अन्त्यलीला

नरेन्द्रस्य आविर्भावः, कथादितः कन्याकुमारीक्षेत्रे समुद्र मध्ये प्रबाल प्रवतोपरि तपस्यानन्तरं पुनस्तीरं प्राप्तिः

अथ अन्त्यलोलाया द्वादशोऽध्यायः


ज्येष्ठ पुत्र तया तस्य वियोगानन्तरं पितुः ।
संसार भारोऽप्यपतन्नरेन्द्रस्योपरिध्रुवम् ॥३.१२.१

श्रीनरेन्द्र तथाप्यस्मिन् शिक्षाकर्मरते सति ।
मनसी युक्तता तस्य तत् कर्मणि न चाभवत् ॥३.१२.२

सुमहत् कार्यमिद्धार्थं यस्येहागमनं भुवि ।
मनः प्रसन्नतामेति तस्य कि तुच्छ कर्मणि ॥३.१२.३

एवं निष्फलतामाप कृतेषु बहु कर्मसु ।
अर्थार्जने तथा लोभे पतितोऽपि महामतिः ॥३.१२.४

गुरोरिति कर्मभयो न कदापि टलत्यसौ ।
किन्तु कथं करिष्यामि विनार्थेन गुरोः क्रियाम् ॥३.१२.५

श्रीनरेन्द्रो विचिन्त्यैवभभिमान पुरःसरम् ।
कियत्कालं दर्शनार्थं नागमद्दक्षिणेश्वरम् ॥३.१२.६

विदेशगत पुत्रार्थं यथा मातातिदुःखिता ।
श्रीठाकुरस्तथैवाभून्नरेन्द्रानागमाञ्चिरम् ॥३.१२.७

जनैरन्वेषितमपि नरेन्द्रं न स लब्धवान् ।
एकदा सहसायातः श्रीगुरोः पाद सन्निधौ ॥३.१२.८

दृष्ट्वा तं ठोकुरोऽप्याहकरुण स्वरपूर्वकम् ।
नोक्ता स्थातुं न शक्नोमि बक्तुं त्वां शङ्कयामि भो ॥३.१२.९

एवं मे मनसः शङ्का सर्वदा वर्तते हृदि ।
न लभेयं यद्यहं त्वां प्रसादेन भ्रमेन वा ॥३.१२.१०

कोऽयमत्रास्ति व्यापारः शिष्यैर्जिज्ञासित प्रभुः ।
यत्किञ्चिदावयोरेव संवादः सम्बभूव ह ॥३.१२.११

तदैवं श्रीठाकुरेण शिष्यवर्गयुतेन च ।
नरश्रेष्ठ नरेन्द्रस्य देवभावो विचारितः ॥३.१२.१२

सगुणोपासकाः सन्ति बहवो मूर्ति पूजकाः ।
निर्गुणोपासकाश्चापि सन्ति भारत भूतले ॥३.१२.१३

सगुणान्निर्गुणो ज्यायानिति वेदविदां मतं ।
सत्यज्ञानानन्दरूप ब्रह्मणो निर्गुणात्मनः ॥३.१२.१४

श्रवणान्मननाद्ध्यानान्मुक्तो भवति मानवः ।
श्रीनरेन्द्रस्तथाभूतश्चाखण्डाद्वैत भाववान् ॥३.१२.१५

तस्मादेनं दृष्टमात्रं जीता मेऽखण्डभावता ।
जगदम्बा प्रसादेन तदा दृष्टो मयाध्रुवम् ॥३.१२.१६

नरेन्द्राविर्भावकाले स्वर्गाज्योतिरलौकिकम् ।
पतितं कलिकातायां ज्योतिषैर्वास्य सम्भवः ॥३.१२.१७

महाराष्ट्रीय मिष्टान्न विद्यते कामना बहु ।
नाहमद्मि भवद्भोऽपि दास्यामि न कदापि हि ॥३.१२.१८

भक्ति विघ्नदमाशङ्क्य भक्तेभ्यो न ददाम्यहम् ।
ददामि तु नरेन्द्राय शुद्धसत्त्व स्वरूपिने ॥३.१२.१९

ज्ञानाग्नि दग्ध कामस्य विकृतिर्नास्ति कुत्रचित् ।
नराणां यो भवेदिन्द्रः स नरेन्द्रः प्रकीर्तितः ॥३.१२.२०

भवेन्नरोत्तमो वासौ नरावतार ईश्वरः ।
एवमस्य नरेन्द्रस्य स्वरूपः प्राह ठाकुरः ॥३.१२.२१

अन्यच्च श्रोनरेन्द्रस्य माहात्म्यं समवर्णयत् ।
केशवचन्द्रसेनस्य समीपे ठाकुरः स्वयम् ॥३.१२.२२

अस्ति तत्र नरेन्द्रोपि बहुभिर्गुरु बन्धुन्धभिः ।
भो केशव महाभाग जगदम्बा प्रसादतः ॥३.१२.२३

एकमलौकिकीं शक्तिं लब्धा त्वं बहुमानवान् ।
भवसि वक्तृतादानैः पाण्डित्यं विद्यते तव ॥३.१२.२४

किन्त्वस्य श्रीनरेन्द्रस्य महामाया प्रसादतः ।
अष्टादश महाशक्तिरस्ति ह्यभ्यन्तरे सदा ॥३.१२.२५

श्रुत्वैवं श्रीनरेन्द्रस्तु लज्जितोऽभून्महामतिः ।
किन्तु केशव सेनोऽयं गुणग्राही सुपण्डितः ॥३.१२.२६

सानन्दमवदतं वै भो नरेन्द्र विचक्षण ।
नववृन्दावनं नाम रचितं नाटकं मया ॥३.१२.२७

अभिनयो भवेत्तस्य सन्न्यासि वेश धारणम् ।
कृत्वा तत्र पाठकार्यं कुरु चैव ममाग्रहः ॥३.१२.२८

तहिने तत्र सङ्गम्य ठाकुरो नन्दितोऽभवत् ।
परन्तु तद् वेशेनैव वारमेकं स याति चेत् ॥३.१२.२९

सन्निधौ त्वां प्रपश्यामि श्रीनरेन्द्रः प्रियो मम ।
श्रीनरेन्द्रं समुद्दिश्य पुनरन्यदिनेऽब्रवीत् ॥३.१२.३०

द्वादश वर्षं वर्षणाभावेऽपि कृषको न हि ।
कृषिकार्य्यं परित्यक्तं शक्नोति तत् स्वभावतः ॥३.१२.३१

तद्रूपस्य नरेन्द्रस्य मातुर्भ्रातुश्च दुःखिताम् ।
श्रुत्वाब्रवीम्यहं त्वं वै गच्छमातुर्गृहं मम ॥३.१२.३२

पूरयिष्यति ते माता प्रार्थनां भवतारिणी ।
कर्णयोरङ्गुलिं दत्वा श्रुत्वापि न शृणोत्यसौ ॥३.१२.३३

सङ्गम्य सम्मुखं मातुः साश्रुनेत्रः कृताञ्जलिः ।
वदत्येवं देहि मह्यं वैराग्यञ्च विवेकिताम् ॥३.१२.३४

स्वप्नं सन्त्यज्य शर्वर्यां सन्ततं संवदन्नसौ ।
मातस्त्वं हितारेत्येवमधुना निद्रितोऽभवत् ॥३.१२.३५

उपाधि पदकैः सार्धं मुद्राभिर्वा न लब्धवान् ।
तथाप्याङ्गल भाषायामत्यन्तमधिकारवान् ॥३.१२.३६

दार्शनिको हर्बर्ट नामा पाश्चात्य पण्डितो महान् ।
तद्देशीय सुप्रसिद्ध कवि स्पेन्सर धीमता ॥३.१२.३७

रचितोत्तम काव्यस्यानुवादार्थं समुत्सुकः ।
सानुनयञ्चानुरुध्य नरेन्द्रं शास्त्रवित् परम् ॥३.१२.३८

स्वहस्तलिखितं पत्रं प्रेरयामास तं प्रति ।
तत्रैवं लिखितं तेन हर्बर्टेन महात्मनाम् ॥३.१२.३९

इतः पूर्वं भवत्तुल्यं इंराजी रचना मया ।
यतः कुत्रापि न दृष्टा सुतरां भवता कृतात् ॥३.१२.४०

अनुवादान्महानन्दं प्राप्स्यामि नात्र संशयः ।
सन्न्यासी टमास केम्पिस् इमिटेशन क्राइष्ट् ॥३.१२.४१

ग्रन्थस्येशानुशरणं नाम दत्ता सुधीवरः ।
चकार रुचिरश्चेदृगनुवादोह्यनुत्तमः ॥३.१२.४२

यस्य पाठक्षणे साक्षाद् ग्रन्यपाठसमो भवेत् ।
सङ्गीत विषयेऽनेन रचितं यत् सुपुस्तकम् ॥३.१२.४३

सङ्गीतज्ञैर्बहुजनैः कृतमस्य प्रशंसनम् ।
अस्य संस्कृतभाषायां पाठ्यावस्था यदा तदा ॥३.१२.४४

योऽधिकारः सुसञ्जातो व्याख्यातं तेन सुन्दरं ।
साङ्ख्य वेदान्तादि शास्त्रं यत्र ब्रह्म प्रगीयते ॥३.१२.४५

ब्रह्मैवहस्तिरूपोऽभूद्धस्तिपकोऽपि तद्विधः ।
ठाकुरस्यास्य वाणीनां भावार्थबोध हेतवे ॥३.१२.४६

दिनत्रयं समाधिस्थोऽभवद् योगीश्वरो महान् ।
शास्त्रज्ञानं साधनञ्च श्रीनरेन्द्रस्य योगिनः ॥३.१२.४७

भवेदलौकिकं सर्वमेकान्त गुरु भक्तितः ।
गुरोर्लीलावसानेऽसौ काशीधाम्नि यदा स्थितः ॥३.१२.४८

बाबाजी द्वारका दास भक्तस्याश्रममन्दिरे ।
पवित्रेऽस्मिन्नसिक्षेत्रे भूदेव चन्द्र नामकः ॥३.१२.४९

मुखोपाध्यायोपाधिको वङ्ग विख्यात पण्डितः ।
नरेन्द्रस्य धर्मशास्त्र व्याख्या श्रवणतः सुधीः ॥३.१२.५०

अत्यन्तं विस्मितो भूत्वा वद तं सादरं वचः ।
सरकार बाहादुरस्याहं विद्यागौरवमण्डितः ॥३.१२.५१

शिक्षानियामकपदं प्राप्तवानति दुर्लभम् ।
किन्तु मया न पठितं यच्छास्त्रं तदपि त्वया ॥३.१२.५२

विशदीकृत्य व्याख्यातं गर्वो मे तेन खण्डितः ।
प्रीतोऽस्मि नितरामद्य तव पाण्डित्य दर्शनात् ॥३.१२.५३

तुभ्यं भारतरत्नाख्यमुपधिं सम्प्रदत्तवान् ।
साशीर्वाद ददामित्वामानन्द मनसाह्यहम् ॥३.१२.५४

सर्वश्रेष्ठ मानवस्त्वं भव भारत भूतले ।
बहूनां धर्मशास्त्राणामत्यल्प वयसस्तव ॥३.१२.५५

अध्ययनमभ्यासश्च कथं सम्भवतः खलु ।
एवमुक्तः श्रीनरेन्द्रः प्रत्युवाच सविस्तरम् ॥३.१२.५६

ग्रन्थानामाद्य पत्नस्य पत्रस्य चरमस्य च ।
पङ्क्तिद्वयं प्रपठनात् श्रीगुरोरनुकम्पया ॥३.१२.५७

समग्रग्रन्थ मर्मार्थं ज्ञातुं शक्नोमि निश्चितम् ।
न केवलं ममेवैतद् ब्रह्मानन्दं गतस्य च ॥३.१२.५८

केशवचन्द्र सेनस्य शक्तिरस्ति तथा विधा ।
तर्कपञ्चाननादौ नामपीदृक् प्रतिभाश्रुता ॥३.१२.५९

अष्टाध्यायि सर्वश्रेष्ठ व्याकरणस्य पानिनेः ।
नास्ति येषां फणीभाष्ये व्युत्पत्तिरतिरोकता ॥३.१२.६०

वैदिक ग्रन्थ पाठने नास्ति तेषां सुयोग्यता ।
परन्तु वैदिकी भाषा बोधगम्या भवन्ति न ॥३.१२.६१

प्रव्रज्या श्रममाश्रित्य यदा पर्यटने रतः ।
महाराष्ट्रे तदैकस्य पानिनि पण्डितस्य च ॥३.१२.६२

चकाराहमध्ययनं सविधेऽप्यति यत्नतः ।
किन्तु पानिनि पठने स्वल्पा मे नास्ति योग्यता ॥३.१२.६३

इत्येवं मन्यमानः स पण्डित प्रवरस्तदा ।
सोपहासमिदं वाक्यमीषद्धास्यपुरःसरम्॥३.१२.६४

उवाच मां समुद्दिश्य साधु सन्न्यासि मानवाः ।
प्रायेणाहमिकाग्रस्ताः कुर्वन्ति निजगौरवम् ॥३.१२.६५

वयन्तु फणिभाष्यस्यस्वायत्तीकरणाय हि ।
प्रायो द्वादशवर्षाणि प्राणपात परिश्रमैः ॥३.१२.६६

साकल्यं नावगच्छामि भाष्यभाषा भयङ्करात् ।
अतस्त्वमस्य पठने विशेषावहितो भव ॥३.१२.६७

आकर्ण्याध्यापक वाचं नरेन्द्रः प्रत्युवाच तम् ।
यतोऽहमभवंश्छात्रस्तर्हिमां भवतो भवान् ॥३.१२.६८

स्वकीयेच्छानुसारेण पाठ दिशतु भो गुरो ।
यद्यहं भवतादत्तं पाठं नाभ्यसितुं क्षमः ॥३.१२.६९

तर्हि नाध्यापयेच्छात्रं वाचालमतिगर्वितम् ।
उक्त्वैवं श्रीनरेन्द्रस्तु प्रणम्य पण्डितं सुधीः ॥३.१२.७०

तपोयोगं समाश्रित्याधीतवान शास्त्रमुत्तमम् ।
समाप्य पानिनि ग्रन्थं कण्ठस्थमकरोत् सुधीः ॥३.१२.७१

असाधारण धीशक्त्या मासेनैकेन स तदा ।
दृष्ट्वैवं पानिनि गुरुरवदत्तं सुविस्मितः ॥३.१२.७२

न त्वं साधारणो लोकः शिक्षा तव विडम्बना ।
ततस्तस्माद्विनिष्क्रान्तो गतवानीप्सितां दिशम् ॥३.१२.७३

चित्र शिल्पिप्रधानस्य तदानीं रविवर्मणः ।
दृष्ट्वालेख्यं महायोगी चित्रदोषमदर्शयत् ॥३.१२.७४

तं तदा व्रीडितो भूत्वा शिल्पी सश्रद्धमब्रवीत् ।
ध्रुवमस्मिन् शिल्पि कार्ये सिद्धि लाभं गतो भवान् ॥३.१२.७५

श्रुत्वैवं शिल्पिनो वाक्यं तदातेन महात्मना ।
उक्तमनुत्तमं वाक्यंकालिदासस्य भाषणं ॥३.१२.७६

राजानं विक्रमादित्यं पुरोवाच कविर्यथा ।
देवगुरु प्रसादेन जिह्वाग्रे मे सरस्वती ॥३.१२.७७

सर्वं जानामि तेनाहं भानुमत्यास्तिलं यथा ।
यस्मिन् ब्रह्मणि विज्ञाते विज्ञातं हि चराचरम् ॥३.१२.७८

साधकस्य भवत्येव वेदानुवचनेन हि ।
तथा जातः नरेन्द्रस्य श्रीगुरोरनुकम्पया ॥३.१२.७९

पटुत्वं सर्वविद्यासु विशेषेण महत्तरम् ।
सर्वत्र सर्वदा तस्य जिह्वाग्रे भाति भारती ॥३.१२.८०

एकदोक्तं ठाकुरेण शृणुध्वं वचनं मम ।
आगत्यात्र मया सार्धं दार्शनिकाः सुपण्डिताः ॥३.१२.८१

तर्कारम्भस्य प्रागेव श्रुत्वैव मम भाषणम् ।
निरुद्धवाक्य सामर्थ्यात्तुष्णीं सन्ति सुविस्मिताः ॥३.१२.८२

किन्त्वसौ दिव्य धीशक्त्या प्रायः सम्वत्सरद्वयम् ।
तर्कयति मया सार्धं नाना वादयुतैर्भृशम् ॥३.१२.८३

मन्ये ममास्या लोलायाः प्रचारार्थं स्वयं हरिः ।
रामदासः समायातः श्रीराम पार्षदो महान् ॥३.१२.८४

अस्यैव देवतुल्यस्य नरेन्द्रस्य प्रचेष्टया ।
पृथिव्यां पूर्णतया मे प्रकाशः प्रचरिष्यति ॥३.१२.८५

एतदर्थं मह्यमपि नरेन्द्रायातिमानुषीं ।
प्रयच्छामि महाशक्तिं यया सर्वजयी भवेत् ॥३.१२.८६

केवलं मम कार्यार्थं महामाया विमोहितः ।
नान्यत्र गमने शक्तिं स्वशक्तिं नावबुद्धवान् ॥३.१२.८७

स्वोदरं पूरयित्वायं खादितुं क्षमते यदि ।
नूतनं स्वमतञ्चैकं स्थापयिष्यति निश्चितम् ॥३.१२.८८

श्रीनरेन्द्रं यदापश्यत् बाबा पावहारीनामकः ।
गाजीपुरप्रदेशस्थ महायोगी तदावदत् ॥३.१२.८९

भगवदवतारोऽयं गुणाश्चास्य महत्तराः ।
अस्य भर्त्सना वाक्यञ्च सर्वदा मे सुखायते ॥३.१२.९०

दारिद्र्य पालिता लोकाः परदुःखेन कातराः ।
भवन्तीति न्यायवशान्नरेन्द्रो यदि पश्यति ॥३.११.९१

आतुरः स्वं परं वासौ क्रन्दनं कुरुते ध्रुवम् ।
तद्दुःख मोचनार्थाय चकाराराधनं हरेः ॥३.१२.९२

अलौकिको गुरोर्भक्तिरीदृग्दृष्टो न केनचित् ।
यदारतस्तपस्यायां श्रीश्रोनरेन्द्रो हिमालये ॥३.१२.८३

गङ्गाधरस्य पीडाभिरत्यन्तं दुःखितोऽभवत् ।
येन तद्वैराग्यभावः सुदूरं गतवांस्तदा ॥३.१२.९४

परन्तु तं समुद्दिश्य तेनोक्तं सुमहात्मना ।
यद्यहं जीवनं दत्वा गुरुभ्रातुर्हि कस्यचित् ॥३.१२.९५

केशस्य रक्षणे शक्ती भवामि तेन मे ध्रुवम् ।
कोटि जन्म तपस्यायाः फलमेव भविष्यति ॥३.१२.९६

तपसः कण्टकायूयं यतो मे स्नेहभागिनः ।
स्थास्यामि यद्यहं सार्धं गुरुभ्रातृगणैरहो ॥३.१२.९७

एवमुक्त्वा ततोऽस्माकं मायां संछिद्य साधकः ।
स्वीकृत्य वृत्तिमाकाशं पदब्रजेन केवलम् ॥३.१२.९८

सम्पूर्णं भारतं वर्षं पर्यटामीति संवदन् ।
योगासनादि यत्किञ्चित् सर्वं सन्तज्य तत्क्षणात् ॥३.१२.९९

श्रदृश्यतां गतः साधुः केनापि न विलक्षितः ।
तुच्छोकृत्य शीतवात रौद्र वृष्ट्यादिजां व्यथां ॥३.१२.१००

अवसन्न शरीरश्चेत् प्राप्य देवालयं सुधीः ।
अथवा तरुमूलञ्च निद्रां याति सुखेन सः ॥३.१२.१०१

केवलं सम्बलन्तस्य गीतमेकं शुभप्रदम् ।
‘दरद न जानेकै मीरा अपना राम देयोयाली ॥३.१२.१०२

मूर्तिमतो वैराग्यस्य प्रतीकः पावकोपमः ।
शनै शनैर्भगवतो गुरोर्वाणीं प्रचारयन् ॥३.१२.१०३

राजपूतनाख्य देशे खेतडी नाम पत्तनम् ।
प्रविष्टवान् पादचारी सन्न्यासी ब्रह्म भावनः ॥३.१२.१०४

एको नरः समायातः साधुः सुप्रियदर्शनः ।
तवस्थ भूपतिश्चैवं श्रुत्वाग्रह समन्वितः ॥३.१२.१०५

सादरं तं समानीय स्वप्रासादेन्यवेशयत् ।
सन्तोषाय तस्य साधोः प्रसिद्ध गायिकाद्वयम् ॥३.१२.१०६

आनाययामास राजा बहु सभ्य समन्वितः ।
वैराग्यदीप्त सन्न्यासी गीतं वाराङ्गना मुखात् ॥३.१२.१०७

श्रवणेच्छा विहीनोऽपि श्रुतवान् राजगौरवात् ।
भावार्थन्तस्य गानस्य संक्षेपेनोच्यते मया ॥३.१२.१०८

पितुर्वाक्यं परित्यज्य यः पुत्रः स्वैरमाचरेत् ।
गर्हित स्त्रिषु लोकेषु पापी भवति निश्चितम् ॥३.१२.१०९

किन्तु नासीत्तथा भक्त प्रह्लादस्य महात्मनः ।
यदर्थमवतीर्णोऽसौ वैकुण्ठात् परमेश्वरः ॥३.११.११०

श्रीनृसिंह तनुं धृत्वा हिरण्यकशिपुं हरिः ।
जघान नखराघातैः किमाश्चर्यमतः परः ॥३.१२.१११

शिव ब्रह्मेन्द्रवरुण वायु चन्द्र यमादिभिः ।
कैरपि श्रीभगवतो भावोवोद्धुं न शक्यते ॥३.१२.११२

समदर्शी यतस्तं वै पापं नो बहु विस्तृतम् ।
क्षन्तव्यं पश्य भो साधो सज्जनस्य समानताम् ॥३.१२.११३

स्पर्शमनेः स्पर्शहेतोः पूज्य यो लौहविग्रहः ।
घातकस्यास्त्ररूपेण यो लौहो विद्यते करे ॥३.१२.११४

तावुभौ स्वर्णतां यातौ न भेदो दृश्यते तयोः ।
तथाद्य पापमुक्ताः स्मो भवतो दर्शनाद्वयम् ॥३.१२.११५

श्रुत्वा तत्र गायिकानां गानार्थं लज्जितोऽभवम् ।
यथा जलौकसामास्ये क्षारस्य पतनाद्भवेत् ॥३.१२.११६

न कस्यापि समीपेऽहं कदापि नतकन्धरम् ।
भवामि नारीमध्ये मे प्रथमोऽयं पराभवः ॥३.१२.११७

प्रेतयोनेः किन्नरस्य गन्धर्वस्याथवा तथा ।
इन्द्र चन्द्र यमादीनां देवतानाञ्च दर्शनम् ॥३.१२.११८

किमपि न तस्य चित्रं यस्यात्म दर्शनं भवेत् ।
हिमालय पर्यटने बह्वाश्चर्यं ददर्श सः ॥३.१२.११९

एकदा तद् गुरुभ्रातू रोगारोग्येच्छया सुधीः ।
चकार प्रार्थनां मातुः कालिकायाः समीपतः ॥३.१२.१२०

तत्राविर्मूय सा काली प्रोवाच तं सुयोगिनम् ।
अचिरं पुरयिष्यामि भोः पुत्र तव याचितम् ॥३.१२.१२१

श्रुत्वाप्येवं वचो देव्या नरेन्द्रोऽप्यवदत्तदा ।
कन्यैका कृष्णवर्णेयं मां प्रलोभ्य जगाम सा ॥३.१२.१२२

तथा वैवस्वते पथे यदा पर्यटने रतः ।
प्रेतयुग्मस्य संपश्यन् दुर्दशामतिदारुणाम् ॥३.१२.१२३

दयार्द्र हृदयः साधुः प्रार्थनामकरोत्तदा ।
यदि जप्तं यदि हुतं गुरवो यदि तोषिताः ॥३.१२.१२४

तत् फलेण तयोः सर्वपापनाशादनन्तरम् ।
प्रेतभावं गतवतोर्भूयात् स्वर्गोह्यनुत्तमः ॥३.१२.१२५

एवमुक्ते तदातस्मिन् श्रीनरेन्द्रे महात्मनि ।
प्राप्य दिव्यवपुस्तौ द्वौ नरेन्द्रस्य जयध्यनिम् ॥३.१२.१२६

भूयोभूयः प्रकुर्वन्तौ दिव्यलोकं गतौ मुदा ।
एवमलौकिकं कृत्यमकरोत् स नरोत्तमः ॥३.१२.१२७

स्वस्य पूर्वं तपस्यायाः स्थानं दृष्ट्वा भवेद् यदि ।
यावज्जीवं समाधिस्थः कथं तर्हि भविष्यति ॥३.१२.१२८

श्रीरामकृष्णचरितं वेदभाष्यं सुनिर्मलम् ।
विचिन्त्यैवं महामाया तस्य नरोत्तमस्य वै ॥३.१२.१२९

विशालागमने विघ्नं जनयामास कालिका ।
तेन साधुः पुनः प्रायाद् हृषोकेशं महामतिः ॥३.१२.१३०

अत्र स्थितो योगयुतो योगी नियत मानसः ।
योगिनां दुर्लभं योगं निर्विकल्प समाधिजम् ॥३.१२.१३१

चिरकाङ्क्षित योगन्तं लब्धानन्द परिप्लुतः ।
देहात्मबुद्धिं विस्मृत्य तस्थौ स्थानुरिवाचलः ॥३.१२.१३२

न स्पन्दनं प्राणनाड्यास्तथा नासाऽनिलस्य च ।
गतासुमित तं दृष्ट्वा निर्विकल्प समाधिना ॥३.१२.१३३

विह्वलिता वयं सर्वे ह्यभूम स्तस्य चिन्तया ।
परेऽह्निव्यत्थितोभुत्वाऽवददेवं मुदायुतः ॥३.१२.१२४

समाधे निर्विकल्पस्य रसास्वादः सुधोपमः ।
श्रीगुरोरुपदेशेन वारमेकं कृतो मया ॥३.१२.१२५

कृतास्वादो द्वितीयोऽस्य गुरोरन्तर्हितेऽपि च ।
धन्योऽस्मि कृतकृत्योऽस्मि सफलं जीवनं मम ॥३.१२.१२६

गुरोर्वचः सत्यमसत्यमन्यदुच्चैर्वदन्नित्यमनन्य चित्तः ।
प्रचारयन् मत्त इवामरात्मा वाणीं गुरो गति यत्र तत्र ॥३.१२.१३७

एवं भ्रमन् भारतवर्ष भूमौ कालेन तद्देशमवाप साधुः ।
यत्राम्बिकायास्तपसा विशुद्धं कुमारिका क्षेत्रमतीव पुण्यम् ॥३.१२.१३८

तस्मिन्ददर्शाति गभीरसिन्धोस्तरङ्गभङ्गायितं तीरभूमिम् ।
यूनोर्यथा नूतन दारकृत्य प्रमत्त भावान्मृदितां वराङ्गनाम् ॥३.१२.१३९

अहोऽत्र देवाः प्रचरन्ति नित्यं सन्त्यत्र नारायणवासभूमिः ।
मस्त्यत्र भक्ता बहवः सुसिद्धा नारायण ब्रह्म च विद्यतेऽत्र ॥३.१२.१४०

सवै तदा दक्षिणभारतस्य दण्डायमानो जलधेः सुतीरे ।
अनन्तदुर्दान्ततरङ्गदृष्टेरानन्द सिन्धावतिमज्जितोऽभूत् ॥३.१२.१४१

भावस्तदा तस्य हृदस्तथाभूत् येनास्थिरस्तज्जलधी नरेन्द्रः ।
अचिन्तयित्या स्वतनो विपत्तिं झम्पं ददौ दृप्ततरङ्गपूर्णे ॥३.१२.१४२

तीरस्थिताः सर्वजनाः सुभीता अप्यस्य भावेन विभावितस्य ।
चित्तस्य चाञ्चल्यमहो न जातं शङ्का न जाता जलमज्जनाच्च ॥३.१२.१४३

बाहुप्लवेनैव सुतर्तुमिच्छन् समुद्र मध्ये गतवान् महात्मा ।
तत्र प्रवालस्य गिरिं विलोक्य क्रमेण तत्रोपविवेश साधुः ॥३.१२.१४४

ये साधकाः सन्ति कुमारिकायां वदन्ति चैवं जगदम्बिका सा ।
शैव व्रतञ्चाव चकार देवी कुमारिका मूर्ति परिग्रहेण ॥३.१२.१४५

योगासने योगायुतः स तत्र द्वीपे प्रवालस्य घटीत्रयं हि ।
मन्ये कृपां प्राप्य गुरोस्तदानीं तस्थौ महानन्दमना महात्मा ॥३.१२.१४६

ज्ञात्वा तदा तस्य मही विपत्तिं कैवर्तमुख्यः पुरुष महान्तं ।
सहावधानं प्लवमध्यमांशे तं स्थापयित्वा तटमानिनाय ॥३.१२.१४७

इति श्रीरामेन्द्रसुन्दर भक्तितीर्थं विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां नरावतार श्रीनरेन्द्रस्याविर्भाव समये स्वर्ग पतित ज्योतिषैवास्य सम्भव इति ठाकुर सिद्धान्तः । पावहारी बाबा नामक साधुरपि भगवदवतारोऽयमिति निर्धारितवान् । गवर्णमेण्ट शिक्षा विभागीय सर्वोच्च पद भूषित श्रीभूदेव मुखोपाध्याय देवशर्मणा पण्डित वर्येण काशीक्षेत्रे नरेन्द्राय भारतरत्न इतुपाधिः प्रदत्तः । केशव सेनादि समागमः । हृषीकेश क्षेत्रे निर्विकल्प समाधिः पदब्रजेन भारतवर्ष पर्यटनम् । वैवस्वतदिशि युग्म प्रेतोद्धारणम् । कुमारिका क्षेत्रे समुद्र मध्ये तपश्चरणम् । पुनस्तीरप्राप्तिरूपोऽन्त्य लीलाया द्वादशोऽध्यायः ॥१२॥