श्रीसारदादेवीस्तोत्रम्
श्रीश्रीसारदाषट्कम्
धवलवसनवेषा मूर्तकारुण्यदेहा
सुरनरमुनिवन्द्या रामकृष्णार्चिताद्या ।
सकलगुणयुता नो वेष्टिताङ्गा सलज्जा
जननमरणभङ्गा सारदा पातु दिव्या ॥१॥
विमलगगनशुद्धा सर्वलोकार्थचिन्ता
विगतविषमदृष्टिश्चिन्मयी शान्तिदात्री ।
त्रिभुवनजनधात्री मङ्गला मर्त्यभूमौ
अवतरति
परेशे स्वेच्छयाविर्भवन्ती ॥२॥
त्रिपुरदहनकान्ता रामचन्द्रस्य कन्या
निखिलभुवनकर्त्री मार्जनीहस्तमृष्टिः ।
भवनिगडविमुक्तिर्याद्य माया विमुग्धा,
नरपतिगणशास्त्री दैन्यदुःखे धरित्री
॥३॥
प्रलयसमयघोरा रोष सङ्घातदेहा
स्तनितभयविधात्री कालिका विश्वहर्त्री ।
अमरनिकरवन्द्या देवदेवोरुवासा
नटनहसनलास्या सारदा भिन्नरूपा ॥४॥
दशभुजदशशस्त्रा दिव्यमोदा सुहास्या
गुहगणपतिमाता दक्षकन्या शरण्या ।
विनतभयविहन्त्री पार्वती राज्यलक्ष्मीः
विधिहरिभवपात्रं सारदा भूतधात्री
॥५॥
जपनभजनहीना किंनु पुत्राः कुपुत्रा
व्यसनगणनियुक्ताः किंनु हेया जनन्या ।
इति गुणततिशून्यान् सारदे त्रायतां नो
विदितसकलदोषा नैव माता जहाति ॥६॥
सर्वदेवात्मिकां
वन्दे सर्वदेवमयीं भजे,
सारदां
प्रार्थये भक्तिं तत्पादाम्बुरुहद्वये ॥७॥
ब्रह्मचारिमेधाचैतन्येन विरचितं श्रीसारदाषट्कं समाप्तम् ।
❀ ❀ ❀