श्रीसारदादेवीस्तोत्रम्
श्रीसारदास्तवः
“बाँकुडा”-मण्डले वङ्गे “जयरामाख्यवाटिका”
।
ग्रामस्तत्राग्रही जन्म “सारदा” शारदा स्वयम् ॥१॥
“रामचन्द्रः” पिता, “श्यामा-सुन्दरी” जननी
तथा ।
आद्यसन्तानरूपेण तयोरेषा ह्यभूत् सुता ॥२॥
कदाचिज्जननी तस्या देवदर्शनवाञ्छया ।
जगाम
“शिहडे” ग्रामे पतिभक्तिपरायणा ॥३॥
परावर्तनकाले तु स्वग्रामनिकटस्थिते ।
देवालये
गता चैकवृक्षच्छायां समाश्रिता ॥४॥
विचित्र: पवनस्तस्या उदरं प्रविवेश ह ।
तयाऽनुभूतं तत्रैव गुरुत्वं स्वोदरस्य तु ॥५॥
तदोपविष्टा सा देवी साश्चर्येदं व्यलोकयत्
।
एका
षड्वर्षदेशीया बालिका चातिसुन्दरी ॥६॥
कौशेयवस्त्रं बिभ्राणा वृक्षशास्त्रात
आगता ।
स्वकीयौ
कोमलौ हस्तौ तस्याः कण्ठे समार्पयत् ॥७॥
प्रोवाच – “मातस्ते गेहमागमिष्याम्यहं
ध्रुवम् ।“
निशम्येति
भयार्ता सा मूर्छिता न्यपतद्भुवि ॥८॥
तामुत्थाप्य समानिन्युः स्वगृहं
तत्कुटुम्बिनः ।
सुन्दरी
बालिका सैव तस्या उदरमाविशत् ॥९॥
दिवसेभ्यः कतिभ्यश्चित् पूर्वं
निद्रावशंवदः ।
ऋषिकल्पः
पुण्यकर्मा रामचन्द्रसुधीरपि ॥१०॥
स्वप्ने ददर्श – “हेमाङ्की बालिकां
चातिनिर्मलाम् ।
कण्ठे
तस्य समाश्लिष्टां बिभ्रतीं रूपमद्भुतम्” ॥११॥
देवीं तां मन्यमानोऽसौ
रामचन्द्रोऽतिविस्मितः ।
पप्रच्छ –
“बाले काऽसि त्वं ममानन्दविवर्धिनी” ॥१२॥
अधरीकृत सद्वीणास्वरेण स्वस्वरेण सा ।
जगाद तं
महात्मानमतिविस्मयसंयुतम् ॥१३॥
"अहमस्मि महाभाग ! लोकमाता समुद्रजा ।
आगता तव
गेहेऽहं लोककल्याणकारिणी ॥१४॥
विदुषो रामचन्द्रस्य गृहे प्राप्य निजं
जनुः ।
ववृधे
शनकैर्बाला शुभ्रेव शशिनः कला ॥१५॥
एकदा “शिहडे” ग्रामे धार्मिको
ह्युत्सवोऽभवत् ।
देवः
श्रीरामकृष्णोऽपि तत्राभूत् समुपस्थितः ॥१६॥
उत्सवं द्रष्टुकामैश्व स्वजनैर्दैवयोगतः ।
अजातदन्ता
बालेयं नीयमानाऽभवत्तदा ॥१७॥
विनोदार्थमसौ पृष्टा – “कः पतिस्ते
भविष्यति ?” ।
प्रसार्य
बाहू सा शिश्वी रामकृष्णमदर्शयत् ॥१८॥
शनैः प्रवर्धमानायास्तस्या विविधकर्मसु ।
नित्यं
साहाय्यमाचेरुर्विचित्रा देवकन्यकाः ॥१९॥
षष्ठे वर्षे प्रविष्टाया रामकृष्णेन वै सह
।
मैथिल्या
इव रामेण तस्या जातः करग्रहः ॥२०॥
दशां विचित्रामाकर्ण्य युवती सा जनेरिताम्
।
पत्युः
श्रीरामकृष्णस्य चैकदा खिन्नतां गता ॥२१॥
गङ्गास्नानमिषेणैषा समागाद्दक्षिणेश्वरम् ।
अध्वश्रमपरीताऽभूत् ज्वरवेगप्रपीडिता ॥२२॥
रात्रौ स्वप्ने समागत्य तदानीं भवतारिणी ।
तस्याः
शिरसि पस्पर्श कोमलेन करेण च ॥२३॥
तदाऽपृच्छदसौ “का त्वं ?” तामुवाच
महेश्वरी ।
“तवाऽस्मि
भगिनी, त्वां च नीरोगां कर्तुंमागता” ॥२४॥
ततः प्रातः प्रसन्ना सा पित्रा सार्धं
शुचिस्मिता ।
दक्षिणेश्वरमागत्य ददर्श नीरुजं पतिम् ॥२५॥
पतिप्रिया पतिप्राणा पतिसेवापरायणा ।
स्वपुत्रानिव सद्भक्तान् सेवया पर्यंतोषयद् ॥२६॥
बहुधा स्नानकाले तु बालिकाभिर्वृता पथि ।
“का इमा”
इति सन्देहे “देव्यस्ता” इत्यमन्यत ॥२७॥
इत्थं बहुषु कालेषु देवीभिर्याऽऽवृताऽभवत्
।
तां नमामो
वयं मूर्ध्ना “सारदां” शारदोपमाम् ॥२८॥
कदापि षोडशीं मत्वा कदा त्रिपुरसुन्दरीम् ।
श्रीरामकृष्णदेवेन बहुशो दक्षिणेश्वरे ॥२९॥
सर्वोपचारैः सम्पूज्य स्तुतिभिर्या
प्रसादिता ।
तां वयं
“सारदां देवीं” मातरं सादरं नुमः ॥३०॥
पत्युः प्रयाणेऽपि च या तदाज्ञावशवर्तिनी ।
परित्राणाय भक्तानां स्वां तनुं पाञ्चभौतिकीम् ॥३१॥
विससर्ज न, सूक्ष्मेण देहेन समवस्थितम् ।
पतिं
सर्वत्र पश्यन्ती तां देवीं प्रणता वयम् ॥३२॥
“विवेकानन्द”-प्रभृति शिष्या ये
लोकविश्रुताः ।
यस्याश्चरणजां धूलिं वन्दयित्वा स्वमस्तकैः ॥३३॥
सर्वत्रैवात्र संसारे संप्राप्ता
विजयश्रियम् ।
महता
भक्तिभावेन तां देवीं “सारदां” नुमः ॥३४॥
“या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै
नमस्तस्यै नमस्तस्यै नमो नमः” ॥३५॥
पण्डितश्रीगोपालचन्द्रचक्रवर्तिवेदान्तशास्त्रिणा विरचितः श्रीसारदास्तवः समाप्तः ।
❀ ❀ ❀