5.16 THE HOROSCOPE OF SRI RAMAKRISHNA
By Narayanachandra Jyotirbhushana
शुभमस्तु। शकनरपतेरतीताब्दादयः १७५७ । १० । ५ । ५९ । २८ । २९ । सन १२४२ साल। एतच्छकीय-सौर-फाल्गुनस्य षष्ठदिवसे, बुधवासरे, शुक्लपक्षद्वितीयायां तिथौ, पूर्वभाद्रपदनक्षत्रस्य प्रथमचरणे, सिद्धयोगे, बालवकरणे, एवं पञ्चाङ्गसंशुद्धौ रात्रि-चतुर्दशविपलाधिकैकत्रिंशद्दण्डसमये (अयनांशोद्भव-शुभकुम्भलग्ने लग्न स्फुटराश्यादिः १० । ३ । १९' । ५३'' । २०''') शनैश्वरस्य क्षेत्रे सूर्यस्य होरायां सूर्यसुतस्य द्रेक्काण शुक्रस्य नवांशे बृहस्पतेर्द्वादशांसे कुजस्य त्रिंशांशे एवं षड्वर्गपरिशोषिते पूर्वभाद्रपद-नक्षत्राश्रितकुम्भराशिस्थिते चन्द्रे बुधस्य यामार्द्धे जीवस्य दण्डे कोणस्थे गुरौ केन्द्रस्थे बुधे चन्द्रे च लग्नस्थे चन्द्रे त्रिग्रहयोगे धर्मकर्माधिपयोः शुक्रमौमयोः तुङ्गस्थितयोः वर्गोत्तमस्थे लग्नाधिपे शनौ च तुङ्गे पराशरमतेन तु राहुकेत्वोस्तुङ्गस्थयोः (यतः उक्तं "राहोस्तु वृषर्भ केतोर्वृश्चिकं तुङ्गसंगितम्" इत्यादिप्रमाणत्) अत एव उच्चस्थे ग्रहपञ्चके असाधारणपुण्यभाग्ययोगे शुक्लपक्षे निशि जन्महेतोः विंशोत्तरी-दशाधिकारे जन्म एतेन बृहस्पतेर्दशायां तथा देशभेदेन दशाधिकारनियमाच्च अष्टोत्तरीयराहौर्दशायां अशेषगुणालङ्कृत-स्वधर्मनिष्ठ-क्षुदिरामचट्टोपाध्याय-महोदयस्य (सहधर्मिणी-दयावती-चन्द्रमणिदेवी-महोदयायाः गर्भे) शुभः तृतीयपुत्रः समजनि।
तस्य राश्याश्रितं नाम शम्भुरामदेवशर्मा। प्रसिद्धनाम गदाधरचट्टोपाध्यायः। साधनासिद्धिप्राप्त-जगद्विख्यातनाम श्रीरामकृष्णपरमहंसदेवमहोदयः॥
जन्मकुण्डली —
जन्मकोष्ठीफलम् —
धर्मस्थानाधिपे तुङ्गे धर्मस्ये तुङ्गखेचरे।
गुरुणा दृष्टिसंयोगे लग्नेशे धर्मसंस्थिते॥
केन्द्रस्थानगते सौम्ये चैव तु कोणभे।
स्थिरलग्ने यदा जन्म सम्प्रदायप्रभुर्हि सः॥
धर्मविन्माननीयस्तु पुण्यकर्मरतः सदा।
देवमन्दिरवासी च बहुशिष्यसमन्वितः॥
महापुरुषसंज्ञोऽयं नारायणांशसम्भवः।
सर्वत्र जनपूज्यश्च भविष्यति न संशयः॥
इति भृगुसंहितायां सम्प्रदायप्रभुयोगः तत्फलं च॥
Sri Ramakrishna was born in the year A.D. 1836 on the 2nd day of the bright fortnight of the month when the sun was in the zodiac of Aquarius (Kumbha — February 18), early in the morning at about 5 a.m His birth took place when it was Siddhi Yoga owing to the auspicious union of Sukla Dwitiya with Purvabhadrapada Nakshatra. His natal star was Purvabhadrapada (Pegasi), the twenty-fifth lunar mansion. In his Janmalagna, i.e., in the zodiac at the time of his birth, there was the conjunction of the three planets, viz., the Sun, the Moon and Mercury (Surya, Chandra and Budha) and the other three planets, namely, Venus, Mars and Saturn (Shukra, Mangala and Shani) were in exaltation in the 12th, 10th, and 7th houses respectively. And again, according to the sage Parasara, the planets Rahu and Ketu (two other ascending nodes of the moon) also occupied the highest positions as they were in the 2nd and 8th houses respectively; Jupiter (Brihaspati) occupied the 3rd house and so it had a tendency towards ascendancy (Tungavilasi). The result of this natal arrangement of the planets is, according to Bhrigu Samhita, that the man becomes the head of a religious movement, virtuous, highly honoured, always engaged in doing virtuous deeds; he lives in a temple, and gets a large following of disciples; he is called a great man by all, and is born of the spirit of Lord Narayana; he is worshipped by all.