श्रीरामकृष्णस्तोत्राणि

श्रीरामकृष्णस्तुतिः

ज्योतिरेकं निराकारमचिन्त्यं शाश्वतं परम् ।
        अद्वितीयं चिद्घनं च बालरूपं दधत् पुरा ॥१॥

आगत्य परमे धानि महर्षित्रातमण्डिते ।
        ऋषिमेकं समाधिस्थं कण्ठाश्लेषमुवाच ह ॥२॥

लोकानामुपकाराय प्रागहं यामि भूतले ।
        ततो नु भवता नूनमागन्तव्यं तपोधन ॥३॥

                        ❀ ❀ ❀

पितॄन् समुद्धर्तुमनाः खुदिरामः कदाचन ।
        उपस्थाय गयाधाम्नि पितृभ्यः पिण्डमाहरत् ॥४॥

गयाधिष्ठातृदेवो यो गदाधर इति श्रुतः ।
        पितॄणां दिव्यदेहानां पुरः स्वप्ने तमब्रवीत् ॥५॥

प्रीतोऽहमस्मि ते विप्र ! पितृभिः प्रार्थितोऽनघ !
        तव पुत्रो भविष्यामि नान्यथा मम भाषितम् ॥६॥

कामारपुकुरग्रामसन्निधौ शिवमन्दिरे ।
        गतायाश्चन्द्रमण्यास्तु शिवो ह्युदरमाविशत् ॥७॥

हंसारूढोऽपि भगवानेकदा परितोषितः ।
        श्रीलां चन्द्रमणिं देवीं दद्यादृष्ट्या व्यलोकयत् ॥८॥

                        ❀ ❀ ❀

हुगलीमण्डले वङ्गे कामारपुकुराभिधे ।
        ग्रामे ज्योतिश्चयो बालो जन्म जग्राह सत्कुले ॥९॥

माता चन्द्रमणिस्तस्य खुदिरामोऽभवत् पिता ।
        आस्तां तदीयौ पितरौ भूसुरान्वयदीपकौ ॥१०॥

गदाधरलसन्नाम्ने रामकृष्णस्वरूपिणे ।
        नामरूपविहीनाय देवदेवाय ते नमः ॥११॥

ब्राह्मकल्पेनोपनीतो ब्रह्मचर्यव्रते स्थितः ।
        स्वाध्याये नानुरक्तोऽपि सहजातमहामतिः ॥१२॥

भावावेशः, समाधिश्व, ज्योतिर्देहे च संस्थितिः ।
        यस्यासन् सहजा धर्माः, रामकृष्णाय ते नमः ॥१३॥

स्वोद्वाहार्थं सचिन्ते च स्वजने व्यग्रतां गते ।
        स्वयमेव समाधिस्थः सारदां सहधर्मिणीम् ॥१४॥

षड्वार्षिकीं कोमलाङ्गीं शारदं शर्वरीश्वरम् ।
        परिपूर्णं ह्रेपयन्तीं स्वाकलङ्काननश्रिया ॥१५॥

निर्दिदेश, ततस्तस्याः पाणिं जग्राह धर्मवित् ।
        निःसङ्गादर्शरूपाय गृहस्थाय च ते नमः ॥१६॥

देवदर्शनमेलायां शिशुः श्रीसारदाऽपि च ।
        स्वजनैर्नीयमाना सा हस्तावुद्यम्य पूर्वतः ॥१७॥

यं वरेण्यं महाभागं देवमानवरूपिणम् ।
        पतिं चक्रेऽप्रबुद्धाऽपि रामकृष्णाय ते नमः ॥१८॥

जामाता रासमण्यास्तु राण्याः कोटिपतिः स्वयम् ।
        तस्या वसूनां सर्वेषां नियमेनाधिकारवान् ॥१९॥

सुप्रसन्नः सम्प्रदातुं प्रामान् क्षेत्राणि चैहत ।
        श्रुत्वैतत् क्रोधताम्राक्षो यष्ट्या तु तमताडयत् ॥२०॥

राणी रासमणिश्चापि दक्षिणेश्वरमागता ।
        कालीसम्मुखमास्थाय ध्यानाभिनयतत्परा ॥२१॥

चिन्तयामास तत्रेयमभियोगफलाफलम् ।
        ताडयित्वा चपेटाभिः सावधानां चकार ताम् ॥२२॥

एकदा मरुदेशीयो लक्ष्मीनारायणो धनी ।
        मुद्राणां दशसाहस्रं भक्त्याऽर्पयितुमागतः ॥२३॥

तृणाय मत्वा न स्पृष्टं तद् धनं येन साधुना ।
        श्रीमात्राऽपि च तत्पत्न्या प्रत्याख्यातं तथैव च ॥२४॥

रूप्यादिधातुपात्राणां स्पर्शात् सर्वाङ्गसम्भवः ।
        कम्पः प्रजायते यस्य नमस्ते त्यागरूपिणे ॥२५॥

तत्तद्धर्मोपास्तिकाले तत्तद्धर्मप्रवर्तकाः ।
        ईसामुहम्मदाद्याश्च स्वयं दृष्टिपथं ययुः ॥२६॥

अनन्तरं च ते सर्वे यस्य देहं समाश्रिताः ।
        सर्वधर्मस्वरूपाय रामकृष्णाय ते नमः ॥२७॥

ब्रह्मविष्णुशिवाद्याश्च ये देवाः श्रुतिसङ्गताः ।
        रामकृष्णादयः सर्वे ह्यवतारास्तथैव च ॥२८॥

वाणीलक्ष्मीकालिकाद्या या देव्योऽनन्तशक्तयः ।
        सीताराधाप्रभृतयः शक्तयश्चावतारिणाम् ॥२९॥

निवसन्ति सदाऽऽश्रित्य यस्य देवस्य विग्रहम् ।
        सर्वदेवनिवासाय रामकृष्णाय ते नमः ॥३०॥

तीर्थभ्रमणकामेन दृष्टा वाराणसी पुरी ।
        पुण्यैर्धवलिता शश्वद् विमला विमलात्मनाम् ॥३१॥

शम्भोत्रिशूले तिष्ठन्ती चञ्चच्चामीकरोपमा ।
        ददाति मुक्ति प्रेतेभ्यो यस्यां स सशिवः शिवः ॥३२॥

तस्यां प्रविष्ट एवाऽसौ शैवं कार्यं विलोकयन् ।
        समाधिमभजत्तूर्णं शिवध्यानपरायणः ॥३३॥

तैलङ्गं स्वामिनं जीवन्मुक्तमन्यांश्च सत्तमान् ।
        महता भक्तिभावेन दर्श दर्शमपूपुजत् ॥३४॥

पुर्यामस्यां सुनिवसन् धर्मभीरुर्जितेन्द्रियः ।
        यो न चक्रे मलं मूत्रं तस्मै धर्मात्मने नमः ॥३५॥

वृन्दावने प्रयागे च यत्रैव समुपस्थितः ।
        तत्पुण्यधाम्नो माहात्म्यं स्वाचारैः पर्यपोषयत् ॥३६॥

तीर्थाटनस्य समये योऽन्येष्ववसरेषु च ।
        सर्वथाऽतोषयद्दीनान् तस्मै दीनात्मने नमः ॥३७॥

बहूनां दासभक्तानां पापतापान् जहार यः ।
        स्वयं च क्लेशभाग् भूत्वा तं नुमः करुणानिधिम् ॥३८॥

तान्त्रिको वैष्णवो धर्मः संन्यासः शाङ्करस्तथा ।
        सम्यक् संसाधितो येन रामकृष्णाय ते नमः ॥३९॥

ब्रह्मानन्दशिवानन्दौ विवेकानन्द एव च ।
        निरञ्जनानन्द उत प्रेमानन्दो महामतिः ॥४०॥

तुरीयानन्द-त्रिगुणातीतानन्दौ बुधोत्तमौ ।
        अभेदाखण्डयोगाद्याऽऽनन्दाः संन्यासिसत्तमाः ॥४१॥

अन्ये च बहवस्त्यागतपस्यायोगविश्रुताः ।
        संन्यस्त काम्यकर्माणो यस्य शिष्यत्वमागताः ॥४२॥

नमस्ते प्रेमरूपाय सर्वधर्मात्मने नमः ।
        नमः परमहंसाय प्राणिमात्रप्रियाय च ॥४३॥

कालीपरमभक्ताय कालिकाऽभेदरूपिणे ।
        सर्वावतारगुरवे सर्वतेजोमयाय च ॥४४॥

सशक्तिकाय महसां निधये शाश्वतत्विषे ।
        परात्पराय महते नमः श्रीवेदमूर्तये ॥४५॥

पण्डितश्रीगोपालचन्द्रचक्रवर्ति-वेदान्तशास्त्रिविरचिता श्रीरामकृष्णस्तुतिरयं समाप्ता ।

❀ ❀ ❀