श्रीरामकृष्णस्तोत्राणि
श्रीश्रीरामकृष्णस्तोत्रम्
जगज्जातं त्यक्तं हिमगिरिसुतापादकमले
शरीराद्याः प्राणा बलय इव येनार्पणमगुः ।
त्रिवर्गो यच्छ्रद्धाविमलगुरुभक्त्या हि सुलभो
नुमो
रामकृष्णं सुरनुतपदं भेदरहितम् ॥१॥
स्वयं त्यक्तं प्रोक्तं हृदयकरशाखोल्लिखनतः
पुरा
रामात्कृष्णः समभवदनन्यो नहि परः ।
इदानीमायान्तं नयनविषयत्वं जनिभृतां
प्रविष्टो
देहेऽस्मिन्निति कनककामातिगतया ॥२॥
यदद्वैतं शान्तं सततमघमायाविरहितं
चिदानन्द
शुद्धं प्रकृतिसहितं प्रेमवशगम् ।
त्वमेवाविर्भूतं करणविषये दुर्लभतरं
जगज्जीवैः
क्रीडन्महदमितवीर्यं रसतमम् ॥३॥
त्वमेव श्रीरामो मधुरिपुहरिर्गोपतनयः
स्वयं
भूतश्चाद्यः परमपुरुषो नाथ रमण ।
विवादं धर्माणां शमयितुमनाश्चिन्मयवपुः
प्रसन्नो
लोकानां प्रकटितमकार्षीः पुनरिह ॥४॥
त्वदीयांङ्घ्रि द्वन्द्वक्षरितमकरन्दं
प्रतिदिशं
सदा पायं
पायं कलितभवभीति प्रशमयन् ।
भजन्साम्यानन्दं विमलहृदयो याति परमां
जनानां
सङ्घोऽयं निखिलभुवि शान्ति मुहुरहो ॥५॥
समाधावानन्दं पुनरति विशुद्धं हरिकथा-
प्रसङ्गादुद्बुद्धं करणगणरोधं प्रविवहन् ।
नराणां भक्तानां हृदय पुलकानां प्रतिदिनं
समाधानं
चक्रे य इह शरणं मेऽस्तु सततम् ॥६॥
ध्रुवा मूर्तिर्गङ्गा तटपरिगता या गुणमयी
गुणातीतापि स्यान्ननु लसति दक्षेश्वरमणिः ।
ब्रजन्ती गायन्ती भवतरणिमातुर्गुणकथाः
सदा
स्वान्ते सा मे स्फुरतु रमणीया द्युतिमयी ॥७॥
कृपापीयूषाम्भः पतितमधिकं पातकिजने
दयासिन्धो
मन्दे रसिक चतुरप्रीतरसिके ।
दरिद्राणां बन्धो ! तव विदुरगेहे सुखलवाः
समर्थो
निर्णेतुं क इह महिमानं ननु बुधः ॥८॥
समुद्धर्तुं लोकान् स्वयमधिगतिस्ते
प्रतिगृहं
क्व
देवेन्द्रादीनां वसति भवनं कह शशधृक् ।
गुणानां साधूनां त्वयि निवसनं भो गुणधर
स्मरामो
नित्यानामपि निरभिमानं निरुपमम् ॥९॥
नियन्ता जीवानामपि शिशुवदेवानुनटसि
स्वतन्त्रः सर्वेषामिव चरसि देवीपरगतः ।
अभिज्ञाता विश्वं भणसि ननु मूर्खाभिध इति
प्रियां
ते जानीमो निजसकलगुप्तिं नटवर ॥१०॥
नमो रामैक्यायामितमधुरदेवीमयतनू-
भृते
कृष्णैक्याय श्रुतपरमहंसाय यतये ।
नमश्चन्द्रामण्या प्रियतनय देवाय गतये
नमः
सर्वस्वाय प्रणयिखुदिरामस्य मणये ॥११॥
इयं स्तुतिकथा पूजा रामकृष्णे परे गुरौ ।
अर्पिता
तेन देवेशः प्रीयतां परमेश्वरः ॥१२॥
इति श्रीश्रीरामकृष्णस्तोत्रम् ब्रह्मचारिमेधाचैतन्येन विरचितम् ।
❀ ❀ ❀