अन्त्यलीला
नरेन्द्रस्य गुरुकृपाप्राप्तिः
अन्त्यलीलाया एकादशोऽध्यायः
देवदानवगन्धर्वदैतेयनरराक्षसाः ।
सर्वे तपःप्रभावेन काम्यं विन्दन्ति यस्य यत् ॥३.११.१॥
तपसा सृजति ब्रह्मा विष्णुः पालन
शक्तिधृक् ।
हरोहरति नित्यं हि तप एव परं बलम् ॥३.११.२॥
तपोमयं तपोराशिं तपो मूर्तिं तपात्मकम् ।
तपसैव सुतस्तेन विन्दन्तिं परमं पदम् ॥३.११.३॥
यशः सौख्यं धनं पुत्रं ज्ञानं विज्ञानमेव
च ।
प्राप्नुवन्ति महात्मानो जनाः सर्वे तपस्यया ॥३.११.४॥
भगवानपि विश्वात्मा सर्वकामवरेश्वरः ।
तपश्चरति नित्यं हि ब्रह्म रुद्रादि देवतैः ॥३.११.५॥
स्वस्वाधिकारं रक्षार्थं कुर्वन्ति तप
उत्तमम् ।
कृतादियुगपर्याये ऋषीणां पुण्य आश्रमः ॥३.११.६॥
तपसो ब्रह्मविद्यायाः क्षेत्रमासीत्
सुनिर्मलम् ।
बौद्ध युगे सौगतानामालयो धर्ममन्दिरम् ॥३.११.७॥
शङ्करस्य भगवतः शुभाविर्भावतः परम् ।
धर्मस्थानं मठ इति व्याहृतं ब्रह्मवादिभिः ॥३.११.८॥
ततोऽनार्य जातीयानां राज्ञां शासनतः सुराः
।
भयभीताः सदासर्वे शास्त्राचार सुरक्षणे ॥३.११.९॥
शैथिल्यभावमाप्तास्ते प्राणपाति परिश्रमैः
।
धर्मं संरक्षणार्थाय केचिद्ब्राह्मणपण्डिताः ॥३.११.१०॥
नवद्वीप रामनाथ जगदीश गदाधराः ।
सर्वे वैषयिकं भावं त्यक्त्वा शास्त्रानुशीलिनः ॥३.११.११॥
चतुष्पाठीति संज्ञां ते प्रदाय वेदरक्षकाः
।
धर्मस्य विमलं स्थानं कृतन्तैस्तत्र पण्डितैः ॥३.११.१२॥
बहु शिष्यावृताः सर्वे
सर्वशास्त्रविशारदाः ।
सर्वेषां शान्तिलाभाय सद्धर्मपालनाय च ॥३.११.१३॥
यावज्जीवं पण्डितास्ते शास्त्रचर्चा
प्रसङ्गतः ।
भगवन्तं समाश्रित्य परां गतिमवाप्नुयुः ॥३.११.१४॥
अतः श्रीभगवानाह सव्यसाचिनमाहवे ।
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ॥३.११.१५॥
न स सिद्धिमवाप्नोति न सुख नपरां गतिंम् ।
तस्मात् शास्त्रं प्रमाणन्ते कार्याकार्य व्यवस्थितौ ॥३.११.१६॥
ज्ञात्वा शास्त्रविधानोक्तं
कर्मकर्तुमिहार्हसि ।
शिक्षादानं भगवता न केवलं कृतं स्वयम् ॥३.११.१७॥
ब्रह्मनारायण रुद्राः
सृष्टिस्थित्यन्तकारिणः ।
तत्तत् स्थानस्थिताः सर्वे तपश्चेरुरलौकिकम् ॥३.११.१८॥
योऽसौ श्रीभगवाननादि निधनः
सर्वेश्वरश्चिन्मयः
पूज्यात् पूज्यतमः सुखैकनिलयः सर्वार्थदः
श्रीहरिः ।
सर्वान्स्तद्विमुखाञ्जनान् करुणयाकर्तुं सुभक्त्यन्वितान्
धृत्वा योगतनुं तपश्चरति वै वद्री विशालां
श्रितः ॥३.११.१९॥
तद्वद्दाह सरोवरेक वसति कृत्वेश्वरः
शङ्करः
जप्त्वा श्रीहरिनाम
मन्त्रममलञ्चाभूत्तपस्या रतः ।
श्रीदुर्गापि कुमारिकाख्य जलधेस्तौरस्थिताः शांम्भवम्
कौमारीं तनुमाश्रिता कृतवती तीव्रं
तपोऽलौकिकुम् ॥३.११.२०॥
एकदा ठाकुरेणोक्तं वृक्ष पर्वत सन्निधौ ।
लीलाक्षेत्रं भगवतो भवेन्नैव कदाचन ॥३.११.२१॥
लीलामयः श्रीभगवान स्वभक्तैः सह सर्वदा ।
करोति विविधां लीलां जगन्मङ्गल हेतवे ॥३.११.२२॥
रसस्वरूपो भगवान् लीला तस्य रसात्मिका ।
अतस्तद्रसमसम्भोगे भक्ता एवाधिकारिणः ॥३.११.२३॥
भगवद्भावनायुक्तास्त एव महिमान्विताः ।
माहात्म्यस्य मगवतः प्रचारे पटवः सदा ॥३.११.२४॥
प्रायेण दृश्यते चैव मानवाः सर्व एव हि ।
बर्हिविषय संलिप्तानपश्यन्त्यन्तराशय ॥३.११.२५॥
या सुधाभ्यन्तरे भाति मानवानां विशेषतः ।
देह व्यापत्तिकालेऽपि पातुं नेच्छन्ति तां जनाः ॥३.११.२६॥
परन्तु न प्रष्टुमपि शक्नुवन्ति दुराशयाः ।
बोधार्थं भक्तवर्गानां पुनरन्यदिने प्रभुः ॥३.११.२७॥
उद्दिश्य भगल्लीलामब्रवीदनुकम्पया ।
यदा विरासीद्भगवल्लीलार्थमवनी तले ॥३.११.२८॥
तदैव देवतावर्यास्तल्लीलास्वाद हेतवे ।
स्वं स्वं लोक परित्यज्य तत्रैव मिलिताश्चिरम् ॥३.११.२९॥
विहाय दयितान् सर्वान् स्वजनान् भगवानानि
च ।
भूत्वा तत् सेवकाः सर्वे पादमूलमुपागताः ॥३.११.३०॥
अतः श्रीठाकुरस्यै ते लीलासहचराथा ।
ध्रुवमेतेऽमराः सर्वे' भवन्ति मानबा न तु ॥३.११.३१॥
अपरस्मिन्दिने प्राह भगवान् भक्तवत्सलः ।
सामान्य भक्ततुल्यो न भवेन्नरेन्द्र सेवकः ॥३.११.३२॥
नरनारायणाख्यस्य ऋषेर्योनर संज्ञकः ।
स एव श्रीनरेन्द्रोऽयं महामुयाप्रसादतः ॥३.११.३३॥
भगवद्भक्तसम्भूत आसोत्तत् प्रीति हेतवे ।
मह्यं शुस्रूषवे गानं मातुः श्रावयतीच्छया ॥३.११.३४॥
पितास्य विश्वनाथाख्य दत्तवंश समुद्भवः ।
अनाडम्बर दाताऽसौ पात्रापात्रे विचार्य न ॥३.११.३५॥
प्रार्थिभ्यो दत्तवान्नित्यं वित्तं यत्
कृच्छ्र सञ्चितम् ।
यदि कश्चिज्जनोऽप्येवमपात्रमवलोक्य च ॥३.११.३६॥
वदत्य कथं दत्तमपात्राय धनं त्वया ।
तदा तदुत्तरं वाक्यमुक्तं तेन महात्मना ॥३.११.३७॥
संसारोऽयं दुःखपूर्णीमद्वित्तेन क्षणं यदि
।
आनन्दं विन्दते प्रार्थी न तत्र विघ्नमाचर ॥३.११.३८॥
भुवनेश्वरी माताऽस्य साक्षात्
श्रीभुवनेश्वरी ।
देवद्विज भक्तिमती भगवद्व्रतधारिणी ॥३.११.३९॥
अयं निजः परो वेति न जानाति महीयसी ।
यस्य मातुः पितुश्चैवमौदार्यं मनसो महत् ॥३.११.४०॥
तत् पुत्र यशसा धन्या धरणी हि भविष्यति ।
आविर्भाव पुर्वाभासाल्लक्षितमस्य सज्जनैः ॥३.११.४१॥
अनेकैरेव विज्ञातं वाराणस्यां विराजितः ।
वीरेश्वरो महादेवो ह्यपुत्र पुत्रदायकः ॥३.११.४२॥
नावलोक्य पुत्र सुखं माता श्रीभुवनेश्वरी ।
आत्मीयाया किलादेशात् कलसशत सङ्ख्यकैः ॥३.११.४३॥
गङ्गाजलैः पूर्यमानैः श्रीवीरेश्वर
संज्ञकं ।
शिवलिङ्गं स्नापयित्वा कृतकृत्या बभूव सा ॥३.११.४४॥
ततः पुत्रोऽभवत्तस्या जगम्मङ्गल कारकः ।
साक्षाद्रूद्रावतारस्य रामदासस्य सन्निभः ॥३.११.४५॥
नामास्य सादरेनोक्तं वीरेश्वर वीरे विले ।
तथाप्यन्नप्राशनस्य समयेऽस्य महामतिः ॥३.११.४६॥
श्रीनरेन्द्र नाथ इति शुद्ध नामाकरोत्
पिता ।
पुत्रोऽयमुदितस्तस्य कन्यां चतुष्ठयात् परम् ॥३.११.४७॥
अतोऽयमर्भकः पित्रोर्बभूवादरभाजनम् ।
अत्यादर लालितत्वादीप्सितं नो गतो यदि ॥३.११.४८॥
गृहद्रव्याणि सर्वाणि निःक्षिप्य
चूर्णयिष्यति ।
एवं दौरात्म्ययुक्तोऽपि सुन्दराकृति हेतुतः ॥३.११.४९॥
केनापि न किञ्चिदुक्तं वचनं भौतिदायकम् ।
वीरेश्वरस्य भूतोऽयमित्युक्ता जननी यदा ॥३.११.५०॥
क्रोधोपशान्तये तस्य मस्तकं वा पदद्वयम् ।
वारिणा विदधे सिक्तं क्रोधोनिर्वाणतां गतः ॥३.११.५१॥
मातृस्तन्य पुष्टदेहान्मातृवाक्यानुसारतः ।
वीरेश्वरस्य भूतोऽहं मत्वैव गर्वितोऽभवत् ॥३.११.५२॥
एवं नान्यस्य कस्यापि स्कन्धमारोहयत्यसौ ।
केवलं स्वपितुरश्वरक्षकस्यैव यत्नतः ॥३.११.५३॥
सानन्दं स्कन्धमारुह्य भ्राम्यति प्रायशः
सुखम् ।
स्वगृहसन्निधावस्ति प्रसिद्ध धनिनो मठः ॥३.११.५४॥
कायस्थ कुलरत्नस्य वहु सत्कर्म्मशालिनः ।
महतो रामदुलाल सरकार शिवमन्दिरे ॥३.११.५५॥
प्रतिष्ठित त्र्यम्बकस्य गाजनोत्सवबासरे ।
दर्शनार्थमुत्सवस्य श्रीनरेन्द्रः कुमारकः ॥३.११.५६॥
गत्वा तत्र रामसीता क्रीता पुत्तलिका
रसात् ।
गृहमानीय तां भक्त्या भगिनी समपृच्छत ॥३.११.५७॥
अनयोरस्ति किं पुत्रः कन्या वाप्यस्ति
चेद्वदम् ।
नरेन्द्रेनैवमुक्ता सा भगिनी भ्रातृवत्सला ॥३.११.५८॥
उवाचास्तिद्वयं पुत्रं कुशौलवेति संज्ञकम्
।
श्रुत्वैवं श्रीनन्द्रस्तु भगिनीं पुनरब्रवीत् ॥३.११.५९॥
वदेदृग् देवता नाम यस्य नास्ति सुतादयः ।
अथवा पुत्र गेहादिंस्त्यक्त्वा योगरतः सदा ॥३.११.६०॥
श्रुत्वैवं त्यागवार्तां सा भगिनी
बालकस्यातः ।
क्षणं वाक्शून्यतामाप किमेतदित्यचिन्तयत् ॥३.११.६१॥
ततो धैर्ययुता प्राह भ्रातरं सम्मितं वचः ।
अस्ति योगेश्वरो योगी हिमाद्रि तनया पतिः ॥३.११.६२॥
सर्वस्वं सम्परित्यज्य श्मशानालय मध्यगः ।
अनन्य चेताः सततं करोति हरि चिन्तनम् ॥३.११.६३॥
भगिन्यामेवमुक्तायां शिवांश सम्भवः सुतः ।
तत्क्षणात्तां शैवमूर्तिमानाय्य महतोमहान ॥३.११.६४॥
संस्थाप्य सम्मुखे स्वस्य तद्भाव
भावितात्मना ।
पद्मासने चोपविश्य निमील्य नयनद्दयम् ॥३.११.६५॥
भुजाभ्यो क्रोडमाच्छाद्य योगीव ध्यातवान्
मुदा ।
पूजयित्वा यथाज्ञानं ननाम दण्डवद्भुवि ॥३.११.६६॥
यदि कस्मिन्दिनेऽप्यस्य नरेन्द्रस्य
शिवार्चने ।
विलम्बोजायते तावत् ज्येष्ठा भगिनी द्रुतम् ॥३.११.६७॥
तत्रागत्य तदीयं सा विधृत्य करपल्लवम् ।
गृहाभ्यन्तरमानीय भ्रातरं समभोजयत् ॥३.११.६८॥
तथा श्रुत्वा नरेन्द्रोऽयं शङ्करं
गञ्जिकारतम् ।
धान्यवृक्षं समानीय तद्धूमं पीतवान् स्वयं ॥३.११.६९॥
नीति विद्विदुषः पुत्रो यतोऽयं पण्डितो
भवेत् ।
इत्याशया चतुर्वर्षात् परमेव सुपण्डितः ॥३.११.७०॥
विद्यारम्भं कुमारस्य कारयामास तत् पिता ।
विशिष्ट सम्भ्रमवती विशुद्धवंश सम्भवात् ॥३.११.७१॥
आशङ्क्येतर संसर्गं पुत्रं विद्यालये पिता
।
पाठार्थं नाददात्तं वै स्वगृह एव पण्डितैः ॥३.११.७२॥
सयत्नं शिक्षयामास विद्यालाभाय तस्य वै ।
श्रीनरेन्द्रो वदतिस्म शिक्षकं प्रति बालकः ॥३.११.७३॥
तिष्ठाम्यहं शयित्वात्रशय्याया मधुना
भवान् ।
पाठ्यं यदस्ति मे तद्भो द्विवारं पठतु स्वयं ॥३.११.७४॥
तद्रूप श्रुतिमात्रेणाभ्यसनं मे भविष्यति ।
अनेनास्य श्रुतिधर लक्षणं सूचितं वभौ ॥३.११.७५॥
एवं कतिपयाब्देषु गतेषु गुणवत्तरः ।
मेट्रोपलिटनित्याख्ये पाठ गेहेऽतिनिर्मूले ॥३.११.७६॥
विश्वविख्यात विदुषः श्रीविद्यासागरस्य हि
।
कियत्काल पठित्वात्र प्रवेशिका परीक्षणे ॥३.११.७७॥
श्रीनरेन्द्रः समुत्तीर्णस्तथा तामाकु
सेवने ।
अत्यन्तोऽप्यभवत्तस्मात् पाठागारावरोधनम् ॥३.११.७८॥
प्रायः कृत्वा यदा तदा करोत्तामाकु सेवनम्
।
विज्ञायास्य पिता प्राह मन्ये मम सुतोऽधुना ॥३.११.७९॥
देवदेवी पूजनार्थं धूपादि दानकर्मणि ।
लिप्तोऽभूत्तेन सद्गगन्धोऽप्यस्माकं घ्राणगह्वरे ॥३.११.८०॥
मृदुमन्दं प्रवहति गृहद्वारा वृतोऽपि च ।
तस्य विद्योन्नतिं दृष्ट्वा न किञ्चिदवदत् पिता ॥३.११.८१॥
यानिकानि च शास्त्रानि बहुनि कठिनान्यपि ।
एकाग्रता बलेनैव सुस्वल्प समयान्तरे ॥३.११.८२॥
शङ्करांशसम्भवत्वादभ्यस्तानि महात्मना ।
वयोवृद्धया समं तस्य धर्मभावस्य वृद्धितः ॥३.११.८३॥
गडगडितिसूच्चकण्ठं मधुरं प्रीतिदायकम् ।
संस्मृत्य श्रीभगवन्तं प्रेम्ना वदति सन्ततम् ॥३.११.८४॥
भगवत्तत्वव्याख्यानं ब्राह्मसमाज सद्मनि ।
कृतं पण्डितवर्यैयत्तच्छ्रोतुमाग्रहान्वितः ॥३.११.८५॥
श्रीनरेन्द्रस्तत्रगत्वा
श्रुतवानन्तरान्तरा ।
एतस्मात् कारणादस्य ब्रह्मभावोदयो वभौ ॥३.११.८६॥
द्वितीय श्रेणि शिक्षायां योगदान यदाभवत् ।
तदास्य परमात्मोयो रोमदत्तेति संज्ञकः ॥३.११.८७॥
ठाकुरस्य समीपन्तं नीत्वा गच्छन् महामतिः ।
ठाकुरोऽपि नरेन्द्रं तं स्वात्मीयं सार्वकालिकम् ॥३.११.८८॥
लीलासहचरं दृष्ट्वाऽदृतवानतिसम्भ्रमं ।
स्निग्धवाक्येनोवाचेदं गीतं किं विदितं त्वयो ॥३.११.८९॥
ठाकुरेणैवमुक्तः श्रीनरेन्द्रः प्रत्युवाच
तम् ।
गानमेकं विजानामि भवन्तं श्रावयामि तम् ॥३.११.९०॥
निशम्याध्यात्मिकम् गानमति प्रीतोऽभवत्
प्रभुः ।
स्वासने स्वसुतमिव कारयित्वोपवेशनम् ॥३.११.९१॥
पस्पर्श हृदयं तस्य योगयुक्तेन पानिना ।
तदा तस्य नरेन्द्रस्य प्रभोस्तद् योगवैभवात् ॥३.११.९२॥
शुद्धचैतन्य सम्पर्कान्मनसो गतिरन्यथा ।
जाता यया जगत्सर्वं दृश्यं स्थावरजङ्गमम् ॥३.११.९३॥
विलोलीनत्वं गतं स्वस्य देहस्यापि तथाभवत्
।
गृहस्याच्छादनं नास्ति सर्वं शून्यमिदं जगत् ॥३.११.९४॥
श्रीगुरोः कृपया लब्धा शुद्धां भागवतीं
तनुम् ।
ब्रह्मलोकस्योर्द्धं लोकं द्रुतं गत्वा सनातनम् ॥३.११.९५॥
अमृतं शाश्वतं दिव्यमनन्तं शिवदं शुभम् ।
मोक्षप्रदं हिरन्मयं ब्रह्मानन्दसुखात्मकम् ॥३.११.९६॥
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ।
यद्गत्वा न निवर्त्तन्ते तद्धामपरमं हरेः ॥३.११.९७॥
नहि वर्णयितुं शक्यं कालैः कल्पशतैरपि ।
अपि द्रष्टुं न शक्यन्ते ब्रह्मरुद्रादिदैवतैः ॥३.११.९८॥
ज्ञानेन शास्त्रमार्गेन द्रक्ष्यते योगि
पुङ्गवैः ।
तत् स्थानमुपभोक्तव्यमक्षरब्रह्म सेविना ॥३.११.९९॥
भगवद्भक्तियोगेन सर्वभोगविवर्जिताः ।
प्रपश्यन्ति महाभागा भगवत्पाद सेवकाः ॥३.११.१००॥
तद्विष्णोः परमं धाम कृपया दृष्टवान्
गुरोः ।
यं न विदन्त्यधर्मिष्ठाः शठाभूतद्रुहः खलाः ॥३.११.१०१॥
योगरूढ़ा योगिनोऽपि प्रतिष्ठालोलुपा जनाः ।
यत्र धाम्न्यमृतञ्चास्तिक्षेममप्यभयं त्रयम् ॥३.११.१०२॥
चिदान्दमयी लीला विद्यते तत्र सर्वदा ।
अपूर्वरूपलावन्या ब्रह्मरूपा सनातनी ॥३.११.१०३॥
यदाहं दृष्टवांस्तत्र प्रसन्नमुखपङ्कजम् ।
गुरुं तत्सन्निधावस्ति मम पूर्वकलेवरम् ॥३.११.१०४॥
तदाहं भीतिविभ्रान्तो गुरोः पादौ प्रगृह्य
वै ।
सङ्क्रन्दन्नश्रुभिर्वप्तो वदन्नित्थं वचो गुरम् ॥३.११.१०५॥
अधुना कुत्र तिष्ठामि न जानामि कथञ्चन ।
कृपया पूर्वरुपं मे दर्शय त्वं जगद्गुरोः ॥३.११.१०६॥
निःस्वार्थ स्नेहपूर्णास्ति माता मे
पुत्रवत्सला ।
यत् सर्वस्वमहं स मे पितास्ति जन्मदो गुरुः ॥३.११.१०७॥
एवं कातर्य वचनं निशम्य भगवांस्तदा ।
कृपयोवाच भो पुत्र तिष्ठ तिष्ठेति भारतीम् ॥३.११.१०८॥
उक्त्वा पुनर्मद्धृदयं स्पृष्टमात्रं तदैव
मे ।
सञ्जाता चेतना तादृक् प्राग् यादृगस्ति चेतना ॥३.११.१०९॥
तत्प्रसादीय भोज्यानि भूक्त्वा पीत्वा जलं
ततः ।
पुन: श्रीरामदत्तेन सानन्दं गृहमागतः ॥३.११.११०॥
साक्षाद्भगवतस्तस्य ममेदमाद्य दर्शनम् ।
पूर्वं पुण्यपुञ्जबलादभवद्रोमहर्षणम् ॥३.११.१११॥
सत्यनिष्ठा नरेन्द्रस्यवर्धति सकलोपरि ।
यदि भूतभयं कोऽपि शिशुं प्रति प्रदर्शयेत् ॥३.११.११२॥
श्रुत्वोवाच नरेन्द्रस्तं कथं सुवितथं वचः
।
पुनः पुनर्ब्रवीषित्वं नेयं वदति मानुषः ॥३.११.११३॥
ठाकुरोऽप्यवद देवं शिष्यवर्ग समीपतः ।
नरेन्द्रः सत्यसङ्कल्पः सत्यस्वरूपमीश्वरम् ॥३.११.११४॥
करिष्यत्येव प्रत्यक्षं पश्यामि दिव्य
चक्षुषा ।
एवमयाचित कृपा भगवत्येव सम्भवेत् ॥३.११.११५॥
प्रवेशिका परीक्षायां समुत्तीर्णो यदा वभौ
।
तदा मयाक्रान्त देहो विद्यागारे यथाक्षणे ॥३.११.११६॥
प्रवेष्टुं न समर्थोऽभून्नरेन्द्रः
सूचबुद्धिमान् ।
न वृथा क्षपयिष्यामि कालं मत्वेति गायकम् ॥३.११.११७॥
वेणी ओस्ताद नामकमाहूय तस्य सन्निधौ ।
प्रशिक्षत गीतविद्यां स्वर ब्रह्मविभूषिताम् ॥३.११.११८॥
मूर्च्छनाद्यालापवतीं
गान्धारादिस्वरात्मिकाम् ।
अनपेक्ष्यान्यविषयं प्राभ्यसद्गानमुत्तमम् ॥३.११.११९॥
लोकातीतैकाग्रशक्त्या षण्मासाभ्यन्तरे
सुधी ।
गायकानां सभामध्ये प्रसिद्ध गायकोऽभवत् ॥३.११.१२०॥
दृष्ट्वैवन्तद् गीत गुरुरुवाच सादरं वचः ।
सन्ति भो गीत रत्नानि गुप्तानि यानि मद्धृदि ॥३.११.१२१॥
सर्वाणि तानि मत्तस्त्वं निःशेषेण
गृहीतवान् ।
अत्रेदं सुरिभिर्भाव्यं स्वरग्रामं सुदुर्गमम् ॥३.११.१२२॥
ब्रह्मज्ञानां भवेदेव तदायत्वं सुसाधनैः ।
गीत शास्त्रान्तरेचोक्तं नाद स्वरूप लक्षणम् ॥३.११.१२३॥
सच्चिदानन्द विभवात् सकलात् परमेश्वरात् ।
आसीत् शक्तिस्ततो नादस्तस्माद्विन्दु समुद्भवः ॥३.११.१२४॥
नादोविन्दुश्च वीजश्च स एव त्रिविधो मतः ।
न नादेन विना गीतं न नादेन विना स्वरं ॥३.११.१२५॥
न नादेन विना रागस्तस्मादात्मकं जगत् ।
प्रायः शररसघटीकालं भजन गीतिभिः ॥३.११.१२६॥
श्रोतृवृन्द श्रीनरेन्द्रः कुरु ते मोहितं
तदा ।
ठाकुरेणाप्येवमुक्तं न श्रुतं गानमीदृशम् ॥३.११.१२७॥
शुत्वा गीतं नरेन्द्रस्य समाभ्यन्तर देवता
।
कुलकुण्डलिनी याऽसौ कुण्डलीरूपधारिणी ॥३.११.१२८॥
सक्रोधं जाग्रती भाति शान्तिरूपा सनातनी ।
साशक्तिर्मे सहस्रारे शिवेन मिलिता यदा ॥३.११.१२९॥
सद्यः समाधिः सम्भूतः सर्व ब्रह्मणि लीयते
।
उवाचेदं साग्रहेण साङ्गोपाङ्गादिभिर्वृतः ॥३.११.१३०॥
भविष्यति वृषाचार्य्यः श्रीनरेन्द्रो
भविष्यति ।
मन्येऽप्येवं नरेन्द्रस्य शास्त्रे दर्शन संङ्गके ॥३.११.१३१॥
सुमहाननुरागोऽयमभवद् ज्ञानदायके ।
रेभारेण्ड हेस्टिमिति नामकः साहेवः सुधीः ॥३.११.१३२॥
पाश्चात्य दर्शन ज्ञानी मानी विद्वत्
सभासु च ।
विज्ञायैवं श्रीनरेन्द्रः पाण्डित्यं तस्य धीमतः ॥३.११.१३३॥
जेनारेलेसेम्ब्ली नाम विद्यागारं प्रविश्य
सः ।
अध्ययन प्रभावेन परीक्षान्यद्वयेऽपि च ॥३.११.१३४॥
कृतकार्यो बभूवासौ श्रीनरेन्द्रोऽति
बुद्धिमान् ।
प्रतिभायां परन्त्वस्य सुप्रीताऽध्यापको भृशम् ॥३.११.१३५॥
स्वकक्षे तं समानीय ज्ञान भूरि
श्रमार्जितम् ।
ददौ तस्मै स्वकीयं यदनुभूतं सुनिर्मलम् ॥३.११.१३६॥
धूमपानव्यवस्थापि श्रीनरेन्द्रस्य धीमतः ।
चकाराध्यापकस्तस्य प्रियस्य प्रीति हेतवे ॥३.११.१३७॥
दोषोऽपि गुणवद्भाति यो हि यस्य प्रियोजनः ।
एमर्सन्निति विख्यातः श्वेताङ्गः सुमहान् कविः ॥३.११.१३८॥
आसीन्महाभाबुकश्च प्रेमवान् भगवत्यति ।
प्रसङ्गेन भगवतो भावाविष्टो बभूव ह ॥३.११.१३९॥
आङ्गल भाषायामस्य भावावेशस्य भावुकैः ।
ट्रान्स नाम प्रदत्तन्तैर्भावाभिज्ञैः सुपण्डितैः ॥३.११.१४०॥
उवाचाध्यापनाकाले हेष्टिं साहेब पण्डितः ।
अन्तरराज्य व्यापारः ट्रान्सो नेन्द्रिय गोचरः ॥३.११.१४१॥
अतस्तं भाषया वक्तुं समर्थः कोऽपि न भवेत्।
योगीश्वरो रामकृष्णः परमहंस ईश्वरः ॥३.११.१४२॥
जगदुद्धरणार्थाय विद्यते दक्षिणेश्वरे ।
ऐश्वरीय प्रसङ्गेन भावभावित चेतसः ॥३.११.१४३॥
तस्य महात्मनो दिव्य भावावेशा भवन्ति वै ।
युयं यदि तव द्रष्टुं रामकृष्णं गमिष्यथ ॥३.११.१४४॥
तर्हि ट्रान्स भावराज्य विषयं बोद्धुमर्हथ
।
एवमुक्त्वा छात्रवर्गान् दक्षिणेश्वर मन्दिरे ॥३.११.१४५॥
सयत्नं प्रेरयामास नरेन्द्र प्रमुखांस्तथा
।
यत्र विराजितः साक्षाद्रामकृष्णः स्वयं हरिः ॥३.११.१४६॥
न केवलं दर्शनशास्त्रवेदी नरेन्द्रनाथो
बहु शास्त्रदर्शी ।
विशेषतस्तर्कविशेषशास्त्रे सुदक्षको न्याय पथावलम्बी ॥३.११.१४७॥
तथा सुदक्षः खलु नास्तिकेनये नास्तीति
नास्तीति विजल्पिते सति ।
स्वस्यापि चास्तित्व विधौ महामतिः सन्देहयुक्तोऽभवदेव निथितम् ॥३.११.१४८॥
वयं नरेन्द्र प्रतिभामलौकिकीं विलोक्य
नित्यं सुभृशं विमोहिताः ।
शास्त्रीय सिद्धान्त वलेन नास्तिका नास्तिक्य भावैः समयोजयत् सुधीः
॥३.११.१४९॥
विज्ञानमेव महतां परमार्थ वस्तु विज्ञाय
तैर्निजजनैर्महतो महीयान् ।
संबेष्टितः परमशान्तिसुखं प्रदातुं गीतात्मकेन तपसा समयोजयत्तान्
॥३.११.१५०॥
एवं नरेन्द्रस्य सतीर्थ एक उवाच विद्यालय
निर्गतस्य ।
अस्माकमानन्दविधौ प्रहानिर्जाता सुविद्याधिगमे सदैव ॥३.११.१५१॥
किन्त्वत्र गानाद्बहुधूम पाना नानाकथायां
मनसः प्रवेशात् ।
दैनन्दिनं ज्ञानसमुन्नतिर्या भ्रातुर्नरेन्द्रस्य भवत्यहो सा ॥३.११.१५२॥
ठाकुरोऽप्यवददेवं चुम्बक एव केवलम् ।
नाकर्षति लोहदण्डमिति विज्ञानभाषितम् ॥३.११.१५३॥
लौहऽपि चुम्बकाकर्षी भवतीति सुनिश्चतम् ।
उभयोरेकधर्मत्वान्मिलनं भवति ध्रुवम् ॥३.११.१५४॥
प्राथम्यदर्शनादेव नरेन्द्रः सुमहामतिः ।
प्रेम्ना कष्टः प्रभोरासीच्चुम्बकेन यथाह्ययः ॥३.११.१५५॥
मज्जीवन वेदभाष्य कर्तारं ज्ञातवानसौ ।
तथा तस्य नरेन्द्रस्य भक्त्याकृष्टः स ठाकुरः ॥३.११.१५६॥
बभूव मिलितोऽत्यर्थं लौहेन चुम्बक यथा ।
परन्तु श्रीनरेन्द्रीय दत्वा शक्तिमलौकिकीम् ॥३.११.१५७॥
अतस्तद् गृहसन्निभ्य भक्तावास स्थितो यदा ।
नरेन्द्रं समाहूय तत्त्वज्ञानं ददौ प्रभुः ॥३.११.१५८॥
एवं भगवतः शुद्ध कृपया शुद्ध चेतसः ।
सञ्जाता भगवद्भक्तिष्ठाठाकुरे सुविशेषतः ॥३.११.१५९॥
पुनः पुनः स्पर्शन दर्शनाभ्यां तथोपदेशात्
परमार्थ वस्तुनः ।
दिने दिने तं प्रति तस्य श्रद्धा विशुद्ध भावेन सुवर्धिताभूत् ॥३.११.१६०॥
अचिन्त्य चास्य विभोर्नरेन्द्र
उन्मत्तवद्विग्रह धारिणोऽपि ।
ऐश्वर्य योगान्मनुजः सुरोऽभून्मत्वैवमागात् खलु लोकितं तम् ॥३.११.१६१॥
श्रीरामकृष्ण स्थितिरस्ति यत्र देवालये
भक्तवरो नरेन्द्रः ।
स ठाकुरं भक्तवरः कदापि पप्रच्छ किं न्वीश्वरदर्शनं स्यात् ॥३.११.१६२॥
एवं विजिज्ञासित देवदेवः सारल्य वाक्यैः
समुवाच शिष्यम् ।
प्रत्यक्षतामिति हि नूनमोखरस्तस्यैव यस्यास्ति विशेष साधना ॥३.११.१६३॥
पश्यामि यादृङ् सम सन्निधौ त्वां तथैव
पश्याम्यहमीश्वरं भोः ।
किन्त्वस्य साक्षात् परिदर्शनार्थं समाधि योगं समपेक्ष्यते हि ॥३.११.१६४॥
यद्दर्शनं तन्मय साधकानां तथैवच स्यात्
कृपयेश्वरस्य ।
उक्तैवमावेश वशेन तस्य पस्पर्श वक्ष्यो भगवांस्तदोयम् ॥३.११.१६५॥
एवं गुरोराप्त कृपो नरेन्द्रः समाधिभावं
गतवान् महात्मा ।
कस्त्वं नरेन्द्रः कुत आगतोऽत्र किं वा त्वदीयं करणीयमस्ति ॥३.११.१६६॥
एव' कृतप्रश्न नरेन्द्रनाथो भावेन तं
प्रत्यवदद्विमुग्धः ।
निमील्य नेत्रे समयं सकम्पं विशाल नेत्रः सुविशाल नेत्रम् ॥३.११.१६७॥
नाहं मनुष्यो न च देवयक्षौ न ब्राह्मण
क्षत्रिय वैश्य शूद्राः ।
न ब्रह्मचारी न गृही वनस्थो भिक्षुर्नचाहं निजवोधरूपः ॥३.११.१६८॥
आप्ताधुना चिन्मय विग्रहस्य कृपाययाहं
सवितुर्वरेण्यम् ।
विष्णोः पदञ्चाद्य सुखस्वरूपं जानामि यद् योगिभिरप्यगम्यम् ॥३.११.१६९॥
सोऽयं ममाग्रे हृदि वर्तते च
ह्यन्तर्बहिश्चैव विभु स्वरूपः ।
विभाति देवो महतो महीयान् अनोरणीयान् परमो गुरुणः ॥३.११.१७०॥
कलौ न मर्त्या जगतां परं गुरुं त्रिलोक
नाथानत पादपङ्कजम् ।
प्रायेण सर्वे भगवन्तमच्युतं यक्ष्यन्ति पाषण्ड विभिन्न बुद्धयः ॥३.११.१७१॥
विज्ञाय चैवं भगवान् परेशः स्वलोकतः सर्व
विमुक्ति हेतुः ।
अत्राविरासीत् स्वजनैः समेतो भवामि चैकः खलु नीचदासः ॥३.११.१७२॥
विवेकहीनाय विचित्र शक्तिं समर्प्यमह्यं
बहु मन्यमानः ।
विशुद्ध धर्म ग्रहणाय पुंसां समादिशन्मे गुरुर्मूत्तिधारी ॥३.११.१७३॥
यन्नामधेय श्रवणानुकीर्तनाद्विन्दन्ति
मुक्तिं कलिकातरान्नराः ।
स एव साक्षात्ममदृक् पथेस्थितः किं वर्ण्यतेदिष्टमहोदुरात्मनः ॥३.११.१७४॥
यथैव पूर्वं खलु रामदास उच्चार्यरामस्य
पवित्र नाम ।
उल्लङ्घ्य सिन्धुं शत योजनन्तं चकार कार्यं प्रभुनेप्सितं यत् ॥३.११.१७५॥
श्रीरामकृष्णस्य तथाधुनाहं पवित्र नाम
स्मरणैक शक्त्या ।
तीर्त्वाभवाब्धिं जगतो जनानां विमुक्ति रूपं फलमाविधास्य ॥३.११.१७६॥
आब्रह्मचण्डाल सुनीच जीवान् विरुद्ध
धर्माचरितान् खसान् वा ।
सर्वान् समानीय गुरो: पदाब्जे ददामि चार्घ्यं मम कृत्यमेतत् ॥३.११.१७७॥
एवं नरेन्द्रस्य सुभाषणन्तदा संश्रुत्य
देवो जगतां सुमङ्गलम् ।
स्व पादपांशुं सकलार्थ सिद्धिं नीत्वाकरे मूर्द्धिं ददौ मुदाप्लुतः
॥३.११.१७८॥
विहङ्गमानां गगनं यथा प्रियं यथा
झषाणामुदकं हिजीवनम् ।
तथा नरेन्द्रस्य बभूव जीवनं ध्यानादिकाले गुरु पादपङ्कजम् ॥३.११.१७९॥
आदेशतस्तस्य गुरोर्नरेन्द्रः स्वकीय
कृत्यं सकलं विहाय ।
क्षपा समग्रां गुरुदत्त बीज ध्याने निमग्नोऽभव देवदेवः ॥३.११.१८०॥
तदा नरेन्द्रस्य समाधि काले यायानुभूतिः
खलु सम्बभूव ।
अलौकिकीन्तां परमेश्वराय निवेद्य तस्मै मुदमाप देवः ॥३.११.१८१॥
एकदोषास्ति समये निशायां साधको महान् ।
दृश्यमत्यद्भूतं दृष्ट्वा चमत्कार युतोऽभवत् ॥३.११.१८२॥
नरेन्द्रसदृशाकारः कोऽप्यन्यः साधको महान्
।
नरेन्द्रवदाचरति श्रौनरेन्द्रस्य सम्मुखे ॥३.११.१८३॥
आश्चर्यजनके तस्मिन् व्यापारे विनिवेदिते ।
परमानन्द संप्राप्तष्ठाकुरश्चेदमब्रवीत् ॥३.११.१८४॥
न चात्र विस्मयः कार्यो बह्वेवं दृश्यते
मया ।
भवेदिदं ध्यानसिद्ध साधकानां सुमङ्गलं ॥३.११.१८५॥
अतःपरं ठाकुरेण धारणा ध्यानकर्म यत् ।
निःशेषितं कियत्कालं शिष्यविश्राम हेतवे ॥३.११.१८६॥
उवाच पुनरस्माकं भगवान परमार्थवित् ।
पूजायास्तु जपो ज्यायान् जपाद्ध्यानं विशिष्यते ॥३.११.१८७॥
ध्यान सिद्धो जनो योऽसौ स मुक्त पुरुषः
स्मृतः ।
नास्ति तस्य पृथक् यज्ञो न व्रतं नाप्युषितम् ॥३.११.१८८॥
यथात्यन्त कठोरेऽस्मिन् धारणा
ध्यानकर्म्मणि ।
सिद्धिं लाभान्नरेन्द्रोऽयं जीवन्मुक्तो भवेद्ध्रुवम् ॥३.११.१८६॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थं विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां भगवतः श्रीरामकृष्ण देवस्य सर्व मूख्य सेवकस्य श्रीनरेन्द्रनाथस्य गुरु कृपाप्राप्तिरूपोऽन्तालीलाया एकादशोऽध्यायः ॥११॥