अन्त्यलीला
सिद्धभक्तसुरेन्द्रस्य दुर्गापूजा,
नरेन्द्रस्य सन्न्यासग्रहाणादिः
अन्त्यलीलायां सप्तमोऽध्यायः
ठाकुरस्य महाभक्तः सुरेन्द्र मित्र नामकः ।
लब्धागुरोः कृपारूपामाज्ञां समाधको महान् ॥३.७.१॥
कलावश्वमेधतुल्या दुर्गापूजेति यां विदुः ।
बहु वाधामतिक्रम्य पूजां चक्रे यथाविधि ॥३.७.२॥
दुर्गेव श्रीरामकृष्णः साक्षात्
श्रीभगवान् स्वयं ।
साधकानां हितार्थाय भक्तमूर्तिं परिग्रहम् ॥३.७.३॥
कृत्वाविर्भूय भगवान् लीलामानन्ददायिनीम् ।
युगे युगे प्रकरोति मर्त्य लोक विशेषतः ॥३.७.४॥
अखण्डानन्दरूपोऽयं भगवान् भक्तवत्सलः ।
शुभे महाष्टमीदिने सन्धिपूजा समागमे ॥३.७.५॥
पूजामण्डपं आगत्य दिव्यदृष्ट्या स ठाकुरः ।
अपश्यत् श्रीसुरेन्द्रस्य भक्तियोग प्रभावतः ॥३.७.६॥
प्रतिमायां जगन्मातुः साक्षादुदयमात्मनः ।
भक्ति गद्गदरूपेण मामेत्युक्त्वारुदन्मुहुः ॥३.७.७॥
मातुः पदे
न्यस्तदृष्टिर्गलवस्त्रक्काञ्जलिः ।
अश्रुभिः संसिक्ततबक्षा महाभावं गतश्च सः ॥३.७.८॥
दृष्टैवं ठाकुरस्तस्य दुर्गाभक्तिमुवाच ह ।
शास्त्र सिद्धान्त वाक्यन्तद्भक्तिशास्त्रोदितं महत् ॥३.७.९॥
अर्चकस्य तपोयोगादर्चनस्यातिशयनात् ।
आभिरूप्याच्च बिम्बानां देवः सान्निध्यमिच्छति ॥३.७.१०॥
सर्वमेतत् सुरेन्द्रनाथस्य लक्षितं
प्रभुना तदा ।
भक्त्या सुरेन्द्रनाथस्य सुप्रीतष्ठाकुरो महान् ॥३.७.११॥
परन्त्वलौकिकीन्तस्य पूजां संगृह्य यत्नतः
।
प्रत्यागम्य स्व कं धामं नरेन्द्र प्रमुखांस्तदा ॥३.७.१२॥
सुसन्तानगणांस्तस्य सुरेन्द्रस्य
कृतार्थता ।
अपूर्व पूजाव्यापारमुक्त्वा च सविशेषतः ॥३.७.१३॥
जगन्मातुः प्रसादान्न ग्रहणार्थं स ठाकुरः
।
प्रेषयामास तान् सर्वान् सुरेन्द्र भवनं तदा ॥३.७.१४॥
ततः परं स भगवान् चिन्मयीं भवसुन्दरीं ।
कालिकां दक्षिणां देवीं सम्पूजयितुमुद्यतः ॥३.७.१५॥
कालीपूजादिने प्राते भक्तानाहूय यत्नतः ।
उवाचाद्याशक्ति मातुरद्याविर्भाव वासरे ॥३.७.१६॥
अतोऽहं कालिकां देवीमर्चयामि तिथिक्षये ।
सात्विकान्यर्च्चन् द्रव्यान्यानयेत सुसत्वरम् ॥३.७.१७॥
निशायां भक्तवर्गांस्ते पूजोपचारमुत्तमम् ।
ठाकुराय समानीय दत्तवन्तो मुदान्विताः ॥३.७.१८॥
पूजाकाले स भगवान् दिव्यभाव पुरःसरं ।
पुष्पं दत्वा स्व शिरसि प्रोवाच तानिदं वचः ॥३.७.१९॥
सर्वे यूयं जगन्मातुः कालिकायाः स्वरूपकम्
।
चिन्तयत चित्तपटे भक्तिभावेन भाविताः ॥३.७.२०॥
ते सर्वेतत्तथा कृत्वा यञ्चोक्तं गुरुणा
तदा ।
पर सपादमुद्राया भक्तं यं वेत्ति ठाकुरः ॥३.७.२१॥
तेनैव श्रीगिरीशेन मनसेदं विचिन्तितम् ।
प्रत्यक्षदेवतां हित्वा कथमन्यां भजाम्यहम् ॥३.७.२२॥
एवं प्राणावेगवशान्ममामेत्युक्त्वा तदाहि
सः ।
ददौ पुष्पाञ्जलिं भक्त्या ठाकुरस्य पदाब्जयोः ॥३.७.२३॥
ठाकुरस्तत्क्षणादेव दिव्यभाव विभावितः ।
भूत्वा प्रसन्नवदना वराभयकरा तदा ॥३.७.२४॥
अपूर्वज्योतिषां मध्ये कालिकायाः
स्वरूपकम् ।
स्वात्मानं दर्शयामास भक्तेभ्यः कृपया प्रभुः ॥३.७.२५॥
श्रीरामकृष्णरूपायास्तदा ते भक्त सत्तमाः ।
कालिकाया जगन्मातुः सच्चिन्मयाः पदाम्बुजे ॥३.७.२६॥
पुष्पाञ्जलिं सम्प्रदाय कृतार्था
ह्यभवंस्तदा ।
श्रीरामकृष्ण लीलेयं कालीरूपा सनातनी ॥३.७.२७॥
एवं श्यामपुष्करिण्यां यत्किञ्चित्
सुस्थतां गते ।
प्रभौ तदा सरकारेण स्थानादस्मान्महारवात् ॥३.७.२८॥
उन्मुक्त वायुशुन्यत्वाच्चान्यत्र
वायुसङ्गले ।
स्थाने गतिं शुभां मन्ये एवमुक्तः विशेषतः ॥३.७.२९॥
कलिकाता बहिर्भागे गमनं सुष्ठु रोचते ।
रोगारोग्य मन्यमानस्तद्भक्तानवदञ्च सः ॥३.७.३०॥
श्रुत्वैवं भक्तवर्गास्ते स्थानान्वेषणे
तत्परा ।
द्वित्रदिनाभ्यन्तरे तु मिलितं स्थानमुत्तमः ॥३.७.३१॥
उदीच्यां कलिकातायाः काशीपुराख्य पत्तने ।
श्रीसर्वमङ्गला देव्या मन्दिर समीपतः ॥३.७.३२॥
गोपालाख्यस्य जामातुः कात्यायन्याः सचेत
सः ।
उद्यान वाटिकायामोन सा भक्तः परिकल्पिता ॥३.७.३३॥
वासाय श्रीभगवतो रोगोपशम हेतवे ।
फलपुष्प सुशोभाढ्य बहुवृक्ष समन्विता ॥३.७.३४॥
वृहदुच्च बहुगृहयुता सुप्रसृताङ्गना ।
श्रीरामकृष्ण भक्तानां मातृनामपि संस्थितिः ॥३.७.३५॥
भवेदयत्रानन्दमयी तद्युद्द्यानं महत्तरम् ।
सर्वोपरि ठाकुरस्य वासगेहं सुकल्पितम् ॥३.७.३६॥
ततः कोदण्ड संक्रान्त्याः पूर्वेऽह्नि
शुभचण्डिकाम् ।
श्रीसारदां पुरस्कृत्य श्यामपुष्करिणी गृहात् ॥३.७.३७॥
सर्वमङ्गलं दातारं प्रभुं ते शिविकान्तरम्
।
नीत्वाऽकुर्वत वै यात्रां काशीपुरगृहं प्रति ॥३.७.३८॥
सुखपोलित सन्तानाधनिनां युवकाश्च ये ।
साक्षात् श्रीभूतनाथस्य सेवा भूतगणैर्यथा ॥३.७.३९॥
तथा तत् सेवनेव्यग्राः स्नानाहार
विवर्जिताः ।
कुर्वन्ति भक्तिभावेन भूतमुक्ततायै कृपेप्सवः ॥३.७.४०॥
दृष्टैवं श्रीनरेन्द्रस्तानाहूय सविधे
महान् ।
गीतगाथादिना सर्वान् परितोष्य महामतिः ॥३.७.४१॥
उत्साहवर्द्धनं तेषां कारयामास सुव्रतः ।
ज्ञातमेवं श्रीनरेन्द्रनाथेन विदितात्मना ॥३.७.४२॥
मनस्यानन्दयुक्तानि युवकानां भवन्ति चेत् ।
तर्ह्यस्माकं कार्यसिद्धिर्भवेदेव न संशयः ॥३.७.४३॥
एकोपरि बहुकार्य भारदाने कृते सति ।
नैकमपि सुसम्पन्नं भवेत् कार्यं सुनिश्चितम् ॥३.७.४४॥
अतः सर्वकर्म विज्ञो नरेन्दः श्रेष्ठ
साधकः ॥
एकश्चिकित्सकागारे ह्यौषधानयनाय वा
॥३.७.४५॥
अन्यः पथ्य संग्रहार्थं वित्तार्थं मन्य
एव वा ।
एवं नियोजिताः सर्वे युवकास्ते महात्मना ॥३.७.४६॥
घटीयन्त्रं वारमेकं चालितञ्चेद् जनैर्यदि ।
तर्हि बहुक्षणं यावत् गतिस्तस्य भवेदिति ॥३.७.४७॥
तद्वदत्र भगवतः सेवा तेन प्रचालिता ।
तवस्था गृहिनः सर्वे कुर्वन्नर्थं सहायताम् ॥३.७.४८॥
तदोक्तः श्रीबलरामष्ठाकुरेगण कृपालुना ।
त्वमेव मम पथ्यादिद्रव्यं संयोजयिष्यसि ॥३.७.४९॥
तथोदारबुद्धियुत सुरेन्द्रनाथ सेवकः ।
उक्तस्त्वमस्य गेहस्य स्वामिनं परितोषय ॥३.७.५०॥
गृहीतं सुष्ठु सानन्दं ताभ्यामपि गुरोवचः ।
एवं श्रीठाकुरेनैव व्यावस्था सुनिरूपिता ॥३.७.५१॥
तत्र काशीपुरोद्याने पूर्वतः परमात्मनः ।
सुस्थतामवलोक्यैव भक्तास्तेऽतीव नन्दिताः ॥३.७.५२॥
परन्तु परिचर्यान्ते लिप्ता भजनसाधने ।
नरेन्द्रनाथ प्रमुखा भक्ताः कतिपयाश्चते ॥३.७.५३॥
एकत्र मिलिताः सर्वे भजनीय कथान्तरे ।
भक्तचूडामणिः प्राह भक्तमङ्गल हेतवे ॥३.७.५४॥
नित्यध्यानं वयं कुर्मो गेहाभ्यन्तर
संस्थिताः ।
अद्य भस्मविलिप्तानां नागासन्न्यासिनां सदृक् ॥३.७.५५॥
भजामः श्रीभगवन्तं वासनैषा ममोदिता ।
भस्म वा कुत्र प्राप्सामः संस्कृतं साधुसम्मतम् ॥३.७.५६॥
एवं विचिन्त्य ते सर्वे भक्ता
बालस्वभावकाः ।
तामाकुभस्मं संगृह्य कृत्वा गात्रे विलेपनम् ॥३.७.५७॥
आनीय शुष्कपत्रानि प्रज्वाल्याग्निं
समुज्वलम् ।
पद्मासने चोपविश्य कौपीनमात्र धारिणः ॥३.७.५८॥
नेत्रेनिमल्य ते सर्वे ध्यानमग्नास्तदा
भवन् ।
तत्रान्याहुति योगात् साप्यग्निशिखा व्यवर्द्धत ॥३.७.५९॥
एवं पूर्वसंस्कारजा वासना दग्धतां गताः ॥
तथात्र श्रीठाकुरस्य कृपया कामशून्यताम्
॥३.७.६०॥
प्राप्तवन्तः सेवकास्ते नित्यशुद्ध
चिदात्मताम् ।
मायया देहसम्बन्धी जीवानां सम्भवेदिति ॥३.७.६१॥
अपरोक्षेण ज्ञात्वापि
श्रीनरेन्द्रोऽयमात्मवान् ।
जनकस्य व्यवहारजीविनः स्वर्गमात् परम् ॥३.७.६२॥
चिकिर्षुस्तां
पितृवृत्तिमत्यन्तमाग्रहान्वितः ।
आनीय तदुपयोगि ग्रन्था निर्जन सद्मनि ॥३.७.६३॥
सेवावकाश समये चकार पठनं प्रभोः ।
संसाराभावमुक्तिश्च तयावृत्त्या भविष्यति ॥३.७.६४॥
इतः पूर्वं नरेन्द्रस्य दक्षिणेश्वर
संस्थितिः ।
तदैकस्मिन्दिने देवो नरेन्द्रमिदमब्रवीत् ॥३.७.६५॥
त्वमादौ मातृ भ्रातादेरश्रस्य संग्रहं
कुरु ।
ततोऽहन्त्वां करिष्यामि ज्ञानानन्दं स्वरूपकं ॥३.७.६६॥
यो मरौ भीमकान्तारे पर्वते पथिदुर्गमे ।
नौकां चालयितुं शक्तः को वेत्ति तस्य कोशलम् ॥३.७.६७॥
दुर्बोध्या भगबल्लोला इति शास्त्रस्य
भाषणम् ।
एवं श्रीठाकुरेणोक्तः सेवकानां हिताय व ॥३.७.६८॥
एकस्मिन्दिवसेऽकस्मादुन्मत्तेन समो महान् ।
श्रीनरेन्द्रः समयातः श्रीगिराशस्य सद्मनि ॥३.७.६९॥
एकवस्त्र नग्नपादः पृष्टोहेतु तदावदत् ।
मायामातुर्वियोगित्वाद्विवेक पुत्र सम्भवात् ॥३.७.७०॥
अधुनाऽशौचयुक्तत्वादेवं वेशो मया धृतः ।
गिरीशस्यानुरोधेन विश्रम्य तद गृहे क्षणम् ॥३.७.७१॥
काशीपुरस्थमुद्यानं गत्वा श्रीगुरवे तदा ।
विनिवेद्य स्वमात्मानं प्रभोः श्रीपादपद्मयोः ॥३.७.७२॥
अन्तिकेदण्डवद्भूमौ यावज्जीवं पपात सः ।
श्रीनरेन्द्रो गृहं त्यक्त्वा कैवल्याश्रममाविशत् ॥३.७.७३॥
अधिष्ठानं भगवतो यतो भक्तहृदि ध्रुवम् ॥
तेषां जाति विचारो न कर्त्तव्यं
धार्मिकैजनैः ॥३.७.७४॥
दैवतैरपि पूज्यास्ते भक्ताहि भगवत् पराः ।
अतोऽत्र श्रीनरेन्द्रः श्रीराखालराज सेवकः ॥३.७.७५॥
बाबुरामो योगोन्द्रश्च नित्यसिद्धा
भवन्त्यमी ।
ईश्वरकोटयो ह्येते बुद्धमुक्तस्वरूपकाः ॥३.७.७६॥
उत्तरायण सङ्क्रान्त्यां गङ्गासागरसंगमे ।
स्नात्वा श्रीकपिलं देवं दृष्ट्वा नीलाचले प्रभुम् ॥३.७.७७॥
जगन्नाथमर्चयित्वा कुलिकाताख्यपत्तने ।
दृष्ट्वानन्दमयीं काली कालीघट्टे सभक्तिकम् ॥३.७.७८॥
अत्र भागीरथीतीरे साधुसन्न्यासि भिक्षुकाः
।
स्थित्वा कियद्दिनं सर्वे स्व स्व स्थानं पुनर्गताः ॥३.७.७९॥
भ्राता गोपाल दृष्टैवं प्रभोर्विशिष्ट
सेवकः ।
गैरिकवस्त्र रुद्राक्षमाला कमण्डलूंस्तथा ॥३.७.८०॥
दातुकामः सन्न्यासिभ्यो जिज्ञासिते तदा
प्रभौ ।
प्रभुनोक्तं युवका मे सन्तानाः सन्ति साधकाः ॥३.७.८१॥
सन्न्यासि सहस्रनिभं प्रत्येकं नात्र संशय
।
त्वया सम्पूजितेष्वेषु सिद्धिं प्राप्स्यसि त्वं ध्रुवम् ॥३.७.८२॥
गोपाल भ्राता श्रुत्वैवं ठाकुरस्य वचस्तदा
।
आहूय युवकान् भक्तान् सकलानपि यत्नतः ॥३.७.८३॥
त्याग पवित्रता चिह्नं गैरिकं वसनादिकम् ।
शाङ्करं भूषणं दत्वा शोधितञ्च करैः प्रभोः ॥३.७.८४॥
ते सन्न्यासितमाः सर्वे द्रव्यैस्तैः
परितोषिताः ।
दृष्ट्वा गोपालकृत्यन्तं मुदमाप स ठाकुरः ॥३.७.८५॥
किन्त्वहङ्कार निधनं सुदुष्करं मतं मम ।
श्रीठाकुरो विचिन्तैवं चिकीर्षण मान वर्जितान् ॥३.७.८६॥
भिक्षाटने प्रेरितवान् निर्लिप्तष्ठाकुरो
महान् ।
सन्न्यासि वेशमाश्रित्य यदा सर्वे बहिर्गताः ॥३.७.८७॥
सद्वंशजाः सुशिक्षिताः सन्ताननिचयाः
प्रभोः ।
पातुकामा भगवन्तं सेवा वैराग्यमाश्रितोः ॥३.७.८८॥
विश्वस्य जननी साक्षादन्नपूर्णेव सारदा ।
दृष्ट्वा पादनतान् पुत्रानाशीर्वादं स्वरूपकम् ॥३.७.८९॥
अन्नमर्थञ्च तेभ्योऽदान्माता
किञ्चिन्महेश्वरी ।
भिक्षुकानां न मर्यादा नास्ति मानापमानकौ ॥३.७.९०॥
कटुक्तिः सादरोक्तिर्वा जनानां समतां गते ।
दीनहीननिभा यान्ति भिक्षुकास्ते गृहं गृहम् ॥३.७.९१॥
तथा ते ताडिताः कुत्र कुत्रवासन्
प्रपूजिताः ।
भिक्षालब्धान्धसा माताप्यन्नं सम्पाद्य यत्नतः ॥३.७.९२॥
ठाकुराय ददौ देवी स्वेष्टदेवाय भक्तितः ।
सानन्दं ठाकुरोऽन्नस्य गृहीत्वा भागमग्रिमम् ॥३.७.९३॥
तदन्न सम्वर्धनार्थं धृतवान् मस्तके
प्रभुः ।
लीलेयं श्रीभगवतः सन्तानानर्थं मोचनी ॥३.७.९४॥
इति श्रीरामेन्द्रसुन्दर भक्तितोर्थ विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां श्रेष्ठभक्त श्रीसुरेन्द्रस्य दुर्गापूजा तथा ठाकुरस्य कालीपूजायां कालीरूप धारणं, नरेन्द्रस्य सन्न्यासधर्मं ग्रहणं तथान्य भक्तानामपि मानापमान दूरीकरणरूपोऽन्तालीलायाः सप्तमोऽध्यायः ॥७॥