अन्त्यलीला
ठाकुरस्य रोगवृद्धिः, परमान्नग्रहणे
शूद्रशिष्यं वर्जनम्, खेचरान्न ग्रहनादिः
अन्त्यलीलायां अष्टमोऽध्यायः
अस्माकं क्षुद्रबुद्धीनां चित्ताकर्षण
हेतवे ।
बालवदाचार युतः स्वयं सर्वेश्वरोमहान् ॥३.८.१॥
तस्याभासं ददौ देवः कदचान कदाचन ।
प्रभाते वा दिनान्ते वा भोजने शयनेऽपि वा ॥३.८.२॥
भगच्छरणं कुर्य्यादित्युक्ते ठाकुरेण हि ।
उक्तं गिरोशचन्द्रेण स्वभावदोषतो यदि ॥३.८.३॥
नाहं स्मर्तुं समर्थः
स्यामतस्त्वदवाक्यलङ्घने ।
अपराधी भविष्यामि न सम्भवेदिदं मयि ॥३.८.४॥
एवन्तस्य गिरीशस्य प्रभुः सरलया गिरा ।
प्रीतस्तं समुवाचैवं यदि स्मर्तुं न शक्यते ॥३.८.५॥
तर्हि प्रतिनिधित्वेन वरय मां हि
साम्प्रतम् ।
प्रत्यहं त्वत् स्वरूपोऽहं भूत्वा स्मरामिहीश्वरम् ॥३.८.६॥
एवमुक्ते मगवति गिरोशेनानुमोदितम् ।
स्वस्य यत् करणीयन्तत् सर्वमस्मै समर्पितम् ॥३.८.७॥
किन्तु किञ्चिद्दिचिन्त्यैव
गिरीशस्तत्परक्षण ।
उवाच ठाकुरं तेन यद्यधःपतनं मम ॥३.८.८॥
भवेत्तर्हि तदा कस्य स्मरणं यामि तद्वद।
तं तदा ठाकुरः प्राह स्मितहास्य पुरःसर ॥३.८.९॥
विषहीनस्य सर्पस्य दंशने न विषक्रिया ।
भवेदतोनरः कोऽपि मृत्युं नाप्नोति निश्चितम् ॥३.८.१०॥
किन्तु महा विषधरो यदि जन्तुं प्रदंशति ।
तत्क्षणात्तस्य मृत्युःस्यादत्युग्र विषशक्तितः ॥३.८.११॥
इत्थं मत् कृपया पुत्र तव वैषयिकी क्रियाः
।
सर्वाः प्रशमा मायान्वि त्वन्मनो मयि मज्जति ॥३.८.१२॥
एवं कियद्दिने याते श्रीगिरोशोऽब्रवीद्वचः
।
यातनेदृक् प्रतिनिधौ प्रागह नावबुद्धवान् ॥३.८.१३॥
अधुनाहं प्रपश्यामि सर्वकार्यानुशीलने ।
मदर्थं ठाकुरो नित्यं क्लिशत्यामयवान् यथा ॥३.८.१४॥
धिङमां विगर्हितं सद्भिदुष्कृतं
कुलकज्ज्वलम् ।
योऽहं श्रोगुरवेदत्वां कलुषं नन्दितोभृशम् ॥३.८.१५॥
कदिन्द्रियैः कदाचार रत बन्धुगणैः सह ।
करोमि कुत्सितं कर्मवर्द्धते नोपशाम्यते ॥३.८.१६॥
अपि वैषयिकानन्दमुपभोक्त न शक्यते ।
तस्मात् प्रतिनिधेः श्रेयः प्रातः सायं वरं यदि ॥३.८.१७॥
भगवच्छरणं यामि तत् सुखमिति मे मतम् ।
शिष्यस्य सदगुरोः कृपालाभं शीघ्रं भवेत्ततः ॥३.८.१८॥
अनौरस प्रजाः सर्वा गुरोस्तुल्या भवन्ति
वै ।
प्रयत्नवान् गुरुर्नित्यं शिष्याभ्युदय हेतवे ॥३.८.१९॥
ज्ञातवांष्ठाकुरश्चेत्थं दिक्पाला
भवेयुर्ध्रुवम् ।
शिव्या मे ध्यानयोगेन यतस्तन्मयतां गताः ॥३.८.२०॥
तथाप्येषां कमप्येकं सर्वश्रेष्ठ
गुणान्वितम् ।
अत्युच्च साधनासिद्धं कर्तुं शक्नोमि चेदहम् ॥३.८.२१॥
भाविनि समये तेन बहूनां मङ्गलं भवेत् ।
तस्मादाजन्मववैराग्य ध्यानवन्तं नरोत्तमम् ॥३.८.२२॥
श्रीनरेन्द्रनाथ शिष्यं
विशेषेणोपदिष्टवान् ।
यैः साधनैः सिद्धिलाभं चकार भगवान् स्वयम् ॥३.८.२३॥
तत् सर्वं साधनामार्गं नरेन्द्राय
प्रदत्तवान् ।
यदा श्रीठाकुर आसीद्दक्षिणेश्वरधामनि ॥३.८.२४॥
मातृभावोपलब्ध्यार्थं शक्तिमन्त्रेण
दीक्षितम् ।
अकरोदयं श्रीठाकुरः सोऽयमद्यान्यरूपकः ॥३.८.२५॥
भगवतः पितृभावोपलब्धिकाम्यया तदा ।
जना यदा सुप्तिमग्ना निशीथेऽति भयङ्करे ॥३.८.२६॥
उद्यानस्य चर्तुदिक्षुस्तदासौ रामनामभिः ।
तदुद्यानं मुखरितं कृत्वा नरेन्द्र साधकः ॥३.८.२७॥
उन्मत्तवद्विचरतिबिज्ञायेदं प्रभुस्तदा ।
स्वसकाशे समानीय भावावेशित चेतसे ॥३.८.२८॥
प्रददौ तारकब्रह्म रामनाम चिदात्मकम् ।
असाधारण शिष्याय नरेन्द्राय सुयोगिने ॥३.८.२९॥
वैराग्यमवतारस्य बुद्धदेवस्य चैकदा ।
श्रीनरेन्द्रः समालोच्य सुचिन्तां कृतवानिमाम् ॥३.८.३०॥
ममोपरि ठाकुरस्य स्नेहोऽपि बन्धनं मम ।
यत्र स्नेहो भयं तत्र स्नेहोदुःखस्य कारणम् ॥३.८.३१॥
स्नेह मूलानि दुःखानि तस्मिंस्त्यक्ते
महत् सुखम् ।
सन्त्यज्यठाकुरस्नेहं स्थित्वान्यत्र सुनिर्जने ॥३.८.३२॥
तत्र तपश्चरिष्यामि ठाकुरं प्राणपातिकम् ।
यदि दृग्गोचरो नस्यादीश्वरो मे तपस्यया ॥३.८.३३॥
जीवनान्तं करिष्यामि तदैवाहं न संशयः ।
एवं व्यवसाय मतिः श्रीनरेन्द्रः प्रभोः प्रियः ॥३.८.३४॥
बुद्धगयां गतः साधुर्नोक्त्वा कमपि किञ्चन
।
सिद्धक्षेत्रं मन्यमानस्त्यक्ता तं गुरुसन्निधिम् ॥३.८.३५॥
तेन काशीतारकश्च सोदर्य प्रतिमा वुभौ ।
साधुसङ्गं मन्यमानौ गतवन्तौ मुदान्वितौ ॥३.८.३६॥
बुद्धगयां गतास्तेतु दिनानि कतिचित् सुखम्
।
स्थित्वाद्वैतमतेनैव चक्रुस्ते ब्रह्मसाधनम् ॥३.८.३७॥
यदातैः श्रीठाकुरस्याकर्षणं विदितं महत् ।
श्रीनरेन्द्रस्तदोवाच दुःखाकुलित चेतसाम् ॥३.८.३८॥
सिद्धिं न विन्दते कोऽपि बहुयत्नयुतोऽपि
सन् ।
प्रभोः कृपा विनान्यत्र कुत्रापि कामपि ध्रुवम् ॥३.८.३९॥
एवं सलज्वितोभूत्वा त्यक्त्वा बुद्धगयां
सुधीः ।
पुनः प्रत्यागतस्तत्र यत्र देवो विराजितः ॥३.८.४०॥
अथैकस्मिन दिनेऽप्यत्र दुःखान्तकरण प्रभुः
।
स्व सन्निध्यौ स्थितं कञ्चिद् युवकं शिष्यमब्रवीत् ॥३.८.४१॥
पश्य भोः श्रीनरेन्द्रोऽयमति चाञ्चल्यभाग्
यतः ।
पीडितं सम्परित्यज्य नोक्ता मामपि किञ्चन ॥३.८.४२॥
काशी तारकयुक्तोऽसौ गतवानिति मे श्रुतम् ।
अर्भकमिव तं देवं युवकः शान्तवागसौ ॥३.८.४३॥
प्रोवाच परमानन्दं हित्वा त्वां कुत्र
यास्यति ।
श्रीनरेन्द्रो महाभागः शीघ्रमेष्यति निश्चितम् ॥३.८.४४॥
न चिन्ता नापिशङ्काच भवतस्तत् कृते
ध्रुवम् ।
सर्वान्दप्रदं पादपद्मं तव सहास्यति ?॥३.८.४५॥
श्रुत्वा श्रीभगवांस्तस्य युवकस्य
सुभाषितम् ।
आनन्दसिन्धु मग्नोऽभूदीषद्धास्य पुरःसरम् ॥३.८.४६॥
उवाच पुनरेवेदं सत्यमुक्तं त्वया सुत ।
आम्रतले विल्वतले पनसस्थतलेऽथवा ॥३.८.४७॥
यत्र कुत्रस्थितिर्वापि सा स्थितिर्नास्ति
कुत्रचित् ।
गुरोस्तस्य पादमूले स्थितिरेव भवेद्ध्रुवा ॥३.८.४८॥
मत् कर्म साधनार्थाय चानीतो जगदम्बया ।
यः स कथं परित्यज्य मामन्यत्र गमिष्यति ॥३.८.४९॥
अतस्तस्य गतिः पश्चान्ममैव सर्वदा भवेत् ।
यस्मिन्नरेन्द्रस्य गते युवकेनाहनि प्रभोः ॥३.८.५०॥
कथोपकथनञ्चासीत्तच्चतुर्दिनतः परम् ।
यथा कठिन दण्डार्होऽपराधशत सङ्कुलः ॥३.८.५१॥
तादृक् प्रभोः समोपे स नरेन्द्रो मुख्य
सेवकः ।
पादमूले गुरोस्तस्य पतितः सम्वभूव ह ॥३.८.५२॥
एवन्तस्य नरेन्द्रस्य स्वाहङ्कारे गते सति
।
सुनिर्मलमभूत्तस्य हार्दाकाश सुयोगिनः ॥३.८.५३॥
ज्ञातं श्रीठाकुरेणेत्थं श्रीनरेन्द्रो
गते मयि ।
मदीयामृतवाक्यानां संरक्षिष्यत्ययं युवा ॥३.८.५४॥
ब्राह्म समाज सभ्यत्वाद्देवी मूर्त्तेः
सुचिन्तनम् ।
पूजनं वा नरेन्द्रस्य कदापि तन्न संभवेत् ॥३.८.५५॥
किन्तु ठाकुर सम्पर्कान्मातृ मूर्त्तः
समीक्षणात् ।
मातृ भक्तिः सुसञ्जाता कालिकायां विशेषतः ॥३.८.५६॥
परन्तु कालिका मातु रूपविश्यान्तिके हि सः
।
प्रार्थनामकरोन्नित्यं गलवस्त्रः कृताञ्जलिः ॥३.८.५७॥
देहि विवेकं वैराग्यं मातर्मह्यं महेश्वरि
।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३.८.५८॥
पुत्रे सूच्च पदारूढे यथाप्नोति पितासुखम्
।
श्रीनरेन्द्र तथादेव्याः प्रपन्ने ठाकुरोऽपि च ॥३.८.५९॥
प्राप्तवान परमानन्दं ननर्ता धीरतां गतः ।
एवमलौकिकीं शक्तिं दर्शयामास तं तदा ॥३.८.६०॥
ठाकुरेण यदा दृष्टो नरेन्द्रः साधनोद्यमौ ।
यत्र यद्रूप साधनमकरोद्भगवान स्वयं ॥३.८.६१॥
तद्रूपं साधनं तव कुर्त्तमुपदिदेश सः ।
श्रीमन्नरेन्द्रस्य तदा शङ्खकुण्डल धारणम् ॥३.८.६२॥
योगसिद्ध्यै धारणीयमिति मत्वा महाप्रभुः ।
ज्ञात्वा कालात्ययं देवः शङ्खकुण्डल संग्रहे ॥३.८.६३॥
मृत्कुण्डलं घटयित्वा कर्णयोरतिशोभनम् ।
धारणं कारयामास बुद्धदेवानुसारतः ॥३.८.६४॥
आशीर्वादः कृतस्तेन प्रभुनानन्द चेतसा ।
बुद्धवद् योगसिद्धिः स्यात्तव मे सुप्रसादतः ॥३.८.६५॥
किन्तु घोर निशाकाले तत्र पञ्चवटी तले ।
पञ्चमुण्ड्यासने स्थित्वा साधनं दुखदं भवेत् ॥३.८.६६॥
भीति विघ्नमये स्थाने दक्षिणेश्वरधामनि ।
यत्र श्रीजगदम्बायाः पीठरक्षक भैरवः ॥३.८.६७॥
विराजितः सर्वदैव साधकानां भयावहः ।
अतः स्व प्राणतुल्यन्तं नरेन्द्र हि तदा प्रभुः ॥३.८.६८॥
सार्द्धं हुट्को गोपालेन निर्भीक सेवकेन
हि ।
तत्र महापीठ मध्ये प्रेषयामास तं तदा ॥३.८.६९॥
गत्वा यत्र नरेन्द्रोऽपि महापीठे यथाविधि ।
सिद्धासने चोपविश्य सप्ताहाभ्यन्तरे सुधीः ॥३.८.७०॥
ठाकुरस्यानुग्रहे न सिद्धिं लब्धा महामतिः
।
पुनः प्रभोः पादमूले तत् सर्वं समवर्णयत् ॥३.८.७१॥
वार्तास्ति काचिदेवं सा भूरिभोक्ष्यति यः
सूतः ।
ततोऽधिकं प्रार्थयति खादितुं पितुरन्तिके ॥३.८.७२॥
तद्वदत्र नरेन्द्रोऽयं ठाकुरस्यान्तिके
सदा ।
साधनासिद्धिमाप्तोऽपि वदत्यैवं पुनः पुनः ॥३.८.७३॥
अहं' ब्रह्मत्यभिध्यानं समाधिरिति गीयते ।
स्वरूपन्तस्य कृपया वद मां भक्तवत्सल ॥३.८.७४॥
यदनुष्ठानतो मे स्यात् समाधि निर्विकल्पकः
।
श्रुतं मया साधकस्य स एव मोक्षरूपकः ॥३.८.७५॥
सर्वोच्च साधना सा तु यया स्यादपरोक्षकम् ।
ब्रह्मदर्शनरूपन्तद वशिष्ठ व्यास सम्मतम् ॥३.८.७६॥
श्रुत्वैवं ठाकुरः मोह नरेन्द्रं
श्रेष्ठसाधकम् ।
भविष्यति यथाकाले साम्प्रतं सुस्थिरो भव ॥३.८.७७॥
किन्तु भविष्यति कदा कथं वा तत् प्रकारकः ।
किञ्चित् ठाकुरेणोक्तमाश्वास वाक्यं केवलम् ॥३.८.७८॥
अथैकस्मिन्दिने योगीध्यानमग्नो यदा भवत् ।
तदा तस्य नरेन्द्रस्य स्थूल देहाद्विनिर्गतः ॥३.८.७९॥
सूक्ष्म देहो गतस्तस्यसूच्च चित्सुखधामनि ।
काष्ठपुत्तलिका तुल्यं तदा जडवपुः स्थितम् ॥३.८.८०॥
दृष्ट्वैवं भ्राता गोपालः सत्त्वरं यत्र
ठाकुरः ।
तत्र गत्वावदत् सर्वं ठाकुरं भक्तिपूर्वकम् ॥३.८.८१॥
नरेन्द्रस्य निर्विकल्प समाधिं श्रुतवान्
यदा ।
तदा परममानन्दं लेभ परमठाकुरः ॥३.८.८२॥
उवाच चोत्तमं भूतं यूयं सर्वे प्रपश्यत ।
न तस्य कोऽपि चाञ्चल्यं जनयेद योगिनोऽधुना ॥३.८.८३॥
एतदर्थं चञ्चलं मां श्रीनरेन्द्रो यदा तदा
।
सा माताप्यकरोत्तस्मै काली कैवल्यदायिनी ॥३.८.८४॥
निर्विकल्पं समाधिं तं दत्तवत्यनुकम्पया ।
येन मे वासना पूर्णं कृतञ्च जगदम्बया ॥३.८.८५॥
अधुनानेन रूपेण तिष्ठतु मम पुत्रकम् ।
लोकवत् स्वस्यलीलां तां दर्शयामास ठाकुरः ॥३.८.८६॥
भगवत् कृपया वापि प्राणपति तपस्यया ।
वारमेकं यदि भवेत् समाधि निर्विकल्पकः ॥३.८.८९॥
योगिनो घोरसंसारे मनस्तस्य न मज्जति ।
परन्तु चुम्बकाकृष्ट लोहखण्ड निभं भवेत् ॥३.८.८८॥
योगिनः श्रीनरेन्द्रस्य तद्रूपमभवत्तदा ।
स्वयं भगवतो यस्य यदर्थमिह सङ्गतिः ॥३.८.८९॥
कृपाकणा बलात् यस्य नरेन्द्रोऽद्वैत
सिद्धिमान् ।
अतस्तदिच्छयैवासौ दग्धवस्त्र धृतो यथा ॥३.८.९०॥
श्रीनरेन्द्रः पुनर्बाह्यविषये लिप्तता
गतः ।
प्राप्तार्थं पादरेणुनां पदप्रान्तं प्रभोर्यदा ॥३.८.९१॥
समागतः श्रीनरेन्द्रष्ठाकुरं प्राह सन्नतः
।
तत्त्वमस्यादि वाक्यस्य तात्पर्यं यत् परम्पदम् ॥३.८.९२॥
तूरीय ब्रह्मशब्दितमवाङ् मनसगोचरम् ।
यतो वाचोनिवर्तन्ते अप्राप्य मनसा सह ॥३.८.९३॥
केवलानुभवानन्द स्वरूप ब्रह्मबस्तुनः ।
आनन्दं त्वामहञ्चाद्य स्वाद पूर्णमलभ्यम् ॥३.८.९४॥
त्वदर्थमेव नान्यार्थमसावानन्दरत्नराट् ।
हार्दाकाश पेटिकाया अन्तरे यत्नतः सुत ॥३.८.९५॥
संरक्षितो मयाचाद्य जानीहि त्वं
सुनिश्चितम् ।
पुनर्यदा मदीयेहा भविष्यति पुन ध्रुवम् ॥३.८.९६॥
तुभ्यं समाधिं दास्यामि
निर्विकल्पस्वरूपकम् ।
अस्यां दशायां कर्त्तव्यं विशुद्धाचणं बुधैः ॥३.८.९७॥
किं न पश्यथ यूयं भो जटाभस्मविभूषिताः ।
सन्न्यासिनः सदा सन्ति विशुद्ध शुचिसन्निधौ ॥३.८.९८॥
विशुद्ध फलमूलादिकृताहाराः सुयोगिनः ।
तेन तेषां चित्तशुद्धिः सुलभा भवति ध्रुवम् ॥३.८.९९॥
ततो ध्रुवा स्मृति
प्राप्तिर्ययास्यान्निर्विकल्पकः ।
समाधिः सर्वग्रन्थीनां विप्रमोक्षस्ततो भवेत् ॥३.८.१००॥
श्रुत्वैवं श्रीनरेन्द्रस्तु केवलं पौरुष
प्रियः ।
तत्र तेन बहुतरा कृताचेष्टा प्रयत्नतः ॥३.८.१०१॥
न लेभे तं समाधिन्तु नरेन्द्रो मुख्यसेवकः
।
एवं गते बहुतिथे तिरोधानात् परं प्रभोः ॥३.८.१०२॥
तीर्थ श्रेष्ठ हृषीकेशक्षेत्र कुब्जाम्रके
यदा ।
स्थितो योगी तपस्यार्थे तत्रैकस्मिन्दिने तदा ॥३.८.१०३॥
ध्यानैक मनसस्तस्य बाह्मज्ञान विलुप्ततां ।
गतस्य देहयन्त्रस्य भूतले पतितस्य च ॥३.८.१०४॥
निस्पन्दामूर्ध मणिरपि न स्पन्दते
नेत्रयुग्मम्
नासाश्वासानिल विरहितं जीवनं नोपलब्धम् ।
शङ्कास्माकं समभवदियं मृत्यु नाग्रस्यमानः
त्यक्ता देहं परमभवनं याति यन्त्री यशस्वी
॥३.८.१०५॥
सर्वे चैवं पदनखरतो जानु जङ्घोदरादिम्
वक्षः कण्ठः सुनयनयुगं भाल नासादिकांश्च ।
उद्वीक्ष्यैतान्न खलु विकलान् मन्यमानांस्तदैवम्
अत्युच्चैस्तत् खलु विकलान् भगवतो
रामकृष्णस्य नाम ॥३.८.१०६॥
घस्रे रात्रौ श्रवणकुहरे भूय एवालपन्तम्
सज्ञां लब्धा खलु परदिने
सर्वलोकांस्तदीयान् ।
प्रोवाचैवं मम भगवतो भूय एवाऽशीषाद्य
नीवाकोऽयमभदहो निर्विकल्प स्वरूपः
॥३.८.१०७॥
स्कन्दपुराणस्य मध्ये केदारखण्ड नामके ।
अध्यायेऽस्ति पुण्यकथा रैभ्युदेवतपस्यया ॥३.८.१०८॥
सन्तुष्टो भगवानासीद्धृषीकेशे स्वधामनि ।
आम्रस्याभ्यन्तरे स्थित्वा भगवान् कुब्जरूपकः ॥३.८.१०९॥
स्वरूपं दर्शयित्वा तं रैभ्युदेवं
तपस्विनम् ।
तद्वाञ्छित वरं तस्मै दत्वा चैवमुवाच तम् ॥३.८.११०॥
क्षेत्रेऽस्मिन् यः प्राणपातं तपश्चरति
मन्मनाः ।
आशुसिद्धिर्भवेत्तस्य ददाम्येतद्वरञ्च भो ॥३.८.१११॥
तत्कालतो हृषीकेश तीर्थस्यास्य तपस्विनः ।
कुब्जाम्रक क्षेत्रमिदं नाम सुन्दरमाददन् ॥३.८.११२॥
बद्रिनारायण द्वाराद्धरिद्वार इति स्मृतः ।
केदारनाथ द्वारत्वाद्धरिद्वारोऽपिमन्यते ॥३.८.११३॥
यत्र भागीरथी गङ्गा सप्त स्रोतस्वती सती ।
मिलितासीद्ब्रह्मकुण्डे गङ्गाद्वारोऽपि तं विदुः ॥३.८.११४॥
प्रायेणोक्तं ठाकुरेण
शास्त्रसिद्धान्तमुत्तमम् ।
कृत्वाऽद्वैतसम्विदर्थं सुसम्वद्धं पटाञ्चले ॥३.८.११५॥
यथेष्टाचार निरतो भव तेन न दोषभाक् ।
आहार व्यवहारादि जप पूजादिकादि च ॥३.८.११६॥
यदि भवेद्विपरीतं सर्वमद्वैतभानतः ।
सम्पूर्ण पूर्णतां प्राप्तं योगिनो भवति ध्रुवम् ॥३.८.११७॥
प्रभोः श्रीमुखपद्माच्चश्रुतं सेवकसत्तमैः
।
श्रीनर्मदा नदीतीरे कुटीरे निर्जने सदा ॥३.८.११८॥
ध्याननिष्ठः पुरी तोता त्रिचत्वारिंश
वत्सरे ।
निर्विकल्प समाधिं तं प्राणपाति परिश्रमैः ॥३.८.११९॥
अलं बभूव सम्प्राप्तुमतिकृच्छ गतोपि सः ।
ठाकुरस्य समाधिः स सर्वाश्चर्यमयस्य तु ॥३.८.१२०॥
निमेषकालमध्येऽभून्निर्विकल्प स्वरूपकः ।
येन दिनत्रयं यावदेकरूपेण संस्थितिः ॥३.८.१२१॥
अतीवाश्चर्य विषयः सर्वस्मादयमुत्तमः ।
बहिश्चर प्राणतुल्य नरेन्द्रं श्रेष्ठ सेवकम् ॥३.८.१२२॥
समाधेर्निर्विकल्पस्य रसस्यास्वादन पुनः ।
कारयित्त्वा श्रीभगवान् कृपया मम ठाकुरः ॥३.८.१२३॥
सुस्पष्टं दर्शयामास तद्विष्णोः परमं पदम्
।
अत्यन्त यत्नशीलानां सेवकानां महात्मनां ॥३.८.१२४॥
शुश्रूषाया भगवतस्त्रुटिः स्वल्पा न
चाभवत् ।
वपुषः क्षीण शक्तित्वाद्वक्त भावनयाथवा ॥३.८.१२५॥
उद्यानवाटिकामध्ये वर्षा प्रावल्यतोऽपि वा
।
रोगवृद्धिस्तदा जाता यत् क्षतचान्तरे स्थितम् ॥३.८.१२६॥
तत्क्षतं वाह्य देशेऽपि सम्पूर्ण
दृश्यताङ्गतम् ।
सह तेन च रक्तस्य क्षरणेन तदा प्रभोः ॥३.८.१२७॥
यातना स्व शरीरस्य सम्पूर्णं वृद्धिमागता ।
चिकित्सकेन विज्ञेन यद्यपि सुचिकित्सितः ॥३.८.१२८॥
तथाप्यष्ट मासकले पायेन गतवत्यपि ।
आशानुरूप रोगस्य प्रश्मो नोपलक्ष्यते ॥३.८.१२९॥
एवमुद्विग्न चेतोभिर्भक्तवर्गैः
सुचिन्तितम् ।
रोगपरीक्षणञ्चास्य कर्तव्यं सुचिकित्सकैः ॥३.८.१३०॥
विचिन्तैवं महाभागाः सेवका भगवत् पराः ।
नगर्याः कलिकाताया रोगारोग्य निकेतनात् ॥३.८.१३१॥
सर्वश्रेष्ठ रोगवेदी कोटस् साहेवेति नामकः
।
तत्रानीतः ससम्मानं सेवकैर्यत्न ठाकुरः ॥३.८.१३२॥
स श्वेताङ्गभिषक् तस्य कण्ठनाली परीक्षणे ।
अङ्गुलीभिः समाक्रान्ते ठाकुरस्य गले यदा ॥३.८.१३३॥
कठोर यातनायुक्तः श्वेताङ्गं
ठाकुरोऽब्रवीत् ।
क्षणं तिष्ठाधुना तात इदमुक्त्वास्वभावजम् ॥३.८.१३४॥
निर्विकल्प समाधिं तं तत्क्षणात् प्राप
ठाकुरः ।
ततस्तं श्वेताङ्ग भिषक् परीक्ष्येच्छानुसारतः ॥३.८.१३५॥
उवाच क्यान्सार रोगोऽसाध्य : प्राणविघातकः
।
कण्ठनाली क्षताज्जातोनौषधञ्चास्य विद्यते ॥३.८.१३६॥
अविराममैमेश्वरिकी वार्त्तायां धर्मयाजकाः
।
रतास्तस्मादियं पीडा सञ्चनिष्यति निश्चितम् ॥३.८.१३७॥
गलमध्यस्थ झिल्लीनां शिराणामति सूक्ष्मया ।
उत्तेजनातुत्पत्तिर्भवेदस्यामयस्य हि ॥३.८.१३८॥
देशेऽस्माकमिमं रोगं बहुजल्पि महात्मनः ।
धर्मयाजकस्य रोगः कण्ठरोगो वदन्ति ते ॥३.८.१३९॥
उग्रमौषधमस्माकं न प्रयोज्य कदाचन ।
एतादृश्यामवस्थायां भूरिक्लेशो भविष्यति ॥३.८.१४०॥
अतो यादृक् चिकित्सास्य रोगिनः
प्रचलिष्यति ।
सैवशुभकरी ह्यस्य भविष्यति न संशयः ॥३.८.१४१॥
वक्तव्यं यत्तदुक्तं मे किन्तु
किञ्चिद्वदामि वः ।
तच्छृनुध्वं महाभागा भवन्तो गुरु जीवनाः ॥३.८.१४२॥
अत्याश्चर्यमयञ्चेमं रोगिनमीशरूपकम् ।
प्रथमं दृष्टवानत्र जीविते भो महाजनाः ॥३.८.१४३॥
बाइबेलाख्य धर्मशास्त्रे पठितमेव केवलम् ।
तत्र प्रभोरोशामसी नामकस्यार्य रूपिणः ॥३.८.१४४॥
ईशचर्चा प्रसङ्गेनाभवदीदृक् समाधिजः ।
स्वदेहस्मृति विध्वंशरूपोभावः समुत्थितः ॥३.८.१४५॥
किन्त्वद्यास्यभगवतः साचाद्दृष्टः
स्वचक्षुषा ।
अत्यल्प समयेनायं जहौ देहात्मधिषणाम् ॥३.८.१४६॥
परन्त्वस्य स समाधिरघुनापि न मुञ्चति ।
अस्यैव दर्शनेनाद्य कृतार्थोऽहं भवामि वै ॥३.८.१४७॥
परन्तु पारिश्रमिक ग्रहनात् कलुषीकृतम् ।
करं न कारयिष्यामि सम्मतिरित्थमेव मे ॥३.८.१४८॥
मदुपार्जित वित्तानां किञ्चिद्दातुं
प्रभुं यदि ।
तदाहं नूनमेष्यामि कृपामीशस्य शान्तिदाम् ॥३.८.१४९॥
एवमुक्ता जगमासौ डाक्तारः श्वेतविग्रहः ।
स्व जन्म सफलं ज्ञात्वा भगवद्भाव भावितः ॥३.८.१५०॥
इति श्रीरामेन्द्र सुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां ठाकुरो नरेन्द्रनाथं काशीपुराद्दक्षिणेश्वरे तपस्यार्थं प्रेरितवानं तत्र पञ्चमुण्ड्यासने सप्ताह कालमध्ये नरेन्द्रस्य साधना सिद्धिर्जाता ततष्ठाकुर समीपे निर्विकल्प समाधि प्रसङ्गेन हृषीकेश वृत्तान्त वर्णनम् । ततः श्वेताङ्ग चिकित्सकस्य कृतार्थतारूपोऽन्त्यलीलाया अष्टमोऽध्यायः ॥८॥