श्रीरामकृष्णस्तोत्राणि
जगद्गुरुश्रीरामकृष्णस्तोत्रम्
ॐ नमो भगवते रामकृष्णाय
लोकनाथश्चिदाकारो
राजमानः स्वधामनि,
कलिकल्मषमग्नानामुत्तारण-चिकीर्षया ।
मायाशक्तिं समाश्रित्य योऽवतीर्णो महीतले,
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥१॥
सद्ब्राह्मणकुले जातो दिव्यदेहं समाश्रितः,
बाल्ये यो दिव्यभावेन वयस्यैः सह मोदयन् ।
विरक्तो यौवने तीव्रं मायापाश-विवर्जितः
नित्यमुक्तस्वभावोऽपि लोकानुग्रहकामतः ॥२॥
लोकानामेव शिक्षार्थं तपस्तप्त्वा
सुदुस्तरम्,
निद्रासनं परित्यज्य वर्षाणां द्व्यधिकान् दश ।
स्वस्वरूपं समाधाय सच्चिदानन्द-विग्रहम्,
दयामूर्तिः सदानन्दो जिज्ञासूनुपदिष्टवान् ॥
तेषामज्ञाननाशाय लाभाय च परात्मनः,
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥३॥
सत्यबोधतया साङ्गान् सर्वधर्मान्समाचरन,
धर्ममात्रं तु सत्यं वै येन सम्यक् सुनिश्चितम् ।
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥४॥
यो भक्तान् भक्तिमार्गे तु निनाय लोकनायकः,
आकृष्य मानसं तेषां भक्तिसिञ्चितया गिरा ।
दर्शयित्वा महाभावं परमानन्ददायकम् ।
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥५॥
ज्ञानिनो ज्ञानमार्गे च येन सम्यक्
प्रवर्तिताः,
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥६॥
यैर्मतैर्धार्मिका यस्मिन् धर्ममार्गे
व्यवस्थिताः,
तेषां तन्मतमादृत्य भक्तिस्तत्र दृढीकृता ।
प्रोत्साहिता यथान्यायं येन तत्साधेनष्वपि,
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥७॥
पूजिता येन वै शश्वत् सर्वेऽपि
साम्प्रदायिकाः,
सम्प्रदायविहीनो यः सम्प्रदायं न निन्दति
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥८॥
शश्वल्लीलाविलासेन येन सर्वमिदं ततम् ।
लीलारूपं
सदानन्दं रामकृष्णं नमाम्यहम् ॥९॥
सर्वधर्मप्रणेतारं धर्मग्लानिविनाशकम् ।
साधुमित्रं शिवं शान्तं रामकृष्णं नमाम्यहम् ॥१०॥
अज्ञानतिमिरे यस्तु ज्ञानालोक प्रदीपकः,
विमलानन्ददानाय प्रादुरासीन्महीतले ।
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥११॥
संसारार्णवघोरे यः कर्णधारस्वरूपकः ।
नमोऽस्तु
रामकृष्णाय तस्मै श्रीगुरवे नमः ॥१२॥
त्वं हि विष्णुर्विरिञ्चिस्त्वं त्वं च
देवो महेश्वरः,
त्वं चैव शक्तिरूपोऽसि निर्गुणरत्वं सनातनः ।
त्वां स्तोतुं कोऽत्र शक्तः स्याद्भावातीतमनामयम् ।
भगवन्
सर्वभूतात्मन् रामकृष्ण नमोऽस्तु ते ॥१३॥
सर्वाय सर्वपाराय सर्वभावस्वरूपिणे ।
सर्वभावविहीनाय रामकृष्णाय ते नमः ॥१४॥
महामायास्वरूपाय महामोहविनाशिने,
मायातीताय
शान्ताय रामकृष्णाय ते नमः ॥१५॥
निरञ्जनं नित्यमनन्तरूपं,
भक्तानुकम्पाधृतविग्रहं वै
ईशावतारं परमेशमीड्यं,
तं
रामकृष्णं शिरसा नमामः ॥१६॥
इति श्रीमदभेदानन्दस्वामिना विरचितं जगद्गुरुश्रीरामकृष्णस्तोत्रमिदं समाप्तम् ।
❀ ❀ ❀