श्रीरामकृष्णस्तोत्राणि
श्रीरामकृष्णप्रशस्तिः
अभूत् त्रेतायुगे रामः कृष्णो यो द्वापरे
तथा ।
रामकृष्णतया काले कलावत्र बभूव ह ॥१॥
युगप्रवर्तकत्वेन युगाचार्याख्यया पुनः ।
स्वामी
विवेकानन्दोऽतः प्रणमन्नाह सादरम् ॥२॥
“स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे ।
अवतारवरिष्ठाय रामकृष्णाय ते नमः” ॥३॥
मतभेदेन मार्गाणां भेदो नास्त्यत्र संशयः ।
विभिन्नसाधनासूतानुभूतिः कल्पना न हि ॥४॥
विश्वधर्मप्रतीकोऽभूद्रामकृष्णो न संशयः ।
सर्वेषामेव धर्माणां साधना यत्समादृताः ॥५॥
तद्रहस्यमिदं ज्ञेयं, सर्व एव हि मानवाः ।
सन्तानभूता जगतः स्रष्टुर्हि परमात्मनः ॥६॥
इति निर्णीय विश्वस्मिन् भ्रातृत्वे
सुप्रतिष्ठिते ।
विश्वबन्धुत्वसंसिद्धिमैत्रयुत्कर्षाद्भवेदिति ॥७॥
अत्यन्तबाल्यकाले षड्वर्षावस्थस्य योगिनः ।
भावावस्था
स्वतो जाता रामकृष्णस्य भूम्न्यहो ॥८॥
कस्य साधारणस्येवं दृष्टं केनापि
कर्हिचित् ।
ततः परं
समग्रे हि जीवने परमेशितुः ॥९॥
सगुणत्वागुणत्वाभ्यां ध्याननिष्ठो बभूव सः
।
सत्यं
भगवतो रूपमसत्यं यत्ततः परम् ॥१०॥
इति नूतनया भङ्ग्या ख्यापयामास दुस्तरे ।
सन्देहानि
कुतर्कोत्थनास्तिकत्वाकुले युगे ॥११॥
क एवमन्यः पुरुषो लभ्यः साधारणे जने ।
रामकृष्णविनिश्चित्या दृढयाऽसङ्ख्यमानवे ॥१२॥
भगवल्लाभविषये दृढेच्छा जागरं गता ।
इष्टदर्शतया श्रीमद्रामकृष्णं दधाति यः ॥१३॥
तस्यैव जन्म साधीयस्तदाश्वासनवागिति ।
जातिधर्मविशेषार्थमागतिस्तस्य नैव हि ॥१४॥
समग्रविश्वकल्याणप्रसवार्थं तदागमः ।
इयं
विचित्रता तस्य स्पर्शमात्रेण केवलम् ॥१५॥
समाधिस्तर उन्नीतं बहु साधारणं मनः ।
स्वीयाध्यात्मिकशक्तेर्हि कृत्वा सङ्क्रमणं परे ॥१६॥
चैतन्योद्बोधनेनासौ तं मुक्तिद्वार मानयत्
।
अहैतुक्यां तत्कृपायां सीमा भौगोलिकी न हि ॥१७॥
ततस्तस्य कृपालाभ सर्व एवाधिकारिणः ।
जन्मापि
नाभवत्तत्र बाधकं कुत्रचित्ततः ॥१८॥
अन्त्यजाद्या अपि कृपालाभात्तस्य न
वञ्चिताः ।
नातीतभूपतेर्मुद्रा वर्तमानेऽर्थसाधिनी ॥१९॥
उपादानैक्य सत्वेऽपि चिह्नवैचित्र्ययोगतः ।
सर्वप्रसिद्धमेवैतत् तद्वदेतत्प्रबुध्यताम् ॥२०॥
युगधर्मश्चिह्नितोऽद्य रामकृष्णचरित्रतः ।
रामकृष्णावतारस्य वैलक्षण्यमिदं महत् ॥२१॥
सन्त्यज्य सकलैश्वर्यं दीनवेषे समागमः ।
त्यागस्तपश्च वैराग्यमीश्वराश्रयता परा ॥२२॥
रामकृष्णावतारेऽत्र भावैश्वर्यमुदाहृतम् ।
गार्हस्थ्यमपि संन्यासो द्वयं हि समपेक्षितम् ॥२३॥
इत्यप्यदर्शयद्रामकृष्णस्तद् द्वयमाश्रयन्
।
जीवनाद्रामकृष्णस्य तत्तदाश्रमजीवने ॥२४॥
प्रपतन्नूतनाऽऽलोकः सङ्केतं प्राप
निश्चितम् ।
सत्ययोर्देवदेव्योस्तु मूर्तिपूजापि नानृता ॥२५॥
द्वैतं विशिष्टाद्वैतं चाद्वैतं सर्व हि
शोभनम् ।
शैवाश्शाता गाणपत्या बौद्धाःखृष्टानुयायिनः ॥२६॥
यावनाश्च समे धर्माः शाखाभूताः
स्तरात्मकाः ।
किं वा
वेदान्तधर्मस्य विततामितशाखिनः ॥२७॥
तासां तासां साधनानां विधानेनोपदेशतः ।
इत्येव
ख्यापयामास रामकृष्णः प्रभुः परः ॥२८॥
पत्नीं देवीस्वरूपेण सम्पूज्यादाद्
बृहत्तराम् ।
मर्यादां
मातृजात्यै हि तद्देवत्वं स्थिरीकृतम् ॥२९॥
गच्छामि शरणं श्रीमद्रामकृष्णपदाम्बुजम् ।
तस्मात्
सदैव हृदये समुदे तु स एव हि ॥३०॥
न्यायाचार्य पण्डित – ‘आनन्दझा’ इत्येतेन विरचितम् ।
❀ ❀ ❀