श्रीरामकृष्णस्तोत्राणि
स्तुतिकुसुमाञ्जलिः
त्रेतायां रामचन्द्रोऽशुभशतदलने
शक्तिपूजां वितेने
तत्पश्चात् कृष्णचन्द्रः शमलकवलने द्वापरे प्रेम मेने ।
तावास्तां राम-कृष्णः कलिमलहरणे प्रेम-शक्ति-प्रचारी
विश्वेशः शास्ति धर्मं युगमनु तनुभृद् धर्मबाधान्तकारी ॥१॥
शिवे लग्ना शक्तिः शिवमय-शिवानी शिवनुता
जगन्माता नित्यं सुतततिहितैकप्रसविनी ।
महामाया साध्वी पतिपदरता भाति सतत-
मिमं सारं शक्तेरधिगमयितुं साऽऽगमदिह ॥२॥
ससारदं रामकृष्णं सारदं विहिताञ्जलिः ।
प्रपन्नोऽस्मि सदा भक्तं भक्तैकशरणं विभुम् ॥३॥
❀ ❀ ❀