श्रीरामकृष्णस्तोत्राणि
श्रीरामकृष्णस्तुतिः
नमः श्री रामकृष्णाय
रामकृष्णस्वरूपिणे ।
नरान् भ
वाम्बुधेः पारं नेतुं नौरिव यः
स्थितः ॥१॥
सर्व ग स्सर्वसाक्षी
यः सर्वधर्ममयः
प्रभुः ।
स्वभा व
तः कृपासिन्धुरिन्दुश्चिन्तानलोष्मणः ॥२॥
ससं तो षोऽकिञ्चनत्वे
समहेमाश्ममृत्तिकः ।
मातु रा राधनासक्तो
विहितेश्वरदर्शनः ॥३॥
निष्का म
लोकसत्कार्यपरः परमतत्त्ववित् ।
कृत कृ त्यो
नरेन्द्रोऽभूद्यस्य सङ्गतिमात्रतः ॥४॥
वितृ ष्ण स्संसृतौ
रामकृष्णस्तु
भगवान्स्वयम् ।
सर्व दे
वमयः पूर्णः सर्वज्ञो विश्वपूजितः ॥५॥
मान व स्य स्वरूपं
हि नित्यं शुद्धं
तथामलम् ।
विश्व स्य
शान्तये सर्वनरैकत्वमतोऽब्रवीत् ॥६॥
सद्व स्तु नः
प्रकाशेन सर्वधर्म समन्वयात्
।
यत्कीर् तिः देशमर्यादामतिक्रम्याभितो
ययौ ॥७॥
स्तुतिरियं साहित्याचार्य एम्. ए. श्रीभण्डारकरोपाह्वेन त्र्यंबकशर्मणा विरचितम् ।
❀ ❀ ❀