श्रीसारदादेवीचरितम्

जगति मातृत्वस्य प्रसारः

श्रीमातुर्दैनिकं जीवनमनुपममासीत् । सर्वदैव सा किञ्चित्कार्यमकरोदेव । आलस्ये व्यर्थवार्तायां वा समयं यापयन्ती न कदाप्यसावदृश्यत । प्रतिदिनं रात्रौ प्रायशस्त्रिवादनकाले जागरणस्य तस्या दक्षिणेश्वरादेव अभ्यासोऽभवत् । शरीरस्य अस्वास्थ्येऽपि सम्भवतः कदापि नियमेऽत्र व्यतिक्रमो न दृष्टः । उत्थायैव सा प्रथमं श्रीठाकुरस्य दर्शनं, ततोऽपि च देवतानां प्रणाममकरोत् । ततश्चाऽसौ प्रातःकृत्यादिभ्यो विनिवृत्ता श्रीठाकुरं शयनात् जागरयित्वा स्वयं जपं कर्तुमुपाविशत् । प्रातःकाले सम्प्राप्ते स्वहस्तेनैव सर्वान् पूजासम्भारान् सङ्गृह्य अष्टवादनात्पूर्वमेवासौ पूजायामुपविवेश । पूजासमाप्तेरनन्तरं स्वहस्ताभ्यामेव साधुभ्यो भक्तसन्ततिभ्यश्च पत्रपुटकेषु प्रसादं प्रेषयत् । अस्याभ्यन्तरात् एव भक्तसमागमाः, दर्शनदानानि दीक्षाप्रदानानि, धर्मोपदेशाः, शोकातुरेभ्यः सान्त्वना प्रदानादीनि च प्राचलन् ।

श्रीमातुः पूजाया विधानमवलोक्य सर्वे जना इदमालोचयन् यत् श्रीमाता श्रीठाकुरमूर्तिं न जीवितठाकुरं यथा दक्षिणेश्वरे परिचारयते स्म –तथैव पर्यचरत् । भोगगृहे अन्नादिसज्जीकरणानन्तरं यदा श्रीमाता श्रीठाकुरमन्यान्यदेवताश्चाह्वयते स्म तदानीमेकं स्वर्गीयदृश्यमुपतस्थौ । लज्जाशीलनववधूसमाना श्रीमाता श्रीठाकुरसमीपमुपस्थाय प्रार्थयत् – ‘भोजनार्थमागम्यताम् ।‘ इति । पुनः बालगोपालमूर्तिसमीपमुपस्थायावोचत् — “आगच्छ गोपाल ! भोक्तुमागच्छ ।” एवं प्रकारेण भोजनार्थं सर्वानाहूय यदाऽसौ भोगगृहमगच्छत् तदा तदीय भावमवलोक्यैतदविज्ञायत यत् सत्यमेव सर्वे देवा भोजनार्थं तत्पृष्ठतो ययुः । कदाचित् प्रसादे मिष्टान्ने समाप्तिं गते भक्तेभ्यो मिष्टान्नं देयमस्तीति श्रीमाता त्वरितमेकस्मिन् पत्रपुटके मिष्टान्नं गृहीत्वा श्रीठाकुरस्य पुरतः समागत्याब्रवीत् – “ठाकुर, भुज्यताम् ।” दृश्यमेतन्निभालयतः पुरुषस्य मनस्यभिनवभावस्यैकस्यान्दोलनमिव समभवत् । ‘छाया काया’ इति माता व्याहरत् । तस्याः समक्षे छाया सर्वदैव दिव्यकायारूपेण प्रत्यभासत ।

एकदा श्रीमाता कलिकातातो जयरामबाटीं गच्छन्ती बभूव । विष्णुपुरे दिनद्वयं विश्रामानन्तरं सा प्रातरेव वृषभशकटीभिः षड्भिः सर्वानपि सहैव नयन्ती प्रतस्थे । क्रोशचतुष्टयदूरे जयपुरचट्टीस्थाने मध्याह्नभोजनस्य व्यवस्थाऽभवत्। चुल्हिकायां मृद्भाण्डे भक्तं पाच्यते स्म । चुल्होतोऽवतारणसमये सहसा हण्डिका भग्ना ओदनफेनानि च भूमौ प्रसृतानि । किन्तु श्रीमाता तेन किश्चिदपि न विचचाल । सा पलालस्यैकं गुच्छकमादाय फेनानि मार्जयितुमारेभे । ततश्च हस्तौ प्रक्षाल्य श्रीठाकुरस्य चित्रं पेटिकातो निस्सार्यैकत्रोपावेशयत्। एकेन काष्ठेन ततः किश्चिदोदनं पत्रोपरि स्थापयित्वा सूपं शाकं च दत्त्वा श्रीठाकुरस्याभिमुखं संस्थाप्य करौ बद्ध्वा श्रीमाता जगाद – “अद्य भवतैतत्प्रदत्तम् । तर्ह्येतदेव किञ्चिदुष्णं सत्वरं भुज्यताम् ।” श्रीमातुरिमां लीलामवलोक्य सहवासिनो जहसुः । कीदृशी सहजसुन्दरदेवसेवेयम् ! सर्वथैवात्मवदास्ते । कीदृशी चाद्भुता समयोपयोगिनी व्यवस्था । श्रीरामकृष्णेन प्रोक्तम् – “यदा यादृशः समयस्तदानीं तादृशमेवाचरणीयं भवति ।”

श्रीमातुर्जयरामबाटीजीवनं नितान्तं कर्ममयमासीत् । तत्र सर्वाण्यपि कार्याणि तया स्वहस्ताभ्यामेव व्यधीयन्त । बहुवा रं तयैव पाचनं, परिवेषणं, किमन्यत् प्रकाशयन्त्रसम्मार्जनं च विधीयते स्म । तदीयजयरामबाटीजीवनस्य प्रधानमङ्ग भक्तसेवैवासीत् । प्रत्येकोऽपि भक्तो जयरामबाट्यां श्रीमातरं स्वजन्मदात्र्या मातुरपेक्षया समधिकान्तरङ्गभावतः प्रापत् ।

तया यावन्ति विधेयानि व्यधीयन्त तानि सर्वाण्यपि नवनवप्रीतिपरिपूर्णान्यनुष्ठितानि । श्रीमातुरिदं निरवच्छिन्नसेवामयं जीवनं संन्यासिनां गृहिणां सर्वेषामेवादर्शरूपमभूत् । तया प्रोक्तम् – “सदैव किमपि कार्यं नूनमेवानुष्ठातव्यम् । कार्यानुष्ठानेन शरीरं मानसं च स्वस्थे भवतः।” श्रीसारदादेव्या जीवनस्यैकं प्रधानमवदानमासीत् – “सेवा” । एकत्र ब्राह्मी स्थितिरपरत्र निरन्तरं कर्म – एतादृशसामञ्जस्यपरिपूर्णं जीवनमत्यल्पं दरीदृश्यते । साधनभजनसेवासु तस्या मनसि समज्ञानं समो भावश्चातिष्ठताम् । श्रीठाकुरेण श्रीसारदादेव्या जीवनमीदृशं सङ्गठितमासीत् यत् सा समग्रविश्वस्य स्त्रीजीवनविषये पूर्णादर्शरूपाऽऽसीत् ।

❀ ❀ ❀

कतिचन मासान् जयरामबाट्यामुषित्वा श्रीमाता कलिकातां प्रत्यागमत् । तदानीमनेके भक्ताः श्रीमातुः कृपादीक्षामधिगत्य धन्यतमा अभूवन् । प्रायश एकवर्षं यावत् बागबाजारस्थे स्वभवने स्थित्वा स्वर्गीयबलराममहोदयस्य स्त्रिया विशेषाग्रहेण श्रीमाता तदीयभूस्वामिताया: ‘कोठार’ नामधेये स्थाने जगाम (१३१७ वङ्गाब्दीयाग्रहायणमासस्य एकोनविंशे दिवसे) मात्रा साकं मठस्य केचन संन्यासिनः, सेवकास्तदीया आत्मीयाश्चासन् । ‘कोठार’ स्थितिकाले श्रीमातुर्मनसि रामेश्वरगमनस्य पुरातनी समीहा बलवती बभूव ।

श्रीमातुरभिप्रायमवगत्य स्वामी रामकृष्णानन्दस्तस्या दक्षिणभ्रमणस्य पूर्णमुत्तरदायित्वं स्वस्योपरि गृहीत्वा मद्रासतस्तां न्यमन्त्रयत् । तदनुसारेण १९१२ ईसवीयफरवरीमासे सेवकैः सङ्गिनीभिश्व साकं श्रीमाता ‘कोठार’तो दक्षिणभारतप्रधानतीर्थं रामेश्वरं द्रष्टुं मद्रासं प्रतस्थे । श्रीमातरि मद्रासमुपस्थितायां स्वामी रामकृष्णानन्दो देवीभावतः स्वागतं कुर्वाणो मलयापुरमठस्यातिनिकटस्थे भाटकगृहीतैकभवने साग्रहं सबहुमानं च कानिचिद्दिनानि श्रीमातरं निवासयाञ्चकार । तत्रानेके स्त्रीपुरुषा मातुर्मन्त्रदीक्षा जगृहुः । बहवश्च तस्याः पवित्रदर्शनेन धन्या बभूवुः ।

मद्रासतः स्वामी रामकृष्णानन्दः सङ्गिभिः साकं श्रीमातरं रामेश्वरदर्शनाथमानिनाय । मार्गे दिनमेकं मदुरायां तैर्विश्रामः कृतः । रामेश्वरं प्राप्य ते दिनत्रयं तत्र तस्थुः । रामेश्वरगर्भमन्दिरे प्रविश्य श्रीमात्रा स्वहस्तेन यथारीति पूजाप्रार्थनादिकं सम्पादितम् । सम्बन्धेऽत्र श्रीमात्रा विज्ञापितम् – “अहो ! शशिना (स्वामिना रामकृष्णानन्देन) सौवर्णानि १०८ बिल्वपत्राणि मा प्रदाय रामेश्वरम्य समर्चाऽनुष्ठापिता ।”

श्रीमाता रामेश्वरात् मद्रासं प्रत्याववृते । ततश्च बेङ्गलोरस्थश्रीरामकृष्णमठाध्यक्षस्य विशेषाग्रहेण दिनत्रयमसौ बेङ्गलोरमध्यतिष्ठत् । बेङ्गलोरगमनसम्बन्धे श्रीमाता प्रोवाच – “अहो ! कियतां जनानां सम्मर्द आसीत् बेङ्गलोरे । धूम्रयानादवतरणमात्रेणैव सर्वे जनाः पुष्पाण्यवर्षयन् । मार्गे कुसुमानां राशिरभवत् । श्रीठाकुरस्य भावः सर्वत्र प्रसृतः । अत एवैतावन्तो जनाः समागताः ।“

बेङ्गलोरमठस्य प्राङ्गणे चन्दनद्रुमं लघुपर्वतं चैकमवलोक्य श्रीमाता नितरां प्रासीदत् । एकदा सन्ध्याकाले तत्र पर्वते समुपविश्य तया जपध्यानादौ समयो व्यतियापितः ।

बेंङ्गलोरतः श्रीमाता मद्रासमायाता । तत्र चैकं दिनं दिनद्वयं वा स्थित्वाऽसौ कलिकातामाययौ । मार्गे गोदावर्य्यां स्नातुं दिनमेकं राजमहेन्द्र्यामवततार । द्वित्राणि दिनानि पुर्य्यामपि न्यवात्सीत् ।

रामेश्वरात्प्रतिनिवृत्य श्रीमाता एकमासतः किञ्चिदधिकमेव बागबाजारेऽतिष्ठत् । १३१८ वङ्गाब्दज्येष्ठमासतृतीयदिवसे (१९११ ईसवीयमईमासस्य १७ तारिकायां) असौ जयराम बाट्यामायाता, तदनन्तरं च ज्येष्ठस्य २७तमे दिवसे ससमारोहं स्वीयराधू पुत्रिकाया विवाहमचीकरत्। राधूमापादमस्तकमलङ्कारैः सुसज्जितामकरोत्, देयधनं चापि सा पर्याप्तमदात् । वारयात्रिकान्, गृहवासिनः, पार्श्ववर्तिग्रामीणसर्वसाधारणान् दरिद्रान् दुःखिनश्च पर्याप्तभोजनमकारयत् । नृत्यगीतक्रीडाकौतुकादिभिर्जयरामबाटी मुखरिता बभूव । मातुरानन्दस्य तु सीमैव नासीत् ।

इतः परं षट्सप्तमासानन्तरं श्रीमाता कलिकातां गमिष्यति । मार्गे – जयरामबाटीतः सार्धद्विकोशदूरे कोयालपाडा समापतति । तत्र कैश्चन भक्तैः श्रीठाकुरस्य नाम्ना एक आश्रमो निर्भितः । तदानीं समये स्वदेशीययुगमासीत् । आश्रमे वयनयन्त्रतर्कुचक्राणामेवाधिकं प्राधान्यमभवत् । कलिकातागमनात् कियद्दिनपूर्वं जयरामबाट्यां कोयालपाडाश्रमाध्यक्षाय श्रीमात्रा प्रोक्तम् – “पश्य पुत्र, त्वया श्रीठाकुरस्य कृते भवनमेकं मार्गे च मम विश्रामायैकं स्थानं निर्मितम्, तदाहमेतर्हि गमनसमये तत्र श्रीठाकुरं संस्थाप्य गमिष्यामि । सर्वमायोजनं पूर्णं विधेयम् । पूजानैवेद्यार्पणनीराजनादीनि सर्वाणि नियमेन विधातव्यानि । केवलं स्वदेशीयत्वेन किं सम्पत्स्यते ? अस्माकं यत् किश्चिदस्ति सर्वस्य मूले श्रीठाकुर एव विद्यते स एवादर्शो वर्तते । यत् किमप्यनुष्ठातव्यं, सर्वं तन्नाम स्मृत्वा अनुष्ठीयताम् – सकलं सम्पन्नं भविष्यति ।“

१३१८ वङ्गाब्दाग्रहायणस्याष्टमे दिवसे (१९११ ईसवीयनवम्बरमासस्य चतुर्विंश्यां तारिकायाम्) श्रीमाता कलिकातामाजगाम । तस्याः कलिकातायामागमेन भक्तानां मध्ये महान् आनन्दकोलाहलः प्रादुर्भूतः । चतसृभ्यो दिग्भ्यः कृपार्थिनो भक्ताः समागन्तुं प्रवृत्ताः । श्रीमात्रा कृपाद्वारमुद्घाटितं कृतम् । कश्चिदपि दयावञ्चितो नातिष्ठत् । सहस्रशो जीवनानि स्पर्श-प्रस्तरस्पर्शेन सुवर्णमयान्यभूवन् ।

भूमण्डलाय मातृभावस्य शिक्षां प्रदातुमेव श्रीसारदादेवी शरीरधारणमकरोत् । सा तु पूर्वं माता ततो नु ‘गुरु’रभूत् । तस्या मातृभावेन ‘गुरु’भावः पराजितः । यश्च ‘मा’ शब्देन समाह्वयत्, तस्मै एव श्रीसारदादेवी स्वीयं स्नेहमयं क्रोडं प्रायच्छत् । तत्र सुश्री-कुश्री-पुरुष- स्त्री-बालक-बालिका-सबलदुर्बलानां कोऽपि भेदो नासीत् । ‘मा’ शब्दस्याह्वानं तस्या मनसि दुर्निवारमेकमान्दोलनमसृजत् । क्रोडे स्थापनं विना नासौ सुस्थिरतां प्रपेदे – केवलमेतदेव न, सन्तानान् क्रोडीकृत्यासौ भवसागरपारसपि नेष्यति । श्रीसारदादेव्या अभ्यन्तरे यो हि गुरुभावविकासः, सोऽपि मातृभावपरिणाम एवाभूत् । यमेकवारमसो स्वक्रोडेऽस्थापयत्, तं पुनर्नावतारयितुमशक्नोत् । एतदेवासीत् तस्या गुरुरूपम् । गुरुरूपेण सा स्वसन्तानान् भवसागरतः पारमनयत् । तत्रापि माता, बालकाः ! तत्रापि चिरमेलनम् । दिव्यस्तदीयो मातृस्नेहः ।

आश्रितसन्तानेभ्यस्तस्या मनसि कीदृशी भावना, कीदृशी चोत्कण्ठा बभूव ! समस्ता आपदः सा स्वकीये वक्षसि गृहीतवती । पक्षिमातेव स्नेहमयपक्षाभ्यां स्वसन्तानान् परिवेष्ट्य पर्यरक्षत्, ‘रक्षाकाली’व विविधविपत्तिभ्यश्च तान् पर्यपालयत् । एकमाश्रितसन्तानं निराशमवलोक्य श्रीमाता प्रोवाच – “यदि श्रीठाकुरः शरीरमिदं मामकीनं नारक्षिष्यत्, तदा युष्माकं किमभविष्यत् ? तथापि येषां भारो मया गृहीतस्तेष्वेकस्मिन्नपि मुक्ति विनावशिष्टे मयाऽवकाशो न प्राप्तुं शक्यते । एतैः सार्धमेव मया स्थास्यते, यतो मया तेषां शुभाशुभभारोऽङ्गीकृतः आस्ते ! आत्मीयत्वेन ये स्वीकृतास्तेषां परित्यागस्तु न मया कर्तुं शक्यते !”

श्रीसारदादेव्या अन्तरे यो जगन्मातृत्वभावविकासः समजायत स न केवलं मनुष्यमात्र एव सीमाबद्ध आसीत्, अपि तु सर्वजीवधारिप्राणिष्वपि सः प्रकटितः समदृश्यत ।

कश्चित्संन्यासी शिष्यः श्रीमातुः समीप एकदा जिज्ञासितवान् “मातः, किं त्वं सर्वेषामपि जननी ?” श्रीमातोक्तवती “आम्” । पुनरनेनैव संन्यासिना पृष्टम् – “एतेषां मानवेतर प्राणिनामपि ?” श्रीमाता पुनरुक्तवती – “अथ किम् ? तेषामप्यहं जननी ।“ तस्या दैनन्दिनजीवनव्यवहारेऽस्या उक्तः सत्यताऽवालोक्यत ।

श्रीमातुर्गृहे कश्चिद् बिडाल आसीत् । स च दुग्धादिकं रहसि आस्वादयत् । अतस्तत्रत्याः सर्वे जना मार्जारोपरि क्रुद्धा अभवन् । परं श्रीमाता बिडालस्य शासनं कर्तुं नैच्छत् । अन्येषु च तत्ताडनतत्परेषु सत्सु श्रीमाता दयार्द्रहृदयाऽश्रुपूर्णनयना चाभवत् अब्रवीच्च –“चोरयित्वा दुग्धाद्यास्वादनं तु बिडालस्य धर्म एव । अन्यथा के जना एतमादरपूर्वकं भोजयन्ति ?” इति । अयं मार्जारोऽन्यान् ताडनतत्परान् विलोक्य नित्यं श्रीमातुः शरणमागतः । एकदा कश्चित्सेवकं श्रीमाताऽब्रवीत् – “पश्य, मा ताडयतैनम्, तस्याप्यन्तरेऽहमेव निवसामि” इति । मानवेतरप्राणिष्वपि श्रीमातुः वात्सल्यं प्रेम कीदृशमासीत् एतद्विषये सङ्ख्यातीत – ‘घटनानामुल्लेखः कर्तुं शक्यते ।

श्रीसारदादेव्या जीवनान्तिमदिनेषु जीवत्राणस्य या दुर्वारोन्मुखताऽऽसीत् सा एकत एतादृशी गभीराऽविद्यत तादृश्येवान्यतः अतिविशालाप्यभवत् । श्रीरामकृष्णदेवो देहत्यागात्कतिचिद्दिनानि पूर्व काशीपुरोद्यान एकस्मिन्दिने कलिकातादिश्यङ्गुलीनिर्देशपूर्वकं श्रीसारदादेवीमुक्तवान् – “पश्यसि ? लोकाः कथं कीटा इव संसारे दुःखानुभवं कुर्वन्ति । एतेषामुद्धाराय त्वया किमपि कर्तव्यं भविष्यति” । श्रीसारदादेवी तमुत्तरयांचकार – “अहं त्वबला किं कर्तुं पारयिष्यामि” श्रीठाकुरोऽत्रवीत् – “न हि, न हि त्वयैव कर्तव्यं भविष्यति । अहं तु अल्पशो जीवोद्धारकार्यं कृतवान् । त्वया तु मदपेक्षयाऽधिकं कर्तव्यम् ।“ श्रीसारदादेवी श्रीठाकुरस्येङ्गितमधिगतवती, तथा श्रीठाकुरनिर्दिष्टजीवनत्राणकार्ये व्रतिनी चाभवत्। श्रीठाकुरो देहत्यागात् पूर्वं श्रीमात्रे कतिपयसिद्धमन्त्रान् प्रददौ तथा तेषां मन्त्राणां प्रयोगमपि तामशिक्षयत् । शास्त्रे भगवत्कृपा-साधुकृपा-गुरुकृपाणां समुल्लेखो विद्यते; एतद्विषये जनश्रुतिरूपेण श्रूयते च । किन्तु तस्य कृपात्रयस्य रहस्यं श्रीरामकृष्णश्रीसारदादेवीजीवनं प्रति दृक्पातेनैव ज्ञायते । आध्यात्मिकशक्तिसङ्क्रामणद्वारा मनुष्याणां जीवने धर्मभावोद्दीपनं तथान्येषां पापानामङ्गीकार एतद् द्वयं तयोर्जीवनस्य विशेषावदानम् । मन्त्रप्रदानविषये तथा शिष्यैनःस्वीकारविषये च श्रीसारदा देवी उक्तवती – “शिष्याय मन्त्रप्रदानेन तस्यान्तर आध्यात्मिकशक्तिसञ्चारो भवति तथा शिष्यस्य वृजिनं गुरोः शरीरे प्रविशति । अत एव मन्त्रप्रदाने पापसङ्क्रामणेन शरीर एतादृशी व्यथा जायते । गुरुपदस्वीकारः अतीव कठिनं कार्यम् । यतः शिष्यस्य (जन्मान्तरविहितं) दुष्कृतं गुरुणा स्वीकर्तव्यम् ।

साधारणगुरुसम्बन्धविषय इदं शक्यसम्भवं न वेति तु न वयं जानीमः । परन्तु श्रीरामकृष्णजीवने द्रष्टुं शक्नुमः यत् अनेकेषां जनानामेनःस्वीकारफलस्वरूपं तस्य शरीरेऽसाध्यव्याधिरुदपद्यत । अस्मिन्विषयेऽस्माभिरस्मिन्नेव ग्रन्थेऽन्यत्रालोचितम् । श्रीसारदादेवीजीवनेऽपि द्रष्टुं शक्यते यत् अनेकजनदुष्कृतदुःखस्वीकारफलस्वरूपं तस्याः शरीरेऽपि विविधव्याधिसमुत्पत्तिरजायत । किन्तु सा तस्य न कामपि चिन्तां कृतवती । एकस्मिन्दिने सोक्तवती – “वत्स, अखिल दिनं यावत् मया मल्लयुद्धमिव क्रियते – इदं भक्तवृन्दमागतम् । अनन्तरमपरं भक्तवृन्दं समागतम् । (दीक्षादानमुपदेश-प्रदानं च प्राचलत्) इर्ं शरीरमतः परमधिकभारवहनेऽसमर्थम् । श्रीठाकुरं संप्रार्थ्य ‘राधु’, ‘राघु’ इति (मायाश्रयं) विधाय मया शरीरे मनः स्थापितमासीत् ।“ ‘बहुजनहिताय’ सा सर्वाणि कष्टान्यसहत । एकदा कश्चिद् भक्तः श्रीमातुः शरीरस्यास्वस्थताविषयकमुल्लेखं विधाय प्रोवाच – “मातः, मया श्रुतं भक्तानां पापग्रहणहेतव एव भवत्याः शरीर एतादृशी रोगयन्त्रणा । ममैकं निवेदनमास्ते भवत्या मदर्थं न किमपि कष्टमनुभवितव्यम्; मद्दुष्कृतफलं मयैव भोक्तव्यम् ।“ करुणामयी श्रीमाता सावेगं तत्क्षणमेवाभिहितवतो – “इदं किमुच्यते वत्स, किमिदमुच्यते । त्वं कुशली भव । मयैव सर्वं भोक्तव्यम् ।” शिष्यस्य पापग्रहणफलस्वरूपं स्वकीयशारीरिकासत्यरोगयन्त्रणाविषये ज्ञानवत्यपि सा कृपावितरणे न कदापि विमुख्यासीत् । सा उक्तवती – “दयया मन्त्रं दास्यामि ते न मां परिहरन्ति, रुदन्ति च । एतदवलोक्य हृदयं दयार्द्रं भवति । अत एव सकृपं मन्त्रदानं विदधामि । नो चेत् को मम लाभः ? मन्त्रदानात् शिष्यस्य समग्रं पापं स्वीकर्तव्यमेव । चिन्तयामि शरीरं तु क्षणभङ्गुरम् । अतो मन्त्रदानादेतेषां मुक्तिर्भवेदित्येवाभिलषामि ।“ अन्यत्रापि तयोक्तमासीत् – “एतदर्थमेवावयोः (श्रीठाकुरस्य श्रीमातुश्च) अत्रागमनम् ।” जीवानां दुष्कृताङ्गीकारं विधाय तेषां मुक्तिसिद्धिरेव तयोर्देहधारणस्य प्रयोजनम् । अपरत्रापि श्रीमात्रैतद्विषये सकौतुकमभिहितमासीत् – “उच्यतां भोः ! अपि भवन्तः श्रीठाकुरात् केवलं मिष्टान्नलाभार्थमायाताः ?” तस्यागमनं तु जीववृजिनस्वीकारपूर्वकं तेषां मुक्तिप्रदानार्थमेव जातम् ।

१९१६ ईसवीयवर्षे शारदीयदुर्गापूजनोपलक्षे श्रीमाता वेलुडमठे स्थिता । अष्टम्यां तिथौ बहवो भक्तजनास्तस्याश्चरणपूजां विदधुः । साऽपि तान्सर्वान्स्पर्शपूर्वकं स्वकृपापात्रमकरोत् । भक्तवृन्देषु प्रयातेषु काचिन्मातुः सङ्गिनी दृष्टवतो यन्माताऽसकृद् गङ्गाम्भसा स्वचरणक्षालनतत्पराऽऽसीत् । सङ्गिनी मातरं पृष्टवती – “किमिदं विधीयते मातः ! चरणयोरसकृच्छीतजलप्रक्षालनेन भवत्याः शरीरे शैत्यं ज्वरपीडा वा भवेत् ।” श्रीमाताब्रवीत् – “वत्से ! किमुच्यते एकैकशो भक्तानां प्रणामेन मया सर्वस्मिन् शरीरेऽग्निदाह इवासह्यकष्टमनुभूयते । अतः भागीरथीजलक्षालनेन सा ज्वाला किञ्चिदिवोपशाम्यति” इति । अनेन प्रकारेण तस्या जीवत्राणकार्यं प्राचलत् ।

❀ ❀ ❀

अस्मिन्नेव वर्षे (१३१८ वङ्गाब्दे) बेलुडमठे दशभुजाया दुर्गाया आराधनायोजनमभूत् । स्वामी प्रेमानन्दः श्रीमातुरनुमतिमाशीर्वादच गृहीत्वा पूजाया आयोजने संलग्नोऽभवत् । प्रेमानन्दस्य विशेषप्रार्थनया ‘श्रीमात्रा पूजायाश्चतुःपञ्चदनानि यावत् बेलुडमठे स्वीयो निवासः स्वीकृतः । आनन्दमयी समागमिष्यति । साधुभक्तानां मनसि आनन्दस्वरो निननाद ।

उद्बोधनदिवसे मध्याह्नोत्तरं श्रीमाता बागबाजारतो बेलुडमठे समाथास्यति । उत्तरदिकस्थे उद्यानवति गृहे तस्या निवासव्यवस्थाभवत् । सन्ध्या जाता । श्रीमातुरागमने विलम्बमवलोक्य (स्वामी) बाबूराममहाराजो नितरामस्थिरो बभूव । मठस्य प्रवेशद्वारयोः कदलीस्तम्भौ मङ्गलकलशौ च न स्थापिताविति विलोक्य तेन प्रोक्तम् – “सम्प्रति मङ्गलघटस्थापनं तु न संवृत्तम् – कथमागमिष्यति माता ?”

देव्या उद्बोधने समाप्ते श्रीमातुः शकटी मठप्राङ्गणं प्राविशत् । कतिभिश्वन सङ्गिनीभिः श्रीमातुः करौ गृहीत्वा शकटीतः सा अवतारिता । सर्वमालोक्य श्रीमाता प्रसन्ना भूत्वोवाच – “सर्वं समीचीनम् । अहमपि माता दुर्गेव सज्जीभूता समायाताऽस्मि !”

श्रीमातुः शुभागमनेन सर्वैरेव देव्याश्विन्मयभावाविर्भावमनुभूय स्वीय आत्मा धन्यतां नीतः । पूजाया दिनत्रयं यावत् शतशो भक्तैर्जीवितदुर्गायाश्चरणयोः प्रणामं कृत्वा स्वीयं जीवनं सफलीकृतम् । कैश्चिद् भाग्यवद्भिर्भक्तैर्मन्त्रदीक्षाऽपि समधिगता । पूजाया दिनत्रयं मठे ==254== आनन्दप्रवाहः प्रावहत् । विजयादशम्यां नौकाद्वारा गङ्गायां प्रतिमा विसर्जिता । श्रीमाताऽप्युद्याने तिष्ठन्ती सर्वं ददर्श । एको भक्तो विभिन्नप्रकारेणाङ्गानि सञ्चालयन् प्रतिमाभिमुखमनृत्यत् । एतदवलोक्य श्रीमात्रा सुमहान् आनन्दः प्रकाशितः । कस्मैचिन्मार्जितरुचये ब्रह्मचारिणे नृत्यादिकं न रुरुचे । इदमाकर्ण्य श्रीमात्रा प्रोक्तम् – “न न, सर्वमिदं समीचीनं विद्यते । गानवादनरागरङ्गादिना सर्वप्रकारेण देवी प्रसादयितव्या ।“ मठस्थान् सर्वान् आशीर्भिरभ्यर्च्य विजयादशम्या आगामिनि दिने श्रीमाता कलिकातां प्रत्यागमत् ।

ततः कतिचिद्दिनानन्तरं श्रीमाता काशीयात्रामकार्षीत् । तया सह सेवकाः, भक्ताः, भक्तिमत्यश्च बहव आसन् । काश्यां श्रीरामकृष्णाद्वैताश्रमे श्यामापूजाया आयोजनमभवत् । १३१९ वङ्गाव्दीयकार्तिकमासस्य विंशतितमे दिवसे एकादश्यां मङ्गलवासरे श्रीमाता सर्वैः साकं वाराणसीमाजगाम । आश्रमस्याभ्यर्णे भक्तस्यैकस्य नवनिर्मिते भवने श्रीमातुर्निवासस्य व्यवस्था बभूव । अद्वैताश्रमे कञ्चित्कालं विश्रम्य श्रीमाता स्वीयं वासस्थानमागमत् ।

काशीधामनि श्रीमातुः शुभागमनमभूत्, अत्रानन्दमहोत्सवे योगदानाय श्रीठाकुरस्यान्तरङ्गपार्षदेषु स्वामी ब्रह्मानन्दः, शिवानन्दः, तुरीयानन्दः, सुबोधानन्दः, मास्टरमहाशयश्च सर्वे तत्र समुपतस्थिरे । अविमुक्तक्षेत्रे काश्यां विश्वनाथधामनि विश्वजनन्याः, भक्तानां च समावेशः ! सर्वेषामभ्यन्तरे चैकस्याध्यात्मिकसमारोहस्य सञ्चारो बभूव ।

कालीपूजाया अग्रिमे प्रातःकाले श्रीमाता स्थानीयं सेवाश्रमं निरैक्षत । भ्रामं भ्रामं तस्यै सर्वं प्रदर्शितम् । सेवाश्रमस्य भवनम्, उद्यानम् व्यवस्थादींश्चावलोक्य सुप्रसन्ना श्रीमाताऽब्रवीत् – “अत्र श्रीठाकुरः स्वयं विराजते, माता लक्ष्मी: पूर्णतया चावातिष्ठत ।” इतः पूर्वमपि श्रीमाता यद्यपि वारद्वयं काश्यामागताऽऽसीत्, किन्तु बहुदिनानि नात्र स्थातुमशक्नोत् । अस्मिन्नवसरे तु सा प्रायः सार्धमासद्वयं काश्यामतिष्ठत् । विश्वनाथान्नपूर्णादुर्गा-केदार-तिलभाण्डेश्वरादीनां नानादेवदेवीनां तया दर्शनमनुष्ठितम् । गङ्गायां स्नात्वा प्रतिमन्दिरं भ्रामं भ्राममसौ पूजनमकरोत् । श्रद्धापूर्वकं तया सम्पूर्णमेव काशीखण्डमाकर्णितम् । विख्यातवृद्धसाधोश्चमेलीपुरीमहोदयस्यापि तया दर्शनमकारि ।

वाराणस्यामेकदा काश्चन स्त्रियो मातुर्दर्शनाय समागताः । तदानीं श्रीमाता राधू-भूदेवादिबालकानादाय परिव्यस्ता आसीत् । तदीयानि वसनानि विदीर्णानि तेषां सीवनाय काश्चित् स्त्रियः समादिदेश । सर्वमिदमाकर्ण्यावलोक्य चागन्तुकस्त्रीषु कयाचित् प्रोक्तम् – “मातः, भवती तु घोरमायाग्रस्ता प्रतीयते ।“ अस्फुटस्वरेण तया प्रत्युक्तम् – “किं कुर्या मातः ! स्वयमहमपि मायैव ।” श्रीमातुरिदं मायामयभावरणमेव तस्या जीवनस्य सर्वाभ्यर्हितं माधुर्यमासीत् ।

काशीतः कलिकातायामागमनस्यैकमासाभ्यन्तर एव श्रीमाता जयरामबाटीं जगाम । किन्तु सप्ताष्टमासानन्तरमेव भक्तानामाकर्षणेन पुनरियं कलिकातामागमत् । इदानीमसौ पादोनवर्षद्वयं कलिकातायां प्रायशस्तस्थौ । बहुभिर्जनैस्तदीया दयाऽधिगताऽभवत् ।

श्रीगीतायां भगवतोक्तम् – “चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥“ एवं जना भगवन्तं येन केनापि भावेन प्रार्थयन्ते तेनैव भावेन स तेषां मनोरथपूर्तिं विदधाति । एवमेव श्रीमातुः पार्श्वेऽपि सर्वे जनाः मुक्तिकामनयैव समायान्तोति न । बहवो मनुतनुजनुषो विभिन्नकामनावशीभूता मातुः पार्श्वमागच्छन् । केचन सन्तानस्य, अन्ये रोगविमुक्तः, अपरे चैश्वर्यस्य कामनया मातुः समीपमावव्रजुः । श्रीमाताऽभिलषितवरप्रदानेन सर्वेषां मनोरथान् पर्यपूरयत् । अनेकधाप्यसौ परकीयशरीररोगानाकृष्य स्वशरीरे समस्थापयत्, तदीयदयाया अन्तः सीमा वा नासीत् । सन्तानस्य यत्र यदा वा वेदनाऽजायत, तत्र तदानीमेव स्वशान्तिमयकरस्पर्शेन सा तां दूरीचकार । कस्यापि दुःखमवलोक्य श्रीमातुर्मानसमरोदीत् । व्याकुलीभूयासौ आगन्तुकानामपूर्णतामपूरयत्, स्वीयकोमल कराभ्यां तेषां नेत्र जलममार्जयत् ।

बागबाजारे श्रीमातुर्गेहस्याभिमुखे परिसरे बसतिरासीदेका श्रमिकाणाम् । तत एकदिने कापि स्त्री स्वीयं रोगाक्रांतमर्भकं क्रोडे गृहीत्वा श्रीमातुः पार्श्वमाशीर्वादं ग्रहीतुमायाता । अहो ! तां प्रति कियती कृपा, आन्तरिकता, सहानुभूतिश्च प्रादुरभूवन् । सा आशिषं प्रायच्छत् – “नीरोगो भविष्यति ।“ द्वे दाडिमफले, द्राक्षागुच्छकं च श्रीठाकुरस्य प्रसादरूपेण तस्या हस्तयो: समर्प्य तथा प्रोक्तम् – “स्वीयं रोगिणमर्भकं भोजय ।“ अहो ! दरिद्रायाः स्त्रिया आनन्दसीमा नासीत् । कृतज्ञतया सा वारं वारं श्रीमात्रे प्रणतिमकार्षीत् ।

एकदा द्वौ वध्वौ समागते । ताभ्यां सलज्जभावेन स्वीयमनसो भावो गुप्तरूपेण श्रीमात्रे निवेदितः । ते निःसन्ताने अभूताम् । मातृत्वमभिलषतः स्म । श्रीमातुर्मनसि दया समुद्वेलिता । तयोरभिलाषो मात्रा पूरितः । तया व्याहृतम् – “प्रार्थनापूर्वकं श्रीठाकुराय निजमनोभावो निवेदनीयः । दीनभावेन रोरुद्यमानाभ्यां युवाभ्यां स्वकीया हार्दिकी व्यथा तस्मै वक्तव्या । प्रष्टव्यम्, असौ नूनं युवयोरङ्क पूरयिष्यति ।“ श्रीमातुः कृपया तयोर्मनोरथः परिपूर्णोऽभवत् ।

कदाचित्केचिज्जना रोगविमुक्तिकामनया समाययुः । एकदा चैक आङ्गलमहिला श्रीमातरं प्रणमन्ती स्वपुत्र्याः कठिनरोगमवर्णयत् । तस्या व्याकुलतामवलोक्य श्रीमाता दयार्द्रतामगच्छत् । किञ्चित्प्रसादपुष्पबिल्वपत्राणि हस्तयोर्धृत्वा तया स्वल्पकालं नयने निमीलिते, पुनरेकवारं श्रीठाकुराभिमुखमवलोक्य पुष्पबिल्वपत्राणि आङ्गलमहिलाहस्तयोर्दत्त्वा प्रोक्तम् – “एतानि स्वपुत्रीशिरसा संस्पर्शनीयानि ।” श्रीमातुराशीर्वादेन बालिका रोगमुक्ता बभूव ।

आश्रितसन्तानेषु कश्चित्सुरेन्द्रनाथरायो बरिसाले (पूर्व पाकिस्ताने) असाध्यराजयक्ष्मणाऽऽक्रान्तः । नासीत्तस्य जीवितुं काप्याशा । मृत्योः पूर्वमेकदा श्रीमातुर्दर्शनमाकांक्षमाणस्तस्याः समीपमागमनार्थं प्रार्थनापत्रमेकं प्रेषितवान् । श्रीमाता स्वकीयमेकं चित्रम् “उद्बोधन” मासिकपत्रिकाया वार्षिकानङ्कांश्च सम्प्रेष्य पत्रोत्तरे लिखितवती यत्तस्याः कृते एतावद्दूरपर्यन्तमागमनमसम्भवमिति । पत्रद्वारैवाशिषं दत्तवती ‘न किञ्चिद्भयम्, व्याधिमुक्तो भविष्यसि’ इति । सुरेन्द्रनाथो मातुश्चित्र एव तस्या दर्शनं लब्धवान् । तच चित्रं तेन पर्यङ्के स्वशिरः पार्श्वभागे स्थापितम् । क्रमशश्च स व्याधिनिर्मुक्तो जातः ।

साधारणजनानां दुःखदारिद्र्यादिकं श्रीमातुरन्तःकरणं मथितमिवाकरोत् । सा एतादृशदुःखप्रतिकारार्थमतीव व्याकुलचित्ताऽभवत् । कदा कदाऽपि सा देवीं शक्तिमवलम्ब्यापि दुःखनिवारणतत्परा बभूव । एकस्मिन् वत्सरेऽनावृष्टिकारणात् जयरामवाटीप्रभृतिग्रामक्षेत्रेषु धान्यादिकं शुष्कतां गन्तुमारेभे । कृषका उपायाभावात् निराशतां गता दलबद्धरूपेण श्रीमातुः समीपमागत्य रोरुद्यमानाः प्रोचुः – “मातः, अस्मिन्वर्षे नास्त्यस्माकमपत्यानां कापि जीवितुमाशा । बुभुक्षया सर्वेऽपि यमसदनं गमिष्यन्ति” इति ।

कृषकाणां कातरतामवलोक्य श्रीमातुरन्तःकरणं द्रवीभूतम् । सा कृषकैः सह क्षेत्रसमीपं गत्वा शुष्कधान्यावस्थां चावलोक्य व्याकुलचिन्ता जाता । तथा साश्रुनयनोर्ध्वमुखी साञ्जलिश्च सती प्रार्थनामकरोत् – “हा ठाकुर ! किमिदं कृतम् ? किमेतैः सर्वैराहाराभावेन प्राणास्त्यक्तव्याः ?” तस्यामेव रात्रौ प्रचुरा वृष्टिरभवत्, यत्फलस्वरूपं तस्मिन्संवत्सरे एतादृशं सुभिक्षं जातं यत् गतेषु कतिषुचिद्वर्षेष्वपि नाभवत् ।

१३२५ वङ्गाब्दे आग्रहायणमासस्य घटनेयम् – श्रीमाता बागबाजारस्थोद्बोधन कार्यालय आसीत् । तस्मिन् समय एकस्यां रात्रौ दशवादनसमये जयरामबाटीनिकटस्थकोयालपाडा निवासी संभ्रान्तवृद्धः ‘श्रीनफरचन्द्रकोले’ तत्रोपस्थितो बभूव । तदा श्रीमातुर्दर्शनार्थं सेवकैः स निवासस्थानोपरितले नीत आसीत् । श्रीमातुश्चरणद्वयग्रहणपूर्वकं प्रणतो भूत्वा क्रन्दन् स उवाच – “मातः, अहमत्यन्तविपद्ग्रस्तो भूत्वा तव समीपमागतोऽस्मि । इन्फ्ल्युएंजाज्वरपीडिता काश्चित्पौत्र्य एकः पौत्रश्च पञ्चत्वं गताः । इदानीमपि मम कतिपयाः पौत्र्यस्तथैकाकी जीवित पौत्रश्चात्यन्तसङ्कटापन्नावस्थायां विद्यन्ते । अतो मातः, भवत्याऽऽशीर्वादो दातव्यो भवेत् येन न मम वंशोच्छेदो जायेत ।” श्रीमातोत्तरयांचकार – “किमिदम् भवतैतादृश्याशङ्का किमर्थं क्रियते ? भवान् लक्ष्मीवान् भाग्यवांश्च" । नफरचन्द्रोऽब्रवीत् – “न हि न हि मातः ! मया न किमपि श्रोतव्यम् । मम जीवनस्यान्तिमदिनेषु एतादृश एकमात्र पौत्रस्य वियोगशोको न मयानुभवितव्यः ।” इति ब्रुवन् मातुश्चरणग्रहणपूर्वकमाकुलक्रन्दनं कर्तुमारेभे । श्रीमाताऽभाषत – “मा भूरेतादृशोऽस्थिरचित्तः । अस्तु, अहं श्रीठाकुरं निवेदयामि ।“ नफरचन्द्र एतेन वचनेन न सन्तुष्टः, मातुराशीर्वादमिच्छन् पुनस्तां प्रार्थयामास । अनन्तरं श्रीमाता निमीलितनेत्रा गम्भीरस्वरेणाभयवचनदानपरोवाच – “न हि न हि, न भेतव्यम्, तव पौत्रः कुशलपूर्वकं स्थास्यति ।“ श्रीमातुराशीर्वादेन वृद्धस्य ‘कोले’ महाशयस्याभिलषितं सफलीभूतम् । मातुर्जीवन एतादृश्य आर्तत्राणाभयदानस्वरूपा अनेका घटना विद्यन्ते ।“

❀ ❀ ❀

यदा कदाऽपि दर्शनार्थिनः प्रणामानन्तरं श्रीमाता गङ्गाजलेन निजजानुपर्यन्तं प्रक्षालनमकरोत् । सेवकैरेवंप्रकारपदप्रक्षालनसम्बन्धे जिज्ञासायां कृतायां श्रीमाता प्रावदत् – “कमपि जनं पादयोः शिरः संस्थाप्य प्रणामकरणान्निवारयत ।” न ज्ञायते कियन्ति पापानि मच्छरीरं प्रविशन्ति । मम पादौ प्रज्वलतः । पादप्रक्षलनात्परं कथञ्चित् शान्तिरासाद्यते । अत एव तु शरीरे व्याधिरुत्पद्यते । दूरतः प्रणामं कर्तुं नरा वाच्याः ।“ द्वितीय एव क्षणे करुणामयी पुनः प्रोवाच – ‘शरदे वार्तेयं न वक्तव्या, अन्यथाऽसौ प्रणामानुष्ठानमेव वारयिष्यति ।‘ एवंप्रकारेण श्रीमातुर्जीवोद्धारकार्यं प्राचलत् । कृपाप्रदाने विरामो नाभूत् । न चासीत् तस्याः काचिदपि विरक्तिः ।

सा विभिन्नजनानामेतावन्तं पापभारं स्वोपरि जग्राह, यद् व्यज्ञायत न पुनरसौ तं ग्रहीष्यति । ‘सर्वंसहाया’ जनन्याः कृतेऽपि सर्वमेतदसह्यं प्रतीयते स्म । शरीरेऽसावसह्ययन्त्रणाज्वालामन्वभूत् । तस्या मनस्यपि दारुणा वेदना प्रादुर्बभूव । एकदा एवंप्रकारेण बहूनां प्रार्थनाः पूरयन्ती सा अस्थिराजायत । तदानीं रात्रिरपि बहु व्यतीयाय । सर्वेषां दर्शनार्थिनां गमनानन्तरं सम्पूर्णमपि गृहं गङ्गाजलेन प्रोक्षयितुमादिशत् । निम्ने संस्तरणे शयित्वा तया शरीरस्य वसनान्यवतारितानि पृथक् प्रक्षिप्तानि च तत एकस्या भक्तिमत्या हस्ते व्यजनं दत्त्वा कथितम् – “वातं कुरु मातः ! शरीरे दाहो भवति, नमस्कारं च करोमि मातः ! कलिकातायै । कश्चित्कथयति ममेदं दुःखम्, अपरश्च वक्ति ममैतत्कष्टम् । अधुना न सोढुं शक्यतेऽतः परम् । कश्चित् कतिदुष्कृतान्यनुष्ठायागच्छत, अन्यश्च पञ्चविंशतिबालकेषु दशानां मृत्युना रोदिति । नैते नराः – पशव एव, साक्षात्पशवः सन्ति । नास्ति संयमः, न वा किञ्चिदन्यत् ।” द्वितीयदिने पुनस्स एव दर्शन-प्रार्थनापूरणकृपावितरणं क्रमः प्राचलत् ।

❀ ❀ ❀

प्रायश एकवर्षमष्टौ मासांश्च कलिकातायां स्थित्वा श्रीमाता जयरामबाट्यामाव्रजत् । भक्तसमागमदीक्षादानादिषु दैनन्दिनवृद्धिरबोभूयत । श्रीमातरमतिघनिष्ठभावेन प्राप्तुं, शरीरेण मनसा च तस्याः सेवासङ्गसुयोगमधिगन्तुं चानेके भक्तास्तस्याः समीपे जयरामबाट्यामाजग्मुः । अनेके जना जयरामबाट्यां तस्या आगमनस्य प्रतीक्षां चक्रुः । इदानीं यावत् श्रीमाता स्वीयभ्रातृगृह एव आसीत्, किन्तु सेवकसेविकाभिर्भक्तैश्च सह भ्रातृगेहनिवासे तस्या महदसौविध्यमासीदेव, किन्तु नास्ति कश्चनान्य उपायः । अतः कष्टमनेकं सोढ्वाऽपि श्रीमाता तेषां मध्य एत्रावसत् । तस्याः कष्टमिदं दूरीकर्तुं स्वामी सारदानन्दः, अन्ये च भक्ताः प्रयत्नपूर्वकं जयरामबाट्यां प्रायो द्विसहस्रमुद्राव्ययेन श्रीमातुः कृते पृथगेकं मृत्तिकागृहं भक्तानां च कृते निवासस्थानादिकं निर्मापितवन्तः । १३२३ वंगाब्दे ज्येष्ठमासे (१५१६ मई) श्रीमाता सेवकैः सह नवीनगृहं समाजगाम । मुक्तिकामिनां संन्यासिनां संसारतापसन्तप्तगृहमेधिनां शान्तिलाभाय स्थानमेकं निर्मितमभूत् ।

श्रीमातुराभ्यन्तरको विश्वमातृत्वप्रकाशः सर्वानेव चमत्कृतानकार्षीत् । सन्तानानामकुण्ठसेवायां श्रीमात्रा कियती तृप्तिः कियांश्चानन्दोऽन्वभूयत । केचन संन्यासिनो भक्ता भोजनानन्तरं स्वोच्छिष्टपात्राणि स्वयं प्रक्षालयतुं नयन्ति स्म । श्रीमाता मार्गंरुघाना तस्थौ, अवोचच्च – “न, अहमेव नेष्यामि ।” संन्यासिन आश्चर्यचकिता बभूवुः – “कीदृशीयं वार्ता । किमिदम् ? भवत्याः प्रक्षालनेन न मम महदकल्याणं भविष्यति” – कम्पितकण्ठेन साधुना प्रोक्तम् । तदानीं श्रीमाता साश्रुनयना प्रोवाच – “पश्य, मातुरङ्के बालका मूत्रं पुरीषं च कुर्वन्ति । अहं तव कृते किमकरवं पुत्र ।‘ संन्यासी शिरो नमयन् तस्थौ । तस्य नेत्रे सजले बभूवतुः ।

श्रीमात्रा चैकदा प्रोक्तम् – “अहं सतोऽसतश्च माताऽस्मि ।“ ‘आमजाद तुँते’ क्रूरो मुहम्मदीयश्चौरो लुण्ठकश्चासीत् । जयरामबाटीसन्निकटे शिरोमणिपुरे तस्य गृहमभूत् । श्रीमातुर्नवीनगृहनिर्माणकार्ये यदाऽसौ दुष्टो मुहम्मदीयः संलग्नस्तदा प्रथमं तु ग्रामवासिभिर्महद्भयमनुभूतम् । अनन्तरं तैरुक्तम् – ‘अरे !! श्रीमातुः कृपया लुण्ठका अपि भक्ता बभूवुः ।‘

एकस्मिन् दिने श्रीमात्रा आमजादः स्वगृहोपप्रकोष्ठे भोजनार्थमुपवेशितः । तस्या भ्रातुष्पुत्री नलिनी पर्यवेषयत् । तां दूरादेव प्रक्षिप्य परिवेषयन्तीमवलोक्य श्रीमात्रा प्रोक्तम् – “एवमवज्ञया प्रदत्तवस्तुभोजनेन मानवस्य क आनन्दो भविष्यति ? त्वं समीचीनरीत्या परिवेषयितुं न शक्नोषि चेदहं परिवेषयामि ।“ आमजादस्य भोजनानन्तरं श्रीमात्रा स्वयमेव तदुच्छिष्टस्थानं परिमार्जितम् । एतदवलोक्य – “अये पितृभगिनि, तव जातिर्गता” इति जल्पन्ती नलिनी कोलाहलमकरोत् । श्रीमात्रा निर्भय सा प्रोक्ता – “यथा शरत् मम बालकस्तथैव आमजादोऽपि ।” यतोऽसौ माता आसीत् ।

तस्या दिव्यमातृस्नेहेन इतरे प्राणिनो न वञ्चिता अभूवन् । तैरपि श्रीमाता स्नेहमयमातृरूपेण समधिगता बभूव । श्रीमातुः पार्श्वे शुक एक आसीत् । तया तन्नाम ‘गङ्गाराम’ इति संरक्षितम् । स्वीय ‘गङ्गाराम’ कृते तदीयः कीदृशः स्नेहः समादरश्वासीत् । कदाचिदसौ ‘राधाकृष्ण’ ‘राम राम’ चेति तमपाठयत् । सर्वान् “मा मा” इति भाषमाणानाकर्ण्य गङ्गारामाऽपि मातरं ‘मा मा’ इत्यभिधायाह्नयितुमशिक्षत । सा ताम्बूलमभक्षयत् । तदानीं गङ्गारामेण ‘मा मा’ इति प्रोक्तम् । ततश्च सा स्वरसनास्थं ताम्बूलं गङ्गाराममभक्षयत् । श्रीमाता पूजाया अनन्तरं बहिरागच्छत् । गङ्गारामश्व ‘मा मा’ इति शब्देनाह्वानमारभते स्म । पूजाया अनन्तरं श्रीमाता स्वहस्तेन गङ्गारामं फलं मिष्टान्नं चाभक्षयत् । गङ्गारामं प्रति श्रीमातुरियन्तमादरमवलोक्य कोऽपि भक्त ईर्ष्यया व्याहरत् – “अहमपि गङ्गारामो भवितु शक्नुयाम् ।”

श्रीमातुरेका पालिता बिडाली आसीत् । एकदा तया ब्रह्मचारिण एकस्य विष्टरे प्रसवः कृतः । श्रीमात्रा तदैतद् दृष्टं तदा त्वरितमेव फेनकेन ब्रह्मचारिणो विष्टरवस्त्रादिकं सर्वं धौतीकृत्य परिष्कृतम् । तथापि भयमेतदासीत्, यदनन्तरमेतत्परिज्ञाने सति कदाचिद् ब्रह्मचारी बिडालीं हन्यात् । तेन ब्रह्मचारिणा साकं साक्षात्कारे जात एव श्रीमात्रा प्रोक्तम् – “बिडाली किमपि न वक्तव्या । सा तिष्ठत्यवैव, भुङ्क्ते चात्रैव, तदा प्रसवं कर्तुं कुत्र गमिष्यति ?”

जयरामबाट्यामेकदा प्रत्यूष एव धेनुवत्स एकः सातिशयं नर्दति स्म । नर्दनमाकण्यैव श्रीमातुर्मनो व्याकुलीबभूव । सा “आयामि शीघ्रमायामि । अहं द्रुतमेव त्वां मुञ्चामि” – इति जल्पन्ती अस्तव्यस्तभावेन धावन्ती समागत्य वत्सममुञ्चत् ।

❀ ❀ ❀

जयरामबाटयां सहजघनिष्ठ भावेनैकदिनमपि यः श्रीमातरं प्राप्नोति, स एव ज्ञातुं पारयति यत् श्रीमातुर्मनसि स्वीयान् सन्तानान् प्रति कीदृशोऽपारः स्नेह आसीत् । एतादृशीनां लघीयसीनां घटनानां मधुमयो स्मृतिर्भविष्यत्कालाय पाथेयरूपा भूत्वां जीवनपर्यन्तं भक्तानां हृदि निरन्तरमतिष्ठत् । दिनमेकं दिनद्वयमेव न हि, प्रत्युत यो वर्षाणि यावन्मातुः सन्निधावतिष्ठत् स किलैकक्षणं कदापि तदीयोद्वेलितस्नेहममत्वादिषु न्यूनतां नाध्यगच्छत् ! स एव स्नेहो विभिन्नरूपेण – लघुलघुघटनां द्वारीकृत्य अभिव्यक्ततामगच्छत् । सन्तानानां स्नेहपूर्वकसपर्यानुष्ठाने श्रीमात्रा कियती तृप्तिरान्तरिकी प्राप्ता – इत्यस्य परिज्ञानं श्रीमातुः सन्तानसेवां विलोक्यैव भवितुमर्हति ।

जयरामबाट्यां श्रीमातुर्भवनं निरमीयत । एकः सेवको गृहकार्याय प्रातरेव समीपस्थग्रामेऽगच्छत् । शीतकालस्य ऋतुः । परावर्तने तस्य विलम्बोऽभवत् । सूर्यास्तगमनस्यैकहोरापूर्वं यदाऽसौ समागतस्तदानीमपश्यत् यत् श्रीमाता भोजनपानमन्तरेणैव बुभुक्षितसन्तानं प्रतीक्षते । विस्मितः सेवकोऽभियोगस्वरेणावोचत् – “मातः, भवत्याः स्वास्थ्यं समीचीनं नास्ति, भवति ! सन्ध्यासमयपर्यन्तं भोजनं विनैव तिष्ठति ?” श्रीमात्रा उत्तरितम् – “यदि त्वया न भक्षितं, तदाहं कथं भक्षयितुं शक्नोमि ?” अतः परं किमस्ति वक्तव्यम् ? सेवको निःशब्द नतमस्तका भूत्वा भोक्तुमुपाविशत् ।

सर्वजयी भवति मातृस्नेहः । सा केवलं कथनमात्रेणैव माता नास्ति । एकस्य सेवकस्य करयोः कठिनश्चर्म रोगोऽभवत् । स स्वकीयेन हस्तेन भोक्तुं नाशक्नोत् । श्रीमाता द्विसन्ध्यमेव तं निजहस्तैनैव द्विदलभक्तादीन्यभोजयत् । तदीयमुच्छिष्टं पत्रपात्रमपि सा स्वयं प्राक्षिपत् । घटनेयमतिसामान्यरूपा, किन्तु श्रीमातुः स्नेहेन सिक्ता सैवासाधारणरूपं दधानाऽमरतां प्रपेदे ।

❀ ❀ ❀


श्रीमद्भगवद्गीता ७.१६