परिशिष्टम्


हरिः ॐ तत् सत्


एवं श्वेताङ्ग प्रदेशे विषाददैनाभ्यां विह्वलिते नरेन्द्रे
    प्रभुर्भक्तवत्सलो भगवांस्तत्काले तदन्तरे दर्शनं दत्वा प्रोवाच ।
प्रदर्श्य स्व स्वरूपं श्रीनरेन्द्राय महात्मने
    प्रोवाच भगवान् साक्षाद्दैन्यं हि फलसाधनम् ॥१॥

दैन्येन पीडितो यो हि विषादं नाधिगच्छति ।
स एव सत्फलं लब्धा शान्तिमेष्यति निश्चितम् ॥२॥

नानोपचारैमंद्भक्तैरर्चितोऽपि मयाऽधुना ।
त्वदर्थं त्रिदिनं यावदुपवासः कृतो ध्रुवम् ॥३॥

भक्ष्य भोज्य लेह्य पेय वस्त्राणि विविधान्यपि ।
द्रव्यं बहुविधं वत्स प्राप्स्यस्याद्यैवनिश्चितम् ॥४॥

मत् प्रसादाच्च वै सर्वान् पाश्चात्य पण्डितानपि ।
मत् कथामृत संघातैर्जित्वा ख्याति मवाप्स्यसि ॥५॥

स्व स्वरूप नरेन्द्राय भगवान् भक्त भक्तिमान् ।
आश्वास्य निर्मलं ज्ञान प्रदायान्तर्हितोऽभवत् ॥६॥

ततः साश्रुनयनः श्रीनरेन्द्रो गुरुकृपालाभेनापारानन्दसमुद्रनिमग्नो
    यदा तिष्ठति तस्मिन्नेव समये नाधिक वयाः काप्येका ।
श्वेताङ्गिनी समालोक्य भ्राजमानं नरोत्तमम्
    मनसा चिन्तयामास तेजसा तस्य मोहिता ॥७॥

अहो रूपमही सत्वमहो धैर्यमहो द्युतिः ।
साक्षादेतस्यवपुषि विद्यते चिह्नमैश्वरम् ॥८॥

दृष्टामिती यशस्तस्य प्रभावं पद्मलोचना ।
चिन्तां बहुविधामित्थं कृत्वा सा विदुषी तदा ॥९॥

तस्य समीपमागत्य स्पृष्टवत्यति यत्नतः ।
को भवानिह संप्राप्तः किमर्थं निःस्ववत् स्थितः ॥१०॥

श्रुत्वा तस्याः प्रश्रयात्तां मनोज्ञां वाचं स्मृत्वा श्रीगुरोश्चापि साधुः ।
चन्द्रीयद्वत्पूर्णरूपः प्रदीप्तस्तद्वद्दीप्तः श्रीनरेन्द्रो वभाषे ॥११॥

उवाच तां हे भगिनि त्वयाद्य धन्योऽस्मि नात्रास्ति सुहृज्जनो मे ।
आराध्य देवस्यगुरोः प्रसादादिहागतोऽहं ह्यजनाभवर्षात् ॥१२॥

श्रुतं मयाचात्र सभासदस्ते चक्रुः सभां यत्र समग्र विश्वात् ।
धर्मप्रवक्तुं खलु धर्मविज्ञाः समागता धर्मपरीक्षणाय ॥१३॥

अतो दुराशा मम चास्ति चित्ते किञ्चिद्वदिष्यामि गुरोर्वचांसि ।
तस्यां सभायां खलु दुर्भगस्य को वा प्रवेशानुमतिं प्रदद्यात् ॥१४॥

श्रुत्वा मनोऽभीष्टकथां सुसाधोः कृत्वादरं वै निजगेहमध्ये ।
प्रवेश्य तं काङ्क्षित वस्तुदानैः पूजाञ्चकारास्य मनस्विनी सा ॥१५॥

एवमातिथ्य सत्कारानन्तरं शास्त्रसम्मत सदालाप मात्रेणैवावगतवती अयमेको भारतीय महामनस्वी सद्धर्मयाजक् अपरोक्षी कृतेश्वर स्वरूपः अस्य धर्म व्याख्या च चमत्कारकारिणी श्रवणमात्रेण सर्वेषामत्यानन्ददायिनी तथाभिनव रूपा च ।

विदित्वैवं नरेन्द्रमुवाच ।

संप्रहृष्यामि दृष्ट्वा धर्मवक्तारमीदृशम् ।
अर्धसञ्जात शस्येव वृष्टिं प्राप्य वसुन्धरा ॥१६॥

ततः प्रातः समुत्थाय साधोः प्रवेश हेतवे ।
महासभायां सश्रद्धं सर्वथा चेष्टिता भवत् ॥१७॥

स्वकीय बन्धुवर्गेभ्यो विद्वद्भ्योऽज्ञापयन् मुदा ।
तुल्येश्वरः साधुवरः सर्वविद्या विशारदः ॥१८॥

मद गेहे साम्प्रतं भाति पूर्वपुण्यबलेन मे ।
नयाद्येमं सुवक्तारं सभागौरवं वृद्धये ॥१९॥

ततो महासभायां वक्तृता प्रारम्भे गुरुप्रणामाद्यनन्तरं पाश्चात्य सभ्यसमूहान् समुद्दिश्य सानन्दमुक्तवान् स्वामिजी । भो मम अमेरिकादि वासिनो भ्रातृवर्गी भगिनीवर्गाश्च एवं सम्बोधन वाक्योच्चारणात् परमेव सभास्थ श्वेताङ्ग सभ्यानामन्तरे तडिदिवानन्द प्रवाह उदितश्चाभूत् परन्तु सर्वे श्रोतृवर्गाः कियत्क्षणमुच्चस्वरेण तं स्वामिजीं समुद्दिश्य साधुवादं प्रदत्तवन्तः ॥२०॥

कामिनीकाञ्चन सेविनां सत्यधर्म स्वरूप विज्ञाने मतिभूर्या तदर्थं तत्र सप्ताहकालमध्ये दशपञ्चदश वा वक्तृता अददात् । प्रत्येक वक्तृतायां स्वगुरो: परमहंस स्व साधकानां साधनार्थ मतानि यानि सन्ति तानि सर्व्वानि कर्मानि भवन्तीति मत मम ॥२१॥

अस्यैव गुरुवाक्यस्य प्राधान्यमवलम्ब्य पौराणिकीं वार्त्तामपि ।
तव संयोज्य तत्रतत्र सभायां गुरुसम्मतमतमेवोक्तवान् ॥२२॥

स्वच्छन्दप्रियश्वेताङ्गधर्मयाजकाः स्थानान्तर गमने बहुतर द्रव्याणि जातानि संगृह्य गमन् पथि चान्तरन्तरा आहारादि व्यवस्थांचक्रुः ॥२३॥

किन्तु वैराग्यविग्रह स्वामी विवेकानन्दस्तादृगाडम्बरं न कृतवान् । परन्तु स्वामि पादेनोक्तं गुरोः कृपया प्रतिगृहं पितरौ तिष्ठतः कस्मादत्र वस्त्राद्यर्थमहमु द्विजेय । अस्य भारतभूमि दैवत स्वामिपाद विग्रहस्य त्यागशीलतां ईश्वर निर्भरताञ्च दृष्ट्वा श्वेताङ्गसाधारणा विस्मिताः सन्तः अब्रुवन् ॥२४॥

अयं भारतीय सन्न्यासी असाधारण मानवः । ईदृश महापुरुष देशस्य जनानां सभ्यता सम्पादनार्थं श्वेताङ्ग धर्मप्रचारक प्रेरणं निरर्थकं मन्यामहे वयम् । इतः पूर्वं भारतवासिनो ये सर्वे विद्वांसः पाश्चात्य देशं गतवन्तस्ते सर्वे जडविज्ञानस्य बाह्यसौन्दर्येण विमोहिताः सन्तः पाश्चात्यानामेव पूजां कृत्वा पुनर्भारतवर्षे प्रत्यागतवन्तः ॥२५॥

किन्तु एक एव स्वामिपादो विवेकानन्दः पाश्चात्यानां स्वधर्मभावधारां प्रायो विलुप्तां विधाय श्वेताङ्गीयानां सादर पूजां गृहीत्वा गुरुर्भूत्वा गुरुदक्षिणामपि संगृह्य अत्र भारते प्रत्यागमनं कृत्वा भागीरथ्या गङ्गायाः पश्चिमे तीरे वेलुडाख्यपत्तने अत्युच्च मठं निर्माय ॥२६॥

तत्र स्वयं भगवतः श्रीगुरोः परमहंस श्रीश्रीरामकृष्ण देवस्य शैलीं मूर्तिं प्रतिष्ठाप्य पृथिव्याः परममङ्गलं चन्द्र दिवाकर स्थिति पर्यन्तं स्मृति मतीं भारतवर्षस्य गौरव पताकां स्थापयामास स्वामिपादः ॥२७॥

अथ स्वयं भगवतः श्रीरामकृष्णदेवस्य मूर्त्यन्तरविशेष समग्र जगति सनातन धर्मस्यैव श्रेष्ठत्व प्रतिपादक नरावतार स्वामिपाद विवेकानन्दस्य शेष परिचयः । अतो नरेन्द्रः सकलाय सिद्धिं गतो महात्मा गुरुशक्ति लाभात् । पाश्चात्य देशे विदुषः सभायां गुरुत्वमाप्तो गुरुवाक्य दानैः ॥२८॥

आचार्य मुख्या वहवोऽत्रजाता वर्षेऽजनाभे जगतो वरेण्याः ।
नान्यस्य कस्यापि यथास्य साधोः सौभाग्यसूर्यस्य महोदयः स्यात् ॥२९॥

अस्याविर्भावतः पूर्वं मात्रा यत्समनुष्ठितम् ।
शैवव्रतं शिवक्षेत्रे तदभूद्रोमहर्षणम् ॥३०॥

तद्व्रेतफलरूपोऽसौ नरेन्द्रः शिवशक्ति धृक् ।
आविर्भूय स्वस्य गुरो सङ्गादापकृतार्थताम् ॥३१॥

मन्यमानस्तदीयान्तां भावधारां सुजीविताम् ।
कृतवान् श्रीगुरोः प्रीत्ये प्राणपाति परिश्रमैः ॥३२॥

श्रीनरेन्द्रो नरश्रेष्ठः श्रेष्ठ वार्त्तावहः प्रभोः ।
लब्धा प्रतीच्य सम्मानमसमोर्द्धममानवः ॥३३॥

गौरवं वङ्गदेशस्य वर्धयामास तत्र वै ।
श्रीरामकृष्ण देवस्य माहात्म्यमप्यलौकिकम् ॥३४॥

भूत्वा विश्वजयीचासौखिन्नेन मनसा वदत् ।
पाश्चात्य शिक्षया सर्वे वयं सन्देहभागिनः ॥३५॥

धर्मस्य विमलं तत्वं स्वल्पेन ज्ञातुमक्षमाः ।
भवामी येन चित्तस्य मालिन्यं नापसर्पति ॥३६॥

सरलश्चेतसाबालो यथा श्रीठाकुरस्तथा ।
शिक्षाशून्योऽपि जगतो गुरुः साधारणोऽप्यसौ ॥३७॥

ठाकुरेणैकदोवाच श्रीनरेन्द्रो महामतिः ।
स्व स्वरूपं यन्मुहूर्तं ज्ञातुं शक्तो भविष्यति ।
तद्दण्ड एव देहादींस्त्यक्त्वालोकं गमिष्यति ॥३८॥

प्रत्यक्षं वै विमल मनसां भूतभव्यादि सर्वम्
    तस्मात्तस्मिन्नहनि सुमहान् स्वप्रयाणं विदित्वा ।
सायंकाले गुरुपदमहो चिन्तयित्वा स्वगेहम्
    त्यक्त्वाद्यासौ भजनमकरोन्ममन्दिरे श्रीनरेन्द्रः ॥३९॥

शुद्धं यद्वरणीय रूपममलं यल्लभ्यते योगिभिः
    मन्येऽसौ गुरुदत्त मन्त्रमहसा संप्राप्य दुर्लभम् ।
कालं कञ्चन तत्र तन्मयतया स्थित्वानुभूयार्थदम्
    सानन्दं बहिरागतो भगवतः श्रीमन्दिरान्मुक्तिदात् ॥४०॥

प्रत्यागत्य पुनः स्व मन्दिरमहो संभूज्य तन्निर्मलम्
    गुर्वर्थे विनिवेदितं नरसुरः सुस्वादु भोज्यञ्च सः ।
द्वारन्तस्य गृहस्य कीलकयुतं कृत्वा स्वशय्यान्तरे
    प्राणायामयुतः समाधिमगमद् योगासने यौगिकम् ॥४१॥

अस्मानप्यवदत् समाधि परमो यास्यामि यस्मिन् क्षणे
    हित्वा श्रीगुरु पादपद्म सविधे भूतोत्थ देहं त्वहम् ।
नो युष्माभिरनुप्रमाणमपितज् ज्ञातुं सुशक्यं भवेत्
    हा हा भूदधुना त्वदीय वचसो याथार्थ्यमेवंविधम् ॥४२॥

अस्येदृक् कठिनः समाधिरभवद् येनास्य देहात्ययो
    यस्याधो गृहसंस्थिता वयमहो स्वप्नेऽपि तच्चेष्टितम् ।
न ज्ञातुं खलु शक्नुमः किमधिकं सर्वस्वनाशं गताः
    रात्रौ स्वापविमोहिताः सुतपसः कालेऽभवन् वञ्चिताः ॥४३॥

प्रातः कृत्य समापनात् परमहो चाञ्चल्यमाप्ता वयम्
    निःशब्दं महतो गृहं समभवत् कस्माद्धठादस्य वै ।
मत्वैवं द्वितलं गताः करतलैर्द्वारस्य सम्पीडनम्
    कृत्वाप्यस्य न किञ्चिदुत्तरमहो लब्धा भवन् विस्मिताः ॥४४॥

ततः कवाटं कठिनं विभेद्य प्रविश्य गेहं तदपूर्वरूपं
सौगन्धयुक्तं शतचन्द्रशुभ्रं समाधियुक्तं ह्यवलोकयामः ॥४५॥

शय्यायामुपवेशनं कृतवतो योगासने पूर्ववद्
    दृष्ट्वा तस्य सुरूपममलं शान्तं शिवं शान्तिदम् ।
नासारन्ध्र विनिर्गतं कियदहो शोनञ्च शङ्कान्विताः
    सर्वास्चर्यमयस्य देव वपुषः कान्त्याभवन् घर्षिताः ॥४६॥

दृष्टैवं गत जीवनं वयमहो सर्वेऽपि मन्यामहे
    शुद्धात्मा खलु संविभेद्य सहसा ब्रह्माख्यरन्ध्रं तदा ।
तद्विष्णोः परमं पदं सुविमलं संप्राप्तवान् साम्प्रतम्
    यत्रास्ते भगवान् स्वभक्त सहित श्रीरामकृष्णो हरिः ॥४७॥

यश्चैवं सकलं विहाय मतिमान् ज्ञानोदयात् श्रीगुरोः
    सेवार्थं निज जीवनं निज जनं तत्पादमूलं श्रितः ।
यत् कृत्यं सुरमानवादि सकलैः कर्तुं न शक्यं भवेत्
    तत् कृत्यं ह्यवलीलया गुरुतरं सम्पादयामास सः ॥४८॥

एतादृक परलोक सङ्गति विधी यत्नः कृतः स्वेच्छया
    दृष्टं न च संश्रुतं नरसुरैः कैश्वापि कुत्राधुना ।
अत्याश्चर्यमिदं मृतोऽप्यमरवत् स्थैर्ये सदा शैलवत्
    तिष्ठत्यस्य मनोज्ञ मूर्तिमहसा पूर्यं वभौ तद् गृहम् ॥४९॥

अहो नरेन्द्रः कृपया प्रभोः स ख्यातः पृथिव्यां सुविशुद्ध मूत्तिः ।
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्नरेन्द्रतः कोऽप्यधिकोऽस्ति लोके ॥५०॥

स सद्विवेकेन सतां गरिष्ठो गुरोर्गुणान् गायति यत्र तत्र ।
जितारि षड्वर्ग युवा महोयानुरुक्रमो वह्निरिव प्रदीप्तः ॥५१॥

योऽस्मद्देश विदेश रत्न परमः श्रीरामकृष्णस्य सः
    देहस्थेन्द्रियतुल्य सौख्य परमाधारश्च हार्द्दीह्ययम् ।
स्वामिजीति नितान्त बालिशजनैः प्रोक्तोऽति पूज्यो महान्
    धीराणां परिषत्सुमानबहुलः पाश्चात्य देशे स्वयम् ॥५२॥

गत्वा शास्त्रविचार युक्तिनिकरैस्तत्र प्रसिद्धिं गतो
    म्लेच्छानामपिकर्ष कः पुनरहो प्राप्तो गुरुत्व' सुधीः ।
कर्मज्ञान विशुद्ध भक्तिलिखने व्यासस्वरूपोऽभवत्
    येनाभूद विपुलो मठो भगवतः श्रीरामकृष्णस्य सः ॥५३॥

नरोत्तमः श्रीनरेन्द्रो नरः किमथवाऽमरः ।
नरनारायणोवापि भवद्भिरवधार्यताम् ॥५४॥

इति श्रीरामकृष्ण भागवते परिशिष्टाध्यायः समाप्तश्चायं श्री श्रीरामकृष्ण भागवतग्रन्थश्च ।