श्रीसारदादेवीस्तोत्रम्
अथ श्रीमत्याः सारदादेव्याः स्तोत्रं प्रारभ्यते
प्रकृतिं परमामभयां वरदां,
नररूपधरां जनतापहराम् ।
शरणागत-सेवक-तोषकरीं,
प्रणमामि
परां जननीं जगताम् ॥१॥
गुणहीन-सुतानपराध-युतान्,
कृपयाऽद्य समुद्धर मोहगतान् ।
तरणीं भवसागरपारकरीम्,
प्रणमामि
परां जननीं जगताम् ॥२॥
विषयं कुसुमं परिहृत्य सदा,
चरणाम्बुरुहामृत्तशान्तिसुधाम् ।
पिब भृङ्ग मनोभवरोगहरां,
प्रणमामि
परां जननीं जगताम् ॥३॥
कृपां कुरु महादेवि, सुतेषु प्रणतेषु च ।
चरणाश्रयदानेन कृपामयि, नमोऽस्तु ते ॥४॥
लज्जा पटावृते नित्यं सारदे ज्ञानदायिके ।
पापेभ्यो नः सदा रक्ष कृपामयि, नमोऽस्तु ते ॥५॥
रामकृष्ण-गत प्राणां तन्नामश्रवणप्रियाम् ।
तद्भावरञ्जिताकारां प्रणमामि मुहुर्मुहुः ॥६॥
पवित्रं चरितं यस्याः पवित्रं जीवनं तथा ।
पवित्रतास्वरूपिण्यै तस्यै कुर्मो नमो नमः ॥७॥
देवीं प्रसन्नां प्रणतार्तिहन्त्रीं,
योगीन्द्रपूज्यां युगधर्मपात्रीम् ।
तां सारदां भक्तिविज्ञानदात्रीं, दयास्वरूपां प्रणमामि नित्यम् ॥८॥
स्नेहेन बध्नासि मनोऽस्मदीयं, दोषानशेषान्
सगुणीकरोषि ।
अहेतुना नो दयसे सदोषान्, स्वाङ्के गृहीत्वा यदिदं विचित्रम् ॥९॥
प्रसीद मातर्विनयेन याचे, नित्यं भव
स्नेहवती सुतेषु ।
प्रेमैकबिन्दुं चिरदग्धचित्ते, विषिञ्च चित्तं कुरु नः सुशान्तम् ॥१०॥
जननीं सारदां देवीं रामकृष्णं जगद्गुरुम् ।
पादपद्मे तयोः श्रित्वा प्रणमामि मुहुर्मुहुः ॥११॥
इति श्रीमदभेदानन्दस्वामिना विरचितं श्रीमत्याः सारदादेव्याः स्तोत्रं समाप्तम् ।
❀ ❀ ❀