श्रीरामकृष्णस्तोत्राणि
श्रीरामकृष्णस्तोत्रम्
लोकान्विलोक्य नवभौतिकभोगलग्ना-
न्मग्नांश्च नास्तिकविचारपरम्परासु ।
भक्त्या बिहीनहृदयांश्च समुद्दिधीर्षुः,
श्रीरामकृष्ण भगवान्स्वयमाविरासीत् ॥१॥
वैराग्यबोधभजनत्रय सङ्गमेन,
सच्चित्सुखार्थमनपायमुपायरूपम् ।
सन्देशमौपनिषदं विशदीविधातुं,
श्रीरामकृष्ण-भगवान्स्वयमाविरासीत् ॥२॥
कान्तासु विश्वजननीमवलोकयन्तं,
तुल्याश्मकाञ्चनमतिं सदसद्विवेकम् ।
नित्यं करामलकसिद्धसमाधियोगं,
श्रीरामकृष्णचरणौ शरणं प्रपद्ये ॥३॥
विद्याविलासविदुषोऽपि जगत्येनका-
नेकान्तमद्भुतरसानकरोत्स्वकीयान् ।
कृच्छ्रान्वितेषु करुणावरुणालयः सन्
श्रीरामकृष्णभगवान् द्युतिमातनोतु ॥४॥
अद्वैतमार्गममलं चिरशान्तिबीजं
संस्थापयन्नतुलयत्नपरः परार्थः ।
वन्दे तमन्धतमसावृतजीववृन्दे
प्रज्वालितो जगति येन विवेकदीपः ॥५॥
स्तोत्रमिदं साहित्याचार्य एम. ए. श्रीभण्डारकरोपाह्वेन त्र्यंबकशर्मणा विरचिता ।
❀ ❀ ❀