श्रीसारदादेवीस्तोत्रम्
श्रीरामकृष्णोपदेशद्विशती१
‘कोऽहं’ परिचयादेव विद्यान्नारायणं नरः ।
शुद्धचैतन्यमेवैकं ‘नाहं’ किमपि विद्यते ॥१॥
अपक्कः स्यान्नरः सक्तः पुत्रदारगृहादिषु
।
‘नित्यशुद्धोऽहमीशस्य दासोऽहमिति पक्वता ॥२॥
संक्षेपतो ज्ञानहेतुमुपदेशं यदीच्छसि ।
“ब्रह्म सत्यं जगन्मिथ्या” ‘धारणे’त्यवधारय ॥३॥
यावद्देहस्थितिस्ताव’दहन्ता’ नापगच्छति ।
जीवन्मुक्तस्य पुंसस्तु न सा बन्धनकारणम् ॥४॥
‘अहं’ पदार्थबोधेन ‘त्वं’ पदार्थोऽपि
बुध्यते ।
पुण्येन बुध्यते पापमालोकेन तथा तमः ॥५॥
उपानद्गूढपादेन कण्टकोपरि गम्यते ।
सुखं चरति संसारे तत्त्वज्ञानावृतं मनः ॥६॥
विष्णुपरि स्थितो विष्णुर्विष्णुः खादति
विष्णुना ।
कथं हससि रे विष्णो ! सर्वं विष्णुमयं जगत् ॥७॥
साधोः सिद्धस्य शुद्धस्य ध्यानं
नित्यमपेक्षितम् ।
अनिशं मार्जनं नो चेत्कलसी मलिना भवेत् ॥८॥
नारी जवनिकान्तःस्थाऽन्यं पश्यति न तां
जनः ।
स्वान्तस्थो भगवानेवं सर्वद्रष्टा न दृश्यते ॥९॥
चौर्यं दीपप्रकाशे चेद्दीपदोषो न विद्यते ।
असत्कार्यं नरः कुर्यादीशदोषः कथं भवेत् ॥१०॥
माया ब्रह्मद्वयं नास्तीत्येकमेव
द्विधोच्यते ।
ब्रह्म कर्तृत्वशून्यं तु, माया कर्तृत्वमाश्रिता ॥११॥
ईश्वरः कल्पवृक्षोऽयं येन भावेन तं नरः ।
उपेयात्तमनुप्राप्य सखी दुःखो स्वयं भवेत् ॥१२॥
अकर्तुं कर्तुमीशोऽलं अन्यथा कर्तुमीश्वरः
।
जपाकुसुमशाखायां रक्तं श्वेतं सुमद्वयम् ॥१३॥
निराकारात्सदाकारं भिन्नं
यद्वज्जलाद्धिमम् ।
हिमरूपं तु साकारं जलरूपं निराकृति ॥१४॥
यत्स्मृतेर्दुःखमोक्षः स्यात्स जातः
पार्थसारथिः ।
तथापि चिन्ता पार्थस्यात हि चरितं हरेः ॥१५॥
ईशैकत्वानुभूतिः स्याद्ध्यानमनेन चेतसा ।
सविचारेण मनसा तस्यानेकत्वकल्पना ॥१६॥
भक्त्या भवेत्स साकारो ज्ञानेन च
निराकृतिः ।
शैत्येऽम्भो हिमतामेति हिममर्केण नीरताम् ॥ १७॥
अमलं खं, क्षणान्मेषैस्तमश्छन्नं
प्रभञ्जनात् ।
मेघा नष्टा, निर्मलं खमीशमायेयमीदृशी ॥१८॥
सत्सङ्गेन विचारेण माया दूरं विलीयते ।
जलपर्णी यथा दूरमेति वंशापसारिता ॥१९॥
माया नाम समासक्तिर्दारापत्यगृहादिषु ।
‘हरिः सर्वेषु भूतेषु’ भावना तु दयोच्यते ॥२०॥
पङ्किलेऽम्भसि सूर्यस्य प्रतिबिम्बं न
दृश्यते ।
‘अहं ममे’ति भावेन नरो नात्मानमीक्षते ॥२१॥
विषं विषधरस्यास्ये न तद्बाधाकरं भवेत् ।
बाधतेऽन्यं तथेशस्य मायास्मान्मुग्धतां नयेत् ॥२२॥
सर्वप्रकाशकः सूर्योऽप्यभ्रखण्डावृतो
भवेत् ।
तथा मायावृतः सर्वव्यापी सच्चित्सुखः प्रभुः ॥२३॥
‘भूतेन पीडितोऽहं’ चेज्ज्ञानं भूतः पलायते
।
‘मायया बाधितोऽहं’ चेज्ज्ञानं माया विनश्यति ॥२४॥
विद्याविद्या द्विधा माया सदसत्फलदायिका ।
विवेकादिस्वरूपाद्या कामक्रोधादिकाऽन्तिमा ॥२५॥
लोकभारान्यथा स्थानं नयत्यग्निरर्थेजिनम्
।
अवतारास्तथा मर्त्यान्मोचयन्ति सहस्रशः ॥२६॥
उपधानावृतिर्भिन्नवर्णैकस्तूल आन्तरः ।
नरः कृष्णोऽथ गौरो वा सर्वेष्वेकः परेश्वरः ॥२७॥
जनाः केचिच्छूर्पतुल्याः सारग्रहणतत्पराः ।
चालनीसदृशाः केचिदसारग्रहणे रताः ॥२८॥
गोमयान्तःस्थकीटाय गोमयं रोचतेऽनिशम् ।
सांसारिकेभ्यो जीवेभ्यो रोचन्ते विषयास्तथा ॥२९॥
केचिद् बद्धाः स्वयं जालेऽन्ये जालान्मोक्तुमिच्छवः ।
छिन्नबन्धास्तथा केचिज्जीवा मीना इव त्रिधा ॥३०॥
गृहकार्यपराप्यास्ते सती जारगतान्तरा ।
तथा सांसारिकोऽपि स्याद् भगवद्गतमानसः ॥३१॥
(युग्मम्) शिरोन्यस्तानेककुम्भा नारी काचिद्यथाध्वनि ।
यात्यन्याभिः प्रजल्पन्ती कुम्भदत्तान्तराऽनिशम् ॥३२॥
तद्वद्धर्मस्य पथिको मनो धर्मे निवेशयेत् ।
यदवस्थासु सर्वासु तन्नाधः पतितं भवेत् ॥३३॥
मकरस्य शरीरे चेत्क्षिप्तमस्त्रं वृथा यथा ।
संसारासक्त जीवस्य वृथा धर्मकथा तथा ॥३४॥
सर्वत्रार्काशवस्तुल्याः स्वच्छे त्वधिकदीप्तिदाः ।
सर्वस्मिन्भगवानास्ते साधौ तस्याधिका प्रभा ॥३५॥
विषयासक्तचित्तस्य प्रियं न विषयात्परम् ।
मत्स्यगन्धः प्रियो दाश्याः कुसुमानां न सौरभम् ॥३६॥
द्विविधा मक्षिका पक्कव्रणासक्ता मधुप्रिया ।
विषयी भगवद्भक्तिसमासक्तो द्विधा नरः ॥३७॥
शृणोति न स्वयं नाम सहते न परैः श्रुतम् ।
हसति ध्यानकर्तारं मूर्खो निन्दति धार्मिकान् ॥३८॥
मोदकावृतिरेकैव पूरणं विविधं पुनः ।
एकरूपा नराः सर्वे तथापि गुणभिन्नता ॥३९॥
अश्नाति कण्टकान्नित्यमुष्ट्रः कष्टकरानपि ।
तथैव जीवः संसारी विषयानेव सेवते ॥४०॥
‘सर्व देव’ इति श्रुत्वा गजमभ्येषि चे’त्सर’ ।
इत्थमाधोरणवचः प्रमाणीकुरुषे न किम् ? ॥४१॥
व्याघ्रेऽस्तित्वं भगवतस्तत्सङ्गो नोचितः परम् ।
एवमीशः खलेष्वास्ते वासस्तैः सह नोचितः ॥४२॥
सवाद्या वरयात्रा वा लोका वाऽऽयान्तु
यान्तु च ।
लक्ष्ये बद्धमना व्याधोऽवधूतस्य गुरुः परः ॥४३॥
अन्तेवासी दुर्लभः स्याद् गुरवस्तु सहस्रशः ।
यत्र तत्रोपदेष्टारः क्वचिदादेशपालकः ॥४४॥
यदि तीव्रानुरागः स्याद् भक्तो भजनसाधनः ।
चिन्तितः स्वहिते नो चेत्सद्गुरुं लभते ध्रुवम् ॥४५॥
उपदेशप्रदः कश्चित्कश्चिच्छिष्यशुभेच्छुकः ।
बलादपि हितः कोऽपि गुरवस्त्रिविधा मताः ॥४६॥
मध्वेवालिर्यतो नित्यं मीनं तु बकधीवरौ ।
पश्यन्ति नान्यत्किमपि ध्यानाचार्यास्त्रयोऽप्यतः ॥४७॥
चञ्चूधृतझषः कश्चिच्छ्येनोऽन्यैरनुधावितः ।
त्यक्तमत्स्यः शान्तिमाप सोऽवधूतगुरुः परः ॥४८॥
सञ्चित्सुखागमे जाते वृथा शास्त्रविचारणा
।
यथा मधुरसास्वादपर्यन्तमलिङ्गुञ्जनम् ॥४९॥
खे गृध्रोऽपि प्रयात्युच्चैरामिषासक्तमानसः ।
कामकाश्चनसक्तस्य शास्त्र-पाठो निरर्थकः ॥५०॥
चेद्वैराग्यविवेक न ग्रन्थानां परिशीलनम् ।
केवलं ग्रन्थितुल्यं तद्दम्भाहङ्कारकारणम् ॥५१॥
आत्मबोधो भवेन्नूनमेकेन वचसा गुरोः ।
परं तर्कवितर्काणां शतैरपि न जायते ॥५२॥
तावच्छब्दायते कुण्डी यावत्सा पूर्यतेऽम्भसि ।
पूर्ण पात्रे कुतः शब्दो ज्ञाते तत्त्वे न जल्पनम् ॥५३॥
कत्याम्राः कति वाम्राणि कियन्मूल्यं च कः प्रभुः ।
वृथेदं तत्त्वमास्वादो ब्रह्मास्वादोऽपि तादृशः ॥५४॥
हट्टाद् बहिः स्थितो ‘हो हो’ शब्दमात्रं शृणोति ना ।
विना धर्म-प्रवेशेन धर्मबोधोऽप्यसम्भवः ॥५५॥
संसारे सर्वमुच्छिष्टं वेदशास्त्रादिकं, पुनः ।
केवलं ब्रह्म नोच्छिष्टं यत्केनापि न वर्णितम् ॥५६॥
अनभिज्ञस्य बालस्य रतेरनुभवः कुतः ।
संसारासक्तचित्तस्य ब्रह्मानन्दो न जायते ॥५७॥
केवलं रटनं व्यर्थं ‘शिवोऽह’मिति निष्फलम् ।
सेव्यसेवकभावेन शिव न वरमेकता ॥५८॥
क्रीडायां ‘चोर-चोरे’ति स्थाणुं
स्पृष्ट्वा न चौर्यभाक् ।
पादपद्मं परेशस्य स्पृष्ट्वा बद्धो न जायते ॥५९॥
संसारो बन्धको न स्यात्संल्लग्ने मनसीश्वरे ।
हस्ते नित्यं दत्तचित्ता यथा पृथुककारिणी ॥६०॥
संसारे विद्यमानेऽपि साधको वीरसाधकः ।
मूर्ध्नि भारे स्थिते धीरो यथा दिक्ष्वाहितेक्षणः ॥६१॥
हस्तेन वादयन्वाद्यं गायत्यास्येन गायकः ।
कुर्वन्संसारकार्य त्वं हरिनाम जपं कुरु ॥६२॥
यथा पङ्कगतो मत्स्यः पङ्कलिप्तो न जायते ।
तद्वन्निर्लिप्तभावेन संसारे साधकः स्थितः ॥६३॥
तुलातुल्यं मनोऽस्माकं सवैराग्यं शिवं नमेत् ।
अधो गच्छति संसारे स्यादासक्तियुतं यदि ॥६४॥
गर्तेषु विद्यमानेषु क्षेत्रे न प्रसरेज्जलम् ।
मनो विषयगर्तेषु लग्नं गच्छति नेश्वरम् ॥६५॥
अन्तर्बहिर्यथा पश्येन्नरः काचगृहे स्थितः ।
नरोऽप्यधिगतज्ञानः स्वं जगच्चावलोकते ॥६६॥
मनः पुण्यं मनः पापं ज्ञानमज्ञानमेव च ।
पुण्यं मुक्तं ज्ञानमयं चेल्लग्नं तद्यदीश्वरे ॥६७॥
न क्षतिश्वेज्जले नौका नौकायां चेज्जलं क्षतिः ।
मनो वरं भवजले भवो न मनसि स्थितः ॥६८॥
शुको जल्पेद्धरेर्नाम चीत्कुर्यादोतुना धृतः ।
सुखेच्छुः कुरुते पुण्यं यमाक्रान्तस्तु विस्मरेत् ॥६९॥
हस्तयोस्तैलमालिप्य पनसं भञ्जयेन्नरः ।
संसारपनसं भङ्क्तुं ज्ञानतैलमपेक्ष्यते ॥७०॥
नरं दशति धर्तारं नरेन्द्रं न दशत्यसौ ।
कथं विवेकमन्त्रज्ञं दशेद्भवभुजङ्गमः ? ॥७१॥
हृदये यस्य यो भावो बहिः स प्रकटीभवेत् ।
साधुसङ्गेऽपि संसारी करोति विषयस्तुतिम् ॥७२॥
देवताराधने योग्यं फलं काकाद्यदूषितम् ।
पवित्रं बालहृदयं सुयोग्यं धर्मसाधने ॥७३॥
बालस्य षोडशकलमर्धमूढस्य पुत्रिणः ।
तदर्धं धनमात्रादिविभक्तं मानसं पुनः ॥७४॥
कण्ठरेखोद्भवं यावच्छक्यं स्याच्छुकपाठनम् ।
न जायते मनो लग्नं वृद्धस्येश्वरसाधने ॥७५॥
जलशून्यस्य पयसः पायसं त्वरितं भवेत् ।
बालो न विषयेच्छावान्संलग्नः क्षिप्रमीश्वरे ॥७६॥
वंशोऽपक्वो नमेत्तूर्णं भग्नश्चेत्पक्वतां गतः ।
बालकः सुखसाध्योऽस्ति वृद्धो ध्यानात्पलायते ॥७७॥
उत्तमं नवनीतं चेत्प्रत्यषे मथितं दधि ।
बाल्येऽनुरागो यद्यस्ति दृढतामेति स क्रमात् ॥७८॥
अग्निं शुष्कशलाकैका नार्द्राः कुर्युः शतान्यपि ।
एकं वचो मनः शुद्धः सिद्धं कुर्यान्न चान्यथा ॥७९॥
कपेः शिशुरिव ज्ञानी लक्ष्यार्थं स्वयमुद्यतः ।
भक्तो बिडाल शिशु वज्जन्मदातृसमाश्रितः ॥८०॥
यथैकः कस्यचिद्भ्राता जनको वाथ मातुलः ।
तथा भक्तोऽपि मधुरदास्य वात्सल्यभाववान् ॥८१॥
यथा भावस्तथा लाभस्तुच्छां सिद्धिं किमिच्छसि ।
ज्ञानादिरत्नमिच्छेस्त्वमीश्वरद्वारमागतः ॥८२॥
आन्तरा दन्तिनां दन्ता बाह्यतः सन्त्यनीक्षिताः ।
तथैव ज्ञानिनो भावो बहिर्ज्ञातुं न शक्यते ॥८३॥
गुप्तव्यक्तप्रभेदेन योगिनो द्विविधा मताः ।
आद्यस्य साधनं गुप्तं बाह्यचिह्नधरोऽपरः ॥८४॥
यथास्थितः प्रस्तरः स्यान्मृत्तिका
गलिताम्भसि ।
आपत्स्वपि स्थिरो भक्तो भीतः साधारणो जनः ॥८५॥
भगवच्चिन्तनाद्येषामविद्यापगता सुखम् ।
संसारे सन्तु किं वा चिदानन्दार्णवेऽथवा ॥८६॥
“येनाहं पीडितः सोऽपि क्षन्तव्यो भवतान्यथा ।
दुःखं ते सर्वगस्ये”त्थं प्रह्लादेनाश्रितः प्रभुः ॥८७॥
संसारासक्तितः साधुर्भवेन्निष्फलसाधनः ।
सच्छिद्राज्जलपात्राद्धि निर्गच्छत्यखिलं जलम् ॥८८॥
वालुकामिश्रितात्खण्डात् खण्डमत्ति पिपीलिका ।
संसारे सारमादत्तेऽसारं साधुस्त्यजत्यसौ ॥८९॥
मूषकार्थं बिडालोऽस्तु बिडालार्थं च गौस्ततः ।
गोचरो, भवनं, भृत्या, इति साधोर्विडम्बना ॥९०॥
प्रसन्नादीश्वरात्साधोः सिद्धिप्राप्त्यर्थमर्थनम् ।
अमृतं संपरित्यज्य पुरीषेक्षणलालसा ! ॥९१॥
“मत्तोऽपीभ्यतरः कश्चि”न्मत्वा स्वाहंकृतिं त्यजेत् ।
खद्योताद्धं ततोऽप्यब्जो तस्मात्सूर्योऽधिकप्रभः ॥९२॥
आदर्शे मलिने जाते मुखं स्पष्टं न दृश्यते ।
मनः शुद्धं न कर्तव्यं सुवर्णमलदूषितम् ॥९३॥
भक्तस्य ज्ञानिनो वापि नाभीष्टा सिद्धिकामना ।
ईश्वरं प्रति भावं नः सिद्धिरेकापि नाशयेत् ॥९४॥
वासना लेशमात्रापि भगवल्लाभबाधिका ।
सूत्रं तु ग्रन्थिसंयुक्तं नार्हं सूचीप्रवेशने ॥९५॥
सरस्यल्पजलं चेत्तच्छनैरुपरितः पिबेत् ।
अन्यथाम्भो दूषितं स्यात्साधनापि शनैर्भवेत् ॥९६॥
धर्मचर्चां न कुर्वन्ति हसन्त्यन्यैः कृता यदि ।
निन्दन्ति धार्मिकान्मूर्खास्तेभ्यस्तिष्ठन्ति दूरतः ॥९७॥
ईशकल्पद्रुमं प्राप्तुं सुखं भोगं धनं त्यजेत् ।
नो चेद् व्याघ्रः शोकतापरोगरूपो विनाशयेत् ॥९८॥
स्वप्नेऽपि यस्य नासक्तिर्भोगे वापि धनार्जने ।
त्यागी स एव संन्यासी, साधनं नश्यतेऽन्यथा ॥९९॥
जनशून्येऽपि युवतिं दृष्ट्वा 'मात'रिति ब्रुवन् ।
त्यागी भवेत्सभायां तु ‘मातः’ सर्वोऽपि भाषते ॥१००॥
तैलाभ्यक्तं न लेखार्हं स्यात्पत्रं कठिनीं विना ।
जीवो न कामतैलाक्तसाधनार्दोऽविरागतः ॥१०१॥
भूतं हरेत्सर्षपैर्यो भूतं तस्यैव बाधकम् ।
साधने विषयासक्तिस्तत्साधनविनाशकृत् ॥१०२॥
साधनं सफलं यस्मिन्मनसैकी भवन्मुखम् ।
मुखे ‘त्वं देव सर्वस्वं’ विषया मनसि स्थिताः ॥१०३॥
प्रयत्नेनापि महताऽहङ्कारो नोपहन्यते ।
छिन्नेऽपि मस्तके छागकबन्धं नृत्यतत्परम् ॥१०४॥
प्रायोऽशक्या द्रुतं लब्धुमभिमानस्य शून्यता ।
पलाण्डुगन्धः पात्रस्य क्षालनेऽपि न नश्यति ॥१०५॥
प्राप्यापि मानुषं जन्म दुर्लभं यतते न यः
।
सच्चिदानन्दलाभार्थं वृथा तस्येह जीवनम् ॥१०६॥
भगवन्नाम्नि विश्वासः श्रेष्ठं साधनमुच्यते ।
चित्तशुदुद्ध्या नरो येन सच्चिदानन्दमनुते ॥१०७ ॥
गुरोर्वचसि विश्वासस्तथा निष्कपटं मनः ।
स्वभावस्य च सारल्यमीशलाभाय कल्पते ॥१०८॥
व्यवहारं प्राड्विवाका वैद्याश्च गदमौषधम् ।
साधुभक्तास्तथा दृष्टाः स्मारयन्तीशभावनाम् ॥१०९॥
अहेराखुबिले वासः स्वं न निर्मात्यसौ बिलम् ।
साधुरप्यनिकेतः स्याच्छ्रयत्यन्यगृहं क्वचित् ॥११०॥
संसारमदमत्तानां साधुसङ्गतिरौषधम् ।
व्रीहिधावनपानीयं यथा मदविनाशकम् ॥१११॥
‘तिथिं वारं च नक्षत्रं नाहं जानामि किञ्चन ।
रामपादाम्बुजं जाने’ हनूमानिदमत्रवीत् ॥११२॥
सच्चिदानन्दसम्प्राप्तिर्निष्ठां भक्तिं विना कुतः ।
इष्टनिष्ठः पुमान्साधुः पतिनिष्ठा यथा सती ॥११३॥
बासो जगति कर्तव्यः कृत्वैकान्ते स्थिरं मनः ।
दृष्ट्वा श्रुत्वाऽन्यथा तत्तच्चञ्चलं तत्प्रजायते ।।११४॥
क्षीरं नीरेण मिलितमेकरूपं प्रजायते ।
नवनीतं परं नीरे पृथगेवावभासते ॥११५॥
मा भूच्चिन्ता न
लाभश्चेदीश्वरस्यैकसाधनात् ।
रत्नं रत्नाकराल्लभ्यं कथं मज्जनमात्रतः ॥११६॥
प्राप्य सिन्धौ स्वातिबिन्दुं यात्यधः शुक्तिकीटकः ।
लब्धमन्त्रो गुरोर्मग्नः साधकः साधनार्णवे ॥११७॥
यथाभ्यर्थ्या नैकभृत्याः पूर्वं नृपतिदर्शनात् ।
ईशप्राप्तौ तथा कार्य सत्सङ्गभजनादिकम् ॥११८॥
अल्पसिद्धयादिकं प्राप्य सन्तोषो न वरं तव ।
क्रमात्काष्ठहरः प्राप्नोत् काष्ठ-चन्दन-हाटकम् ॥११९॥
क्षेपणं हस्तपादस्य चिरं तरणपूर्वतः ।
तर्तुं ब्रह्मसमुद्रेऽपि पतनोत्थानसन्ततिः ॥१२०॥
धीवरः सावधानोऽस्ति मत्स्यार्थं बलिशादिमान् ।
सधैर्यभक्तिर्भक्तोऽपि यतेताप्तुं शिवं शनैः ॥१२१॥
कृपणोऽर्थे, सती पत्यौ, विषयी विषयेषु च ।
सक्ता नित्यं दत्तचित्तो भव त्वं तद्वदीश्वरे ॥१२२॥
त्यक्तक्रीडो रुदन्बालः स्वमातुः क्रोडमाश्रितः ।
शान्तो भवेत्तथा त्यक्तकामस्त्वं परमाश्रय ॥१२३॥
‘विषयाप्तिर्न पुत्राप्तिर्ने’त्थमश्रुपराः शतम् ।
नैकोऽपीश्वरलाभार्थमश्रबिन्दुं सृजेन्नरः ॥१२४॥
अतिव्याकुलितप्राणो जलस्याभ्यन्तरे भवेत् ।
भगवल्लाभसिद्ध्यर्थं भक्तोऽपि व्याकुलोऽनिशम् ॥१२५॥
मातुः पणान्समाप्नोति बालः क्रन्दनताडनैः ।
सोत्कण्ठक्रन्दनैः प्राप्यं जगतीमातृदर्शनम् ॥१२६॥
आर्तः सन्नश्रुपूर्णाक्षो वदेन्मातर्दिनं गतम् ।
नाद्यापि दर्शनं प्राप्तमिति व्याकुलचित्तता ॥१२७॥
“सरसीजलमिच्छामि गाङ्गं तु मलिनं जलम्” ।
मूर्खस्य वचनं ‘धर्मो गौणोऽयमयमुत्तमः’ ॥१२८॥
रत्नानि शतशो लभ्यान्यापणे लक्षरूपकैः ।
कृष्णभक्तिः कुतो लभ्या जातिमानधनैरपि ? ॥१२९॥
‘फोटो’ द्रव्यविशेषाक्ते काचखण्डे यथा पतेत् ।
भक्तियुक्ते मनस्येवं प्रतिबिम्बं हरेर्विशेत् ॥१३०॥
अहल्योक्तवती “राम जन्म शूकरयोनिषु ।
वरं, त्वत्पादपद्मे चेदचला भक्तिभावना ॥ १३१ ॥
चेद्भावगद्गदो भूत्वा प्रभुमाकारयेन्नरः ।
तत्क्षणं दर्शनं तस्य न शुष्काह्वानमात्रतः ॥१३२॥
सन्ध्यादिकं तावदिष्टं भक्तिप्रेमान्वितं मनः ।
यावन्नाश्रुयुतं चक्षुर्न च रोमाचिता तनुः ॥१३३॥
विषया विनिवर्तन्ते स्वयमेबेशभक्तितः ।
शर्करापेयमास्वाद्य गुडपेयं कथं स्मरेत् ? ॥१३४॥
“गृहिणी त्वं गृहं चाहं रथी त्वं चाप्यहं रथः ।
त्वन्नियुक्तोऽखिलं कुर्या”मिति भक्तस्य भावना ॥१३५॥
प्रविश्य नाशयेत्पूर्णं तृणच्छन्नं गजो गृहम् ।
भावहस्ती प्रविश्यान्तर्देहागारं विनाशयेत् ! ॥१३६॥
आदौ भावस्ततः प्रेम ततो भावसमाधिता ।
कीर्तने क्रमशो बाह्यविस्मृत्या मूकतान्तिमा ॥१३७॥
न केवलं जगद्याति विस्मृतिं जपतो हरिम् ।
देहोऽपि विस्मृतिं याति यस्तस्यातिप्रियो भवेत् ॥१३८॥
लोकदृष्टया सुप्ततुल्यो योऽन्तर्मशकवारिणि
।
ध्यानस्थो जनदृग्वर्जं ध्यानी सात्त्विक उच्यते ॥१३९॥
ध्यानावस्थानमध्येऽस्य निद्रेवायाति कुत्रचित् ।
योगनिद्रोच्यते यत्र भगवद्रूपदर्शनम् ॥१४०॥
यत्र स्याद्धेययतादात्म्यं तदेव ध्यानमुच्यते ।
तदानीं नानुभूयेत पक्षिणां शिरसि स्थितिम् ॥१४१॥
मांसतुल्यं हविष्यान्नं तेन
चेन्नेशदर्शनम् ।
हविष्यान्नसमं मांसं लाभस्तेनेश्वरस्य चेत् ॥१४२॥
तमश्छन्न गृहं दीपशलाकैका प्रकाशयेत् ।
तद्वदीशकृपा जन्मान्तरपापं विनाशयेत् ॥१४३॥
चन्दनीस्युः ससारा ये वृक्षा मलयमारुतैः ।
भगवत्कृपयाप्येवं पूर्णतां यान्ति साधवः ॥१४४॥
पङ्कलिप्ताङ्गबालानां पितरौ शुद्धिचिन्तकौ ।
संसारमलिनाङ्गानामीश्वरः शुद्धिकारणम् ॥१४५॥
स्पर्शस्पर्शादयो हेम पङ्के वा
सङ्करेऽस्तु वा ।
सचित्सुखी सुखी तद्वत्संसारे वा वनेऽथवा ॥१४६॥
खड्गः स्पर्शमणेः स्पर्शात्सौवर्णः स्यादहिंसकः ।
जातेशचरणस्पर्शो नासत्कार्य परो नरः ॥१४७॥
सिद्धं यथालुवृन्ताकं कोमलं जायते भृशम् ।
कोमलप्रकृतिर्याति सिद्धोऽहङ्कारशून्यताम् ॥१४८॥
स्वप्रसिद्धा मन्त्रसिद्धा हठात्सिद्धास्तथापरे ।
नित्य सिद्धास्तथा केचिदने के सिद्धसाधकाः ॥१४९॥
कारण्डवो जले तिष्ठञ्जलास्पृष्टतनुः स्वयम् ।
जीवन्मुक्तोऽपि संसारे निर्लेपो वसति ध्रुवम् ॥१५०॥
नौः कयापि दिशा गच्छेदुदक्कम्पाससूचिका ।
ईश्वरे स्थिरचित्तस्य भयं संसारिणः कुतः ? ॥१५१॥
जले चिरं स्थितोऽप्यग्निदृषदग्निप्रदो द्रुतम् ।
विकाररहितः सिद्धोऽप्यसत्सङ्गस्थितश्विरम् ॥१५२॥
तादृशीं सिद्धिमाप्नोति भावना यस्य यादृशी ।
कीटो भ्रमरतामेति सच्चिद्ध्यानात्तथेशताम् ॥१५३॥
कटिवस्त्रं क्वचिच्छीर्षे क्वचित्कुक्षौ च धारयेत् ।
उन्मत्तो; निर्त्यासद्धस्य बाह्याचारोऽपि तादृशः ॥१५४॥
पतिते नारिकेलादिपत्रे चिह्नं विलोक्यते ।
एवं दानाशनस्वप्ना गलितायामहङ्कृतौ ॥१५५॥
यद्वदाम्रफलं पक्कं स्वयमेव पतेद्भुवि ।
आत्माहंता ज्ञानलाभेऽदृश्यतां याति सत्वरम् ॥१५६॥
चोरः कश्चिद् हन्तुमिच्छत्यन्यः पथिकबन्धनम् ।
अपरो बन्धनच्छेदं त्रिगुणाः सन्ति मानवाः ॥१५७॥
शुष्कपत्रं यथाहंता शून्यं नीयेत वायुना ।
यत्र कुत्रापि दिग्भागे मुक्तावस्थापि तादृशी ॥१५८॥
धान्यं सिद्धं यदा याति नाङ्कुरोद्भेदहेतुताम् ।
सिद्धानामपि संसारे पुनर्जन्म न विद्यते ॥१५९॥
संसारे सारमादाय सिद्धोऽसारं परित्यजेत् ।
हंसो हि क्षीरमादते तन्मिश्रं वर्जयेज्जलम् ॥१६०॥
अज्ञानं, ज्ञानमन्ते च सच्चिदानन्द आप्यते ।
कण्टकं कण्टकोत्खातं कृत्वा त्याज्यं तदोभयम् ॥१६१॥
साक्षात्कारो यस्य जातः सोऽकार्यं कथमाचरेत् ।
नरो नृत्यकलाभिज्ञस्तालशून्यं न नृत्यति ॥१६२॥
कचः समाधिभङ्गे तत्पित्रा पृष्टः ‘किमीक्षसे ।‘
“ईक्षे ब्रह्ममयं सर्वं नान्यत्किमपि” सोऽब्रवीत् ॥१६३॥
एत्यैकतो
‘ग्यास’कान्तिर्भिन्नरूपैर्ज्वलेत्पुरे ।
भिन्नदेशीय जातीया आयान्त्येकेश्वरात्तथा ॥१६४॥
वंशनिश्रेणिसोपानैर्गृहोपरि तले जनाः ।
यान्त्येवमीशलाभार्थमुपायानामनेकता ॥१६५॥
एक एवेश्वरः किन्तु भावनामान्यनेकशः ।
भावेन येन नाम्ना वा त्वमिच्छेस्तेन लभ्यते ॥१६६॥
यः कश्चिद्येन केनापि नाम्ना रूपेण वा स्मरेत् ।
सच्चित्सुखः स एवैको भगवान्प्राप्यते ध्रुवम् ॥१६७॥
“मतेषु मार्गा भिद्यन्ते” गम्य एको भवेन्नृणाम् ।
यथेष्टस्थानमायान्ति पदप्लवरथैर्जनाः ॥१६८॥
वेत्ति माता कः किमिच्छेत्तुल्यस्नेहाऽपि सूनुषु ।
विभिन्न साधकानीशः प्रीणयेद्भिन्नसाधनैः ॥१६९॥
भूमिरेका वृथा वादो ‘ममेयं भूरिदं गृहम् ।‘
धर्म एकः परं ‘श्रेष्ठो ममैवे’ति विवादभूः ॥१७०॥
कूपमण्डूकवद्भावः परधर्मविनिन्दकः ।
सद्भक्तोऽभेदभावः सन्नित्यं साधनतत्परः ॥१७१॥
नाना मतानि हिन्दूनां किं श्रेयस्तेषु चेच्छृणु ।
विश्वासस्तव यत्रैव; विश्वासे वसतीश्वरः ॥१७२ ॥
एको देवो भिन्नभावैः साधकैः समुपास्यते ।
मत्स्यः सिद्धो यथा ‘सूप-चर्चडी’ भाजनादिषु ॥१७३॥
एकमेव यथा तोयं ‘जलं पानी च वॉटरम् ।‘
भाषाभेदोऽस्तु सर्वत्र वस्तुभेदो न विद्यते ॥१७४॥
येन केनापि भावेन भगवन्नामचिन्तनम् ।
कृतं श्रेयस्करं, स्वादुर्मोदकः सर्वतो दिशम् ॥१७५॥
पारदेन समं पापं नोदरे पच्यते मनाक् ।
पापं फलति सर्वत्र पारदो बहिरेति च ॥१७६॥
तन्तुकीटस्तन्तुबद्धो बहिर्गच्छेत्प्रजापतिः ।
संसारी कर्मभिर्बद्धो वैराग्येणैव मुच्यते ॥१७७॥
सायं प्रातर्हरेर्नाम ग्राह्यं
स्याद्धस्ततालकैः ।
हस्ततालैदेहवृक्षाद् डीयन्तेऽज्ञानपक्षिणः ॥१७८॥
अधुनान्नगतप्राणे कलौ दुर्बलमानसे ।
श्रेष्ठं संसाररोगार्थं हरिनामैकमौषधम् ॥१७९॥
जानन्नजानन् भ्रान्तो वा तन्नामोच्चारमात्रतः ।
सफलो जायते जीवो नोपाये विद्यते क्रमः ॥१८०॥
सुधाकुण्डे स्वयं मग्नो हठादन्येन पातितः ।
अमृतत्वमुभौ यातो हरिनाम्नि तथा बलम् ॥१८१॥
नारदोक्तो भक्तिमार्गः कलावेकः सहायकः ।
आसीदन्ययुगेष्वत्र तपस्यादि सुदुष्करम् ॥१८२॥
धर्मप्रचारकवचः श्रुतं दूरे न चान्तिके ।
आलोको प्रसरेद् दूरं परं दीपतले तमः ॥१८३॥
प्रज्वाल्य कश्चित्काष्ठानि जाड्येऽनेकसहायकः ।
तपः शुद्धस्तथा ज्ञानी बहूनामुपकारकः ॥१८४॥
आत्मनो धर्मलाभाय कथामात्रमलं भवेत् ।
अन्योपदेशे शास्त्राणां सूक्ष्माध्ययनमिष्यते ॥१८५॥
महापुरुषसान्निध्ये स्थिता नेक्षन्त आदरात् ।
प्रेक्षका दूरतः शंसन्त्यैन्द्रजालिकलाघवम् ॥१८६॥
दूरतः शाल्मलीबीजं न वृक्षस्य तले पतेत् ।
सुदूरादनुगम्यन्ते तथा धर्मप्रचारकाः ॥१८७॥
ज्ञानदीपे ज्वलत्येव शुद्धे हृदयमन्दिरे ।
अविद्या विद्यमानापि सुचिरं नश्यति क्षणात् ॥१८८॥
भोगार्थपाशनाशेन नरो नारायणं स्मरेत् ।
भोगार्थावन्तरायौ हि परेशप्राप्तिवर्त्मनि ॥१८९॥
परदोषगुणाख्याने वृथा यः समयं नयेत् ।
कथं तस्य भवेच्छक्यं स्वात्मतत्त्वविचारणम् ॥१९०॥
अहङ्कारतमश्छन्नदृष्टिः पश्येत् कथं परम् ।
तस्मात्सर्वप्रयत्नेन स्वाहंभावं विनाशयेत् ॥१९१॥
अन्योन्यकलहो व्यर्थः सर्वे धर्मा धरातले ।
एकमेवेश्वरं यान्ति समुद्रं सरितो यथा ॥१९२॥
यावदेव जरा दूरं तावदात्महितो भवेः ।
यमपाशपरीतस्त्वं वार्धक्ये किं करिष्यसि ॥१९३॥
सगुण निर्गुणो वापि परमात्मायमव्ययः ।
साकारोऽपि निराकारः प्रोच्यते सर्वशक्तिमान् ॥१९४॥
रसामवतरत्येष करुणावरुणालयः ।
नरान्संसारसंसक्तानुद्धरिष्यन्सहस्रशः ॥१९५॥
द्वयोर्भेद इवाभाति जीवात्मपरमात्मनोः ।
मायोपाधिवशान्नूनं जलबुद्बुदभेदवत् ॥१९६॥
केचित्पुत्रार्थलाभार्थं धनलाभाय केचन ।
इतस्ततः प्रधावन्ति न केऽप्यक्षयसम्पदे ॥१९७॥
ईश्वरार्पणबुद्ध्यैव कर्तव्याः सकलाः क्रियाः ।
निर्लेपो हि नरस्तेन पद्मपत्रं जले यथा ॥१९८॥
क्षणभङ्गुरसत्ताका काचकङ्कणवत्तनूः ।
आत्मा परं चिरस्थायी यथा सौवर्णकङ्कणम् ॥१९९॥
नाम्भो गङ्गाजलं, धूलिर्नच वृन्दावने रजः ।
जगन्नाथप्रसादोऽपि नान्नं ब्रह्मैव तत् त्रयम् ॥२००॥
साहित्याचार्य एम्. ए. श्रीभण्डारकरोपाह्वेन त्र्यम्बकशर्मणा संस्कृत श्लोकेष्वनूदिता ‘श्रीरामकृष्णोपदेशद्विशती’ समाप्ता ।
शैवायं ‘शिव’ मामनन्ति ‘जननीकाली’ति
शक्तिप्रिया,
‘रामः’
‘कृष्ण’ इतीह वैष्णवजना बौद्धाश्च बुद्धाख्यया ।
ख्रैस्ताः ‘स्वर्गपिते’ति यत्र निरता ‘अल्ले’ति मौहम्मदा,
भूमेत्यद्वयवादिनोऽवतु स वः श्रीरामकृष्णः स्वयम् ॥
‘वेदमूर्ति-चरितं’ पठन्ति ये, श्रावयन्ति
सुजनान्समादरात् ।
सन्तरन्ति सततं भवाम्बुधिं, ते भवन्ति खलु मुक्तिभाजनम् ॥
इति
'वेदमूर्तिश्रीरामकृष्णः’ ग्रन्थः समाप्तः ।
ॐ श्रीरामकृष्णसारदादेव्यर्पणमस्तु ।
शान्तिः शान्तिः शान्तिः ।
१ उद्बोधनकार्यालयप्रकाशित-स्वामिब्रह्मानन्दसङ्कलितात् ‘श्रीश्रीरामकृष्णोपदेशग्रन्थात्’ सङ्गृहीता ।