मुखबन्धः

अथ स्वगुण निर्देशरूपा पञ्चमावल्ली


त्रेतायुगे दाशरथिः श्रीरामो भगवान् स्वयम् ।
वैकुण्ठं सम्परित्यज्ययोध्यायां मुक्तिधामनि ॥५.१॥

आविरासीद्वधायैव राक्षसानां दुरात्मनाम् ।
सद्धर्मसंरक्षणाय प्रजानां रञ्जनाय च ॥५.२॥

आविरासीत् कलौ तद्वत् कामार्पुकुरे प्रभुः ।
गदाधर इति स्यातो लीलार्थं रघुनन्दनः ॥५.३॥

अतीत द्वापरयुगे यथा श्रीभगवान् स्वयं ।
गोलोकादाव्रजत् कृष्णः स्वधाम् व्रजमण्डलम् ॥५.४॥

पित्रादिस्वगुणैर्युक्तः सच्चिदानन्द विग्रहः ।
या या लीलाश्चकारासौ व्रजे मधुपुरे तथा ॥५.५॥

द्वारकायां विशेषेण महिषीवृन्द संवृतः ।
वङ्गदेशान्तरेचात्र कामारपुकुरे प्रभुः ॥५.६॥

कलिकाता नगर्याश्च तथा श्रीदक्षिणेश्वरे ।
आदि मध्यान्तर लीलायत्तद्रूपा कृतवान् स्वयम् ॥५.७॥

भगवान् रामकृष्णस्तु पूर्वैः परिकरैः सह ।
क्षुदिरामः पिताचास्य वसुदेवोऽस्य देवकी ॥५.८॥

चन्द्रादेव्यस्य जननी ज्येष्ठ भ्राता महाबलः ।
श्रीरामकुमारश्चात्र बलभद्रो न संशयः ॥५.९॥

रामेश्वरो महादेवः श्रीगोपेश्वर संज्ञकः ।
व्रजे नित्या स्थितिर्यस्य कृष्णलीलेक्षणाय च ॥५.१०॥

कात्यायनी महामाया श्रीकृष्ण भगिनी च या ।
श्रीमती जानकी देवी श्रीमती या च राधिका ॥५.११॥

सा एव सारदादेवी लीलासम्पूर्त्तिकारिणी ।
यशोदा भैरवीदेवी वात्सल्याधाररूपिणी ॥५.१२॥

भगिनी रामकृष्णस्य साक्षात् श्रीः सर्वमङ्गला ।
जटाधारो रामलालाविग्रहस्य सुसिद्धिदः ॥५.१३॥

श्रीरामचन्द्रमन्त्रन्तुयस्माज्जग्राह मे प्रभुः ।
ब्रह्मर्षिः श्रीवशिष्ठस्तु तोतापुरीति नामकः ॥५.१४॥

श्रीरामकृष्णदेवस्य गुरुर्योद्वैत साधकः ।
हृदयो हलधारी च मुख्यभावेन सङ्गती ॥५.१५॥

श्रीदामः श्रीलक्ष्मणश्च मिलितौ तत्सहायकौ ।
यथा श्रीरामलीलायां सागरं शत योजनम् ॥५.१६॥

लङ्घयित्वा राम कार्यमकरोत् स महाकपिः ।
महावीरो रामदासः श्रीरामादपि शक्तिधृक् ॥५.१७॥

तथात्र श्रीनरेन्द्रस्तु श्रीरामकृष्णसेवकः ।
श्रीरामकृष्णदेवस्य कृपया करुणा निधिः ॥५.१८॥

गत्वा सिन्धोः पारमपि रामकृष्णकथामृतं ।
ददौ तज्जडवादिभ्यो येन ते नरतां गताः ॥५.१९॥

स्वयं रूपेणावतीर्ण श्रीरामकृष्ण नामधृक् ।
अभवद्धर्मरक्षार्थं जीवानां मुक्ति हेतवे ॥५.२०॥

कलौ पीतावतारोऽयं ऋषिवाक्यानुसारतः ।
यन्नामतो ध्रुवामुक्तिर्भविष्यति न संशयः ॥५.२१॥

इति श्रीभगवतः श्रीरामकृष्णदेवस्य स्वगण निर्देशरूपा पञ्चमावल्ली ॥५॥