्यपि ॥३.३.२७॥

हित्वान्तेलौकिकं देहं शुद्धं चिन्मयरूपकम् ।
देहं लब्धा गतामाता वैकुण्ठाख्यं परं पदम् ॥३.३.२८॥

ततः श्रीरामकृष्णस्तुमातुरन्त्येष्टिकां क्रियां ।
तदौर्द्धदेहिकं तद्वत् कृत्यं सर्वं सथा विधि ॥३.३.२९॥

शोकार्त्तत्वादथ स्मार्त्तकर्मणा परिवर्जनात्।
केवल्याश्रमयोगाद्वा गलिताञ्जलितात्तथा ॥३.३.३०॥

हेतुना येन केनापि ह्यचिन्ताज्ञानगोचरः ।
भगवान् रामक्कृष्णस्तु मुखोल्का दानपूर्वकम् ॥३.३.३१॥

मातृकृत्यं सुसम्पन्नं कारयामास सुव्रतः ।
मध्यमाग्रजपुत्रेण रामलालेन वै तदा ॥३.३.३२॥

ब्राह्मणादीन् भोजयित्वा दानमानादिभिश्व सः ।
नाना स्थानागतान् सर्वान् पण्डितान् परितोष्य च ॥३.३.३३॥

मातुर्वैकुण्ठगमनं पति सम्मेलनञ्च सः ।
ददर्श भगवानरामकुष्णस्तु स्वयमेव हि ॥३.३.३४॥

योऽसौ केशव सेन नाम विदितो वेदेषु निष्ठः सुधीः
    वेदानांप्रतिपाद्यवस्तु शिवदं जीवाय यच्छाम्यहं ।
यत् सत्यं परमं परात्परतरं ब्रह्मैव कैवल्यदम्
    मत्वैवं समितिं चकार परमां ब्राह्मेतिनाम्नामहान् ॥३.३.३५॥

अस्य केशव सेनस्य प्रयाण श्रवणं यदा ।
कृत श्रीरामकृष्णेन व्यथितं बहुलं तदा ॥३.३.३६॥

शोकयुक्तः श्रीभगवानुवाच करुणानिधिः ।
ममाद्य संभग्नमिदं प्रधानाङ्गं न संशयः ॥३.३.३७॥

श्रीठाकुरो गदित्वैवं कम्पज्वरयुतोऽभवत् ।
प्रायेणत्रिदिनं यावदाच्छाद्यस्थूलवाससा ॥३.३.३८॥

कायश्चैतन्यहीनस्तु पतितो धरणीतले ।
केशव सेन निर्याणादभवत् शोक सागरं ॥३.३.३९॥

इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां वियोग पर्वणि अन्त्यलीलायास्तृतीयोऽध्यायः ॥३॥