श्रीरामकृष्णस्तोत्राणि
श्रीरामकृष्णषट्कम्१
विशुद्धविज्ञानमगाधसौख्यं,
विश्वस्य
बीजं करुणापयोधिः ।
अनाद्यनन्तं प्रकृतेः परस्तात्
तत्तत्त्वमेकं भुवि रामकृष्णः ॥१॥
न नेति मिथ्या श्रुतयो वदन्ति,
वदन्ति
साक्षान्न च यं कदाचित् ।
चिदेकरूपः शिव ईश्वराणां,
महेश्वरोऽसौ भुवि रामकृष्णः ॥२॥
यं नित्यमानन्दमनन्तमेकं
शिवेति
नाम्ना श्रुतयो गृणन्ति ।
तस्यावतारो नररूपधारी
कृपासुधाब्धिर्भुवि रामकृष्णः ॥३॥
विज्ञानपीयूषनिमग्नमूर्तिः
पस्पर्श
यान्यान्दयया करेण ।
ते कामिनीकाञ्चनरिक्तचित्ताः
सद्यो
बभूवुर्भुवि रामकृष्णः ॥४॥
प्रेमाब्धिगम्भीरतरङ्ग-भङ्गैः
आन्दोलितो
यो भगवद्विलीनः ।
भक्तिर्विशुद्धा स्वयमाविरासीत्
पुंविग्रहोऽहो भुवि रामकृष्णः ॥५॥
तमद्भुतं कञ्चिदचिन्त्यशक्तिं
वन्दे
प्रशान्तं परिपूर्णबोधम् ।
ज्ञानस्य भक्तेश्च विशुद्धमूर्तिं
द्विमूर्तिमेकं भुवि रामकृष्णः ॥६॥
❀ ❀ ❀
१ वङ्गाब्द १३३९ श्रावणमासस्य “उद्बोधन”-पत्रिकायाः ३४तमवर्षीयसप्तमसङ्ख्याया गृहीतम् ।