श्रीरामकृष्णस्तोत्राणि
श्रीरामकृष्णाष्टकम्
श्रीमद्रामकृष्णपादाब्जसुधापानोन्मत्ता
रसिका
भावुकाः पिबन्तु सर्वकल्याणकरं तन्नामामृतं मुदा ।
विश्वस्य धाता पुरुषस्त्वमाद्यः
अव्यक्तरूपेण ततं त्वयेदम् ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥१॥
त्वं पासि विश्वं सृजसि त्वमेव,
त्वमादिदेवो विनिहंसि सर्वम् ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥२॥
मायां समाश्रित्य करोषि लीलां
भक्तान्समुद्धर्तुमनन्तमूर्तिः ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥३॥
विधृत्य रूपं नरवत्त्वया वै,
विज्ञापितो धर्म इहातिगुह्यः ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥४॥
तपोऽथ ते त्यागमदृष्टपूर्वं
दृष्ट्वा
नमस्यन्ति कथं न विज्ञाः ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥५॥
श्रुत्वात्र ते नाम भवन्ति भक्ता
दृष्ट्वा
वयं तन्न तु भक्तियुक्ताः ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥६॥
सत्यं विभुं शान्तमनादिरूपं
प्रसादये
त्वजमनन्तशून्यम् ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं
कुरु देव नित्यम् ॥७॥
जानामि तत्त्वं न हि दैशिकेन्द्रं,
किं वा
स्वरूपं कथमेव भावम् ।
हे रामकृष्ण त्वयि भक्तिहीने,
कृपाकटाक्षं कुरु देव नित्यम् ॥८॥
इति श्रीमदभेदानन्दस्वामिना विरचितं श्रीमद्रामकृष्णाष्टकं समाप्तम् ।
❀ ❀ ❀