श्रीरामकृष्णस्तोत्राणि
श्रीरामकृष्णस्तोत्रम्
स्वयं निर्मलं निर्मलीकर्तुमन्यानलं
सिद्धमप्युच्चसिद्धिप्रयासम् ।
प्रपन्नार्ति-नाश-प्रसन्नान्तरं तं, भजे रामकृष्णं परब्रह्मरूपम् ॥१॥
सदान्तर्लसत्सर्वसद्भावभावं, जगच्छान्तये
विश्वधर्मप्रकाशम् ।
मुदान्तः
प्रविष्टाखिलास्वप्नवृन्दं, भजे रामकृष्णं परब्रह्मरूपम् ॥२॥
अविद्यान्धकारा-पहार-प्रहारं
स्वभक्तानुकम्पाप्रसक्तान्तरङ्गम् ।
अवस्था
गुणादिव्यतीतस्वरूपं प्रभुं रामकृष्णं शिवं सन्नतोऽस्मि ॥३॥
स्मृतिः केवलं तेऽहसां नाशहेतुः
स्तुतिर्मानसं मानसम्मोद-पूर्णम् ।
करोति;
ध्रुवं दर्शनस्पर्शनादेः फलं भाषितुं कोऽस्त्यलं देवदेव ॥४॥
विवस्वत्प्रकाशाः पयोघेस्तरङ्गा
यथाकाशगास्तारकाः सन्त्यमेयाः ।
असङ्ख्यास्तथा यद्गुणानां गणास्तं भजे रामकृष्णं परब्रह्मरूपम् ॥५॥
विकारहेतावपि निर्विकारं
साकारमप्याकृतिशून्यभावम् ।
ज्ञानोपदेशैः सुकृतोपकारं, श्रीरामकृष्णं शिरसा नतोऽस्मि ॥६॥
“यथाम्बुधिं यान्ति विभिन्न
गङ्गास्रोतांसि, धर्मा अपि देवदेवम्” ।
येनोपदिष्टं निजसाधनाभिस्तं रामकृष्णं शिरसा नतोऽस्मि ॥७॥
त्वमेव साक्षाज्जगदात्मरूपस्त्वमेव कार्य
परकारणं वा ।
अनुग्रहैकार्थपरं परात्मन् करोम्यभीक्ष्णं शरणं कमन्यम् ? ॥८॥
स्तोत्रमिदं साहित्याचार्य एम्. ए. श्रीभण्डारकरोपाह्वेन त्र्यम्बकशर्मणा विरचितम् ।
❀ ❀ ❀